भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
- ३०४ -
बीजमन्त्रं चिरात्सिद्ध्येन्नाममन्त्रं तु तत्क्षणात् ।
रामरामादिकं नाम बीजं मायारसादिकम् ॥ १५ ॥
बीजचैतन्यसाक्षात्त्वे बीजं सिध्यति तत्क्षणात् ।
तत्तु दूरतरं लोकं भावनावसचेतसाम् ॥ १६ ॥
कोटिबालार्कसंकाशं कोटिचन्द्रसमप्रभम् ।
कोटिविद्युत्प्रतीकाशं चमत्कारकलानिधिम् ॥ १७ ॥
भावयेन्मन्त्रचैतन्यं स्वात्माभेदेन साधकः ।
तत्प्रभापुञ्जसंजातहस्तपादादिविग्रहम् ॥ १८ ॥
भावयेन्मन्त्रदेवं च रामचन्द्रं परात्परम् ।
या यस्य भावनासक्तिः सा मूर्तिस्तस्य विस्फुरेत् ॥ १९ ॥
साक्षात्कृतो देवदेवो दत्ते कामपरं पुरः ।
आचारपूततां ब्रह्मा विष्णुः श्रियमनश्वराम् ॥ २० ॥
ऐश्वर्यं भगवानीशो बलं तु मघवा हरिः ।
सूर्यस्तेजः शशी चायुरग्निरोजः प्रयच्छति ॥ २१ ॥
सरस्वती सरस्वतीमुमादेवी पराक्रमम् ।
कुबेरश्च धनं भूरि वायुर्दत्ते बलोद्भवम् ॥ २२ ॥
वरुणः शान्तिमतुलां यमो धर्मबलोदयम् ।
निर्ऋतिः कुरुते वृद्धिमन्ये देवास्तथा वरान् ॥ २३ ॥
अहं पुनर्भीति च प्रपन्नेभ्यो ददामि वै ।
एवं मन्त्रं समाराध्य कृतकृत्यो भवेन्नरः ॥ २४ ॥
नहि मन्त्रेण सदृशं शीघ्रोपायेषु विद्यते ।
नामोपात्रस्ततः शीघ्रः प्रवक्ष्यामि च तं मुने ॥ २५ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां त्रयोदशोऽध्यायः ॥ १३ ॥
✤
चतुर्दशोऽध्यायः
श्रीराम उवाच
नामैव मम जीवातुर्भक्तानां दृढचेतसाम् ।
नामैव तारक ब्रह्म भवाब्धेरतिदुस्तरात् ॥ १ ॥
- ३०५ -
नामश्रीनामसंयुक्तं मम वित्तैकपार कम् ।
तारकं पारकं ब्रह्म यो जानाति स पण्डितः ॥ २ ॥
स एत्व वैष्णवो भक्तः प्रेमसत्कृतमानसः ।
स एव सर्वदर्शी च स एव मम बल्लभः ॥ ३ ॥
नामामृतमुदारं मे मोहध्वान्तविनाशकम् ।
ब्रह्मानन्दाधिकं नाम रामचन्द्रपदात्मकम् ।
प्रेमानन्दमय ज्ञेयं रामेति द्व्यक्षरं पुनः ॥ ४ ॥
गृह्णन्ति रामेति च नाम नित्यं भक्ता भवाब्धेस्तर णाय तावत् ।
रामेति मे नाम पुनर्गृणन्तः प्रेमामृतं भूरितर पिबन्ति ॥ ५ ॥
रामेति रेफोऽनलकीलयोगो मकारचन्द्रः स्रवतेऽमृतानि ।
संस्नाति यस्तत्र नरोऽतिधन्यः स मे प्रियो वैष्णवभक्त राजः ॥ ६ ॥
प्रणवादपि मन्नाम मद्रूपत्वप्रदायकम् ।
अधिकं खलु विज्ञेय साक्षान्मद्रूपबोधनात् ॥ ७ ॥
