सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 316, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 316

२७६ बृहत्संहिता
यमुत्तरफल्गुन्युत्तराषाढोत्तरभद्रपदा इति। एतद्राज्ञां क्षत्रियाणां नक्षत्रचतुष्टयम्। सपौष्णमैत्रं
पितृदैवतं चेति। मैत्रमनुराधा। सपौष्णं पौष्णेन रेवत्या सहितम्। पितृदैवतं मघा। प्रजापतेर्भं
प्राजापत्यं नक्षत्रं रोहिणी। चशब्दः समुच्चये। एतत्कृषीवलानां कर्षकाणां वैश्यानां नक्षत्र-
चतुष्टयम्।
आदित्येति। आदित्यं पुनर्वसुर्हस्तोऽभिजित्। आश्विनमश्विनी। एतानीमानि वणिग्जनानां
किराटलोकानां चत्वारि प्रवदन्ति कथयन्ति। मूलम्। त्रिनेत्रो रुद्र आर्द्रा। अनिलः स्वातिः।
वारुणं शतभिषग्। एतानि चत्वारि प्रभविष्णुतायाः प्रभावशीलाया उग्रजातेः क्रूरजनस्य।
सौम्यं मृगशिराः। ऐन्द्रं ज्येष्ठा। त्वाष्ट्रं चित्रा। वसुदैवतं धनिष्ठा। एतानि चत्वारि
नक्षत्राणि सेवाजनस्य सेवाभिरतस्य स्वाम्यं प्रभुत्वमुपगतानि प्राप्तानि। सार्पमाश्लेषा।
विशाखा। श्रवणः। भरणी। एतानि चत्वारि नक्षत्राणि चण्डालजातेश्चण्डालानामभिनिर्दिशन्ति
कथयन्ति मुनयः॥२८-३०॥
अथ क्रूरग्रहप्रयोजनमाह—
रविरविसुतभोगमागतं क्षितिसुतभेदनवक्रदूषितम्।
ग्रहणगतमथोल्कया हतं नियतमुषाकरपीडितं च यत् ॥३१॥
तदुपहतमिति प्रचक्षते प्रकृतिविपर्यययातमेव वा।
निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ॥३२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रवि और शनि से भुक्त, मङ्गल के भेदन या वक्र गमन से दूषित, ग्रहणकालिक,
उल्का से हत, चन्द्रकिरण से पीड़ित ( चन्द्रमा जिस नक्षत्र की योगतारा को आच्छादित या
उसके दक्षिण भाग में होकर गमन करे ) या स्वाभाविक उत्तम गुण से रहित नक्षत्र को मुनि
लोग पीड़ित कहते हैं। इस तरह पीड़ित नक्षत्र पूर्वोक्त अपने वर्ग का नाश और उक्त से भिन्न
लक्षणयुत हो तो उनकी वृद्धि करता है॥३१-३२॥
इति 'विमला'हिन्दीटीकायां नक्षत्रव्यूहाध्यायः पञ्चदशः ॥१५॥
रविरादित्यः। रविसुतः शनैश्चरः। अनयोरेकस्य यन्नक्षत्रं भोगमागतं भोगं प्राप्तम्।
क्षितिसुतो भौमस्तद्भेदनेन मध्यगमनेनाच्छादनेन वा तद्वक्रेण वा दूषितं दुष्टम्। ग्रहणगतं
यन्नक्षत्रं यत्र स्थितोऽर्कश्चन्द्रो वा राहुणा ग्रस्यते तद्ग्रहणगतम्। अथोल्कया हतमुल्का-
निपीडितम्। नियतं सर्वकालमुषाकरेण चन्द्रेण यत्पीडितम्। यस्य नक्षत्रस्य चन्द्रमा योग-
तारकाभेदेन आच्छादनं मध्यगमनं दक्षिणभागगमनं वा करोति तदुषाकरपीडितम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA