सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 325, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 325

ग्रहभक्तियोगाध्यायः २८५
हस्ती। अश्वस्तुरगः। पुरोहितो नृपाचार्यः। भूपो राजा। मन्त्री सचिवः। मङ्गलकार्येषु
विवाहोपनयनादिषु पौष्टिकेषु य आसक्ता रताः। कारुण्ययुता अनुकम्पाशीलाः। सत्ययुताः
सत्यभाषिणः। शौचयुताः शौचरताः परधनादिष्वलुब्धाः। व्रतयुतास्तपस्विनः। विद्यायुताः।
दानयुताः। धर्मयुताः।
पौराः पुरे भवाः। महाधना ईश्वराः। शब्दविदुषो वैयाकरणाः। अर्थविदुषः पण्डिताः।
वेदविदुषो वेदज्ञाः। अभिचारज्ञाः। नीतिज्ञा नीतिशास्त्रविदः। मनुजेश्वरोपकरणं मनुजेश्वरो
राजा तदुपकरणमायुधसन्नाहादि। छत्रमातपत्रम्। ध्वजो बहुपटविनिर्मितं चिह्नम्। चामरं
बालव्यजनम्। आदिग्रहणात्तालवृन्तादिकम्।
शैलेयं सुगन्धद्रव्यम्। कुष्ठम्। मांसीतगरम्। रसं वोलम्। सैन्धवं लवणम्। वल्लींजं
मुद्गादि। मधुरा ये च रसाः। मधूच्छिष्टं सिक्थकम्। चोरकं सुगन्धद्रव्यम्। एते सर्व
एव जीवस्य गुरोः। तथा च काश्यपः—
त्रैगर्तसिन्धुसौवीराः शतद्रूमथुरे अपि।
स्रुघ्नौदीच्यविपाशाश्च पारताम्बष्ठकास्तथा।।
राजा पुरोहितो मन्त्री माङ्गल्यं पौष्टिकं व्रतम्।
कारुण्यं कर्म सिद्धानां विद्याशौचतपस्विनाम्।।
मत्स्याश्च वाटधानाश्च यौधेयाश्चार्जुनायनाः।
सारस्वताश्च रमठा हस्त्यश्वध्वजचामराः।।
शब्दार्थविदुषः पौरा नीतिज्ञाः शीलसंयुताः।
मांसीतगरकुष्ठं च शैलेयं लवणं रसाः।।
मधुरस्वादवल्लींजं विप्राणां चाधिपो गुरुः। इति।।२०-२४।।
अथ शुक्रस्याह—
तक्षशिलमर्तिकावतबहुगिरिगान्धारपुष्कलावटकाः। ।
प्रस्थलमालवकैकयदाशार्णोशीनराः शिबयः॥२५॥
ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च।
रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥२६॥
सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः।
वरतरुणयुवतिकामोपकरणमृष्टान्नमधुरभुजः ॥२७॥
उद्यानसलिलकामुकयशःसुखौदार्यरूपसम्पन्नाः। ।
विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ॥२८॥
कौशेयपट्टकम्बलपत्रोर्णिकरोध्रपत्रचोचानि ।
जातीफलागुरुवचापिप्पल्पश्चन्दनं च भृगोः॥२९॥