अन्तरङ्गात्मिका सृष्टिर्नामरूपात्मिका मम ।
उभे अपि सदा नित्ये अविनाभाववत्यपि ॥ ८ ॥
नामसृष्टिः समस्तापि रामेत्यत्र समाप्यते ।
रूपसृष्टिस्तथा सर्वा श्यामे धाम्नि समाप्यते ॥ ९ ॥
मन्नाम द्व्यक्षरं ब्रह्मन् ममापि प्रीतिदायकम् ।
रमेऽहमपि मे धाम्नि श्यामे परमसुन्दरे ॥ १० .।
आकाशमतसीपुष्पं तापिच्छद्रुम कोरकम् ।
ममाङ्गतुलनाप्राप्तं लोके धन्यतमं खलु ॥ ११ ॥
मद्धर्मबोधकं नाम यद्राम इति गोपितम् ।
तद् गृणँल्लभते तादृक् स्वरूपं सहजोज्ज्वलम् ॥ १२ ॥
मद्रूपमविनाभूतं ध्यायन् मुच्येत पातकात् ।
अमुनाद्व्यक्षरेणैव रामेति रुचिरात्मना ॥ १३ ॥
रामेति द्व्यक्षर नाम गोपयेन्निजचेतसि ।
उपांशुना जपेन्नित्यं स्फोरयेन्न गलाध्वना ॥ १४ ॥
उच्चैःशब्देनापि नियमेकान्ते राममुच्चरेत् ।
एवं मां नामरूपाभ्यां भावयेत्सुसमाहितः ॥ १५ ॥
मन्नित्यलीलासम्बन्धं प्रमोदर्विपिने लभेत् । ^
तस्मान्नामपरो नित्यं भवेदेकान्तवैष्णवः ॥ १६ ॥
नामशक्त्याशया जातु न कुर्यात्पातकं जनः ।
नामग्रहणगर्वं च न कुर्याद्भक्तसंसदि ॥ १७ ॥
३९
- ३०६ -
नामोद्धारं न कुर्वीत गृह्णीयात्प्रयतः सदा ।
अन्यदेवस्य यन्नाम मन्नाम्ना तुलयेन्न तत् ॥ १८ ॥
स्वरूपे सविधे चापि न कुर्यान्नामभूरिताम् ।
न परश्रवणार्थं च नामकीर्त्तनमाचरेत् ॥ १९ ॥
अविश्वासेनापिनामग्रहणं परिवर्जयेत् ।
तथान्यदेवतानामजापो नैमित्तिकादिषु ॥ २० ॥
तथा पुत्रादिकं नाम मन्नाममहिमाङ्कितम् ।
न कुर्यात् किंतु तदा सनामाङ्कं कुरुते पुनः ॥ २१ ॥
नान्त्यजाया दिशेन्नाम श्रद्धादिरहिताय च ।
न द्विजायापि मन्नामविश्वासरहिताय च ॥ २२ ॥
न श्रावयेन्नीचकर्णे न विक्रीणीत लोभतः ।
न वृत्त्योयदि शेत्क्वापि नाचार्यख्यापनाय च ॥ २३ ॥
न जपेदशुचित्वेऽपि न रुद्राक्षादिभिर्जपेत् ।
तुलसीकमलाक्षाणां मणिमालिकया जपेत् ॥ २४ ॥
यद्वान्तर्मालिकां धृत्वा जपेन्मन्नाममन्त्रकम् ।
जाग्रत्स्वयंस्तथा जिघ्रन् पश्यन् गच्छंल्लपञ्छ्वसन् ॥ २५ ॥
भुञ्जानो जृम्भमाणश्च शयानो विसृजत् रुजन् ।
क्षुवन्नम्राङ्गन्नमंश्च तिष्ठन् कुर्वन् स्पृशन्नपि ॥ २६ ॥
सर्वेषु व्यवहारेषु मम नामपरो भवेत् ।
वसनं वासनं भूषामुष्णीषं कंचुकं तथा ॥ २७ ॥
उत्तरीयं चाङ्गुलीयं मन्नामाङ्कितमुद्वहेत् ।
पत्नीः पुत्रांश्च पुत्रीश्च तथा दासजनं निजम् ॥ २८ ॥
मन्नामाङ्कितदासाख्यान् कुर्यात् प्राकारकादिषु ।
नाम गायेन्नाम रटेन्नामैव भृशमाश्रयेत् ॥ २९ ॥
ब्रह्मयज्ञादिकालेषु नामैवाध्ययनं चरेत् ।
अनुध्यानं प्रकुर्वीत नामस्वाध्यायमाचरेत् ॥ ३० ॥
पातकं हरते विष्णोर्नाम दैत्यवधाङ्कितम् ।
१मुक्तिं ददाति गोविन्दो मुकुन्दादिस्वभावतः ॥ ३१ ॥
आयुधैरङ्कितं नाम ददात्यभयमेव च ।
आनन्द वर्धयेन्नाम ह्यवतारक्रियाङ्कितम्१ ॥ ३२ ॥
१. १ बड़ौदा ।
- ३०७ -
श्रीनामाङ्कितमन्नाम मत्स्वरूपं ददाति च ।
तत्रापि सहजानन्दासम्बद्धं मम नाम यत् ।
तत्सुगोप्यतमं साक्षात्प्रेमसायुज्यदायकम् ॥ ३३ ॥
अन्यत्कृष्णमुकुन्दादिनाममाहात्म्यं वर्त्तते ।
रामनामस्वरूपं तु मयापि किमु वर्ण्यताम् ॥ ३४ ॥
न चत्वारोऽपि वै वेदाः समन्त्राः सप्तकोटयः ।
न यज्ञा अश्वमेधाद्यास्तीर्थानां चापि कोटयः ॥ ३५ ॥
न मेरुतुल्यदानानि न योगाश्च तपांसि च ।
रामेति नाममात्रस्य तुलां यान्ति महामने ॥ ३६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामनामाहात्म्यगीतायां चतुर्दशोऽध्यायः ॥ १४ ॥
🟌
पञ्चदशोऽध्यायः
श्रीराम उवाच
उपचारैर्बहुविधैर्मां यजेत विधानतः ।
एककालं द्विकालं वा त्रिकालं वा विशेषतः ॥ १ ॥
प्रातर्गुरुपदं ध्यात्वा ध्यात्वा हृत्कमले च माम् ।
देहकृत्यं विनिर्वर्त्य मन्त्रस्नानं समाचरेत् ॥ २ ॥
गृहीत्वा मूलमन्त्रेण मृदम
- ३०८ -
गृहीत्वा देवसलिलं यागभूमिमथाविशेत् ।
धौताङ्घ्रिपाणिराचम्य सामान्यार्घं विधाय च ॥ ८ ॥
गन्धपुष्पोदकैः सर्वैः पूजयेद्द्वारदेवताः ।
सिंहासनं समापूज्य पात्राणि स्थापयेत्सुधीः ॥ ९ ॥
पाद्यार्घ्याचमनादीनि नैवेद्यान्तानि च क्रमात् ।
देवमावाह्य विधिवत् पूजयेत् सुसमाहितः ॥ १० ॥
आवाहनं स्थापनं च संनिधापनमेव च ।
संनिरोधनमप्युक्तं सकलीकरणं तथा ॥ ११ ॥
अवगुण्ठनमप्युक्तममृतीकरणं तथा ।
आप्यायनं च परमीकरणं जलबिन्दुभिः ॥ १२ ॥
गन्धं पुष्पं तथा धूपं नैवेद्यारातिके तथा ।
आचमनं ततो दत्त्वा वैजयन्तीं समर्पयेत् ॥ १३ ॥
तुलस्याः सुदलैर्माला पञ्चवर्णप्रसूनकैः ।
ग्रथिता पादपद्मान्ता वैजयन्ती निगद्यते ॥ १४ ॥
भूषयेच्चैव भूषाभिर्मूर्तिप्रतिकृतौ पुनः ।
शालग्रामशिलाया मे पूजनं नित्यमुत्तमम् ॥ १५ ॥
ततोऽप्युत्तमकं यन्त्रे परिवारगणान्विते ।
यन्त्रादप्युत्तमं मूर्तौ स्थापितायां विधानतः ॥ १६ ॥
अचलायां महामूर्तौ तत्रा १प्युत्तमपक्षता ।
रङ्गनाथे वेकटै च श्रीमद्विठ्ठलवल्लभे ॥ १७ ॥
जगन्नाथे बदर्यां च दिव्यपूजाफलं भवेत् ।
अन्यासु चापि दिव्यासु प्रतिमासु विशेषतः ॥ १८ ॥
काले काले यजेद्भूरिसंविदाभिरुदारधीः ।
वसन्ते पूजयेन्नित्यं पुष्पैर्दमनकोद्भवैः ॥ १९ ॥
रसालपल्लवैर्लग्नमञ्जरीकैः प्रपूजयेत् ।
चम्पकैर्वकुलैश्चापि माधुरीलतिकोद्भवैः ॥ २० ॥
अन्यैश्च विविधैः पुष्पैः कुसुमाकरसम्भवैः ।
अतिमुक्तैर्मल्लिपुष्पैर्ह्रस्वशाखासिकोद्भवैः ॥ २१ ॥
ग्रीष्मे चन्दनलेपैश्च तथैव व्यजनानिलैः ।
शीतोदकैश्च नैवेद्यैरेलाकपूर्रगन्धिभिः ॥ २२ ॥
वैशाखस्य सिते पक्षे तृतीया या भवेद्दिवा ।
तस्यां चन्दनयात्रायां चन्दनैर्मा विलेपयेत् ॥ २३ ॥
१. नास्ति–बड़ौ० ।
- ३०१ -
चैत्रे च दोलयेद्भूरि दक्षिणाभिमुखं हि माम् ।
तं ये पश्यन्ति मनुजास्तेषां न पुनरुद्भवः ॥ २४ ॥
रसालमञ्जरीपत्रपुष्पाच्छादितदोलके ।
आरूढं मां न पश्यन्ति किं ते धन्या नरा भुवि ॥ २५ ॥
ज्येष्ठाभिषेकं कुर्वीतं ज्येष्ठपूर्णादिने पुनः ।
सुवर्णं घर्ममित्याद्यैर्यजुःपुरुषसूक्तकैः ॥ २६ ॥
ब्राह्मणान् वैष्णवान् भक्तांश्चन्दनादिभिरर्चयेत् ।
ततो रथोत्सवः कार्यों रथारूढे हरौमयि ॥ २७ ॥
रथारूढं च ये भक्ताः पश्यन्ति श्रद्धया युताः ।
न तेषां जायते जन्म संसारे दुःखसागरे ॥ २८ ॥
ततः श्रावणके मासि नद्यां हिन्दोलयेच्च माम् ।
हरितावनिभागेषु निकुञ्जेषु च कालतः ॥ २९ ॥
हरितत्वं प्रयातेषु स्थापयेत् प्रियया सह ।
नीलापराजितापुष्पै
- ३१० -
पीतवासकपुष्पैश्च दिव्यहारं प्रकल्पयेत् ।
भक्त्या निवेदयेन्मह्यं हेममालार्पणादिकम् ॥ ४० ॥
हरिप्रबोधिनीं यावत्कुर्याद्दीपगणार्पणम् ।
दीपमालाविशेषेण पूरयेन्मम मन्दिरे ॥ ४१ ॥
तुलसीसविधे चैव गवां गोष्ठे द्विजन्मनाम् ।
अन्नकूटोत्सवे चापि पूजयेन्मम गोकुलम् ।
सौगन्धाद्रिं च रत्नाद्रिमन्नकूटैः प्रपूरयेत् ॥ ४२ ॥
मद्गतो गवां क्रीडा चान्नकूटं मद्गतः ।
मद्गतो दीपमाला हन्ति पापं त्रिजन्मजम् ॥ ४३ ॥
पञ्चभीष्मव्रतं कुर्याद्यावत्पूर्णादिनावधि ।
कार्तिकादधिकं पुण्यं मार्गशीर्षे निरूपितम् ॥ ४४ ॥
यत्र मां गोपिकाः प्रापुर्वरत्वेनात्य भीप्सितम् ।
हेमन्ते प्रोज्ज्वलाङ्गारहसन्तीर्मम मन्दिरे ॥ ४५ ॥
स्थापयेद् दिव्यधूपेन धूपिताश्च सुगन्धिताः ।
तूलवस्त्रपरीधानं सेव्येन्मां श्रिया सह ॥ ४६ ॥
एवमात्मानुरागेण सेवते मां सदैव यः ।
स याति मम सायुज्यमात्मारामो न संशयः ॥ ४७ ॥
एवं यः सततं भक्तो देशकालानुसारतः ।
सेवते मां स्वशक्त्या च स मे प्रियतमः सदा ॥ ४८ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
श्रात्रेयबोधितश्रीरामगीतायां पञ्चदशोऽध्यायः ॥ १५ ॥
✤
षोडशोऽध्यायः
श्रीराम उवाच
बाह्ययागेष्वशक्तश्चेदान्तरं यजनं चरेत् ।
सहस्रदलमध्यस्थं दिव्यं ज्योतिः परं पदम् ॥ १ ॥
हृत्पङ्कजे समानीय भावयेत्साधकोत्तमः ।
श्यामं पीताम्बरं देवं पुण्डरीकाक्षमच्युतम् ॥ २ ॥
or 'मानसं कर्म'?
It says: "मानसंकर्म"! Anusvara is on 'सं', directly followed by 'कर्म': "मानसंकर्म".
Line 25:
ब्रह्माण्डगोलकं भित्त्वा दृढज्ञानासिना नरः ।
Line 26:
एकं प्रपूरयेत् क्षीरैरन्यं भूरिसिताभरैः ॥ १५ ॥
Line 27:
आहवनीयेन सम्पाच्य पायसं दिव्यतण्डुलैः ।
Line 28:
एकीकृत्य सिताभारान् विभवे मह्यमर्पयेत् ॥ १६ ॥
Line 29:
एवं मानससेवामु सौकर्यं भूरितापि च ।
Wait! "मानससेवामु"?
Look at the letter:
म ा न स स े व ा सु
It is 'सु'! "मानससेवासु"!
Yes, 'सु' (locative plural of मानससेवा: मानससेवासु).
Line 30:
तस्मात्को नाम न नरो मानसं कर्तुमर्हति ॥ १७ ॥
Line 31:
मानसे सुलभा दिव्या गन्धपुष्पादिसम्पदः ।
Line 32:
मानसे सुलभो देवः सच्चिदानन्दविग्रहः ॥ १८ ॥
Let's double
- ३१२ -
तस्मान्मानसकर्मैव कुर्यान्नित्यमतन्द्रितः ।
मम सेवां विधायादौ परिवारं ममार्चयेत् ॥ १९ ॥
श्रीमद्दशरथं तातं कौसल्यायाश्च मातरः ।
भ्रातरं लक्ष्मणं शेषं परौ कीरौ च तत्प्रियः ॥ २० ॥
जानकीं हनुमन्तं च कपिवर्गं च मे प्रियम् ।
प्रत्येकमुपचारौघैर्माङ्गल्यैः सुखितं तथा ॥ २१ ॥
प्रमोदविपिनं दिव्यमर्चेत्परिकरैः सह ।
एवं पूजां समाचर्य्य कृतकृत्यो भवेन्नरः ॥ २२ ॥
ऐहिके चामुष्मिके च कर्त्तव्यं नावशिष्यते ।
प्रेम्णायुतोऽखिलं कुर्यात्तदभावे तु मध्यमम् ॥ २३ ॥
ज्ञानाभावे प्रेमसत्त्वे नैव मध्यमता भवेत् ।
तस्मात् प्रेम पुरस्कृत्य सर्वसेवाधिकं चरेत् ॥ २४ ॥
यथा स्त्रियो विना भूषां भोजनं च घृतं विना ।
भाग्यं विना च पुरुषस्तथा प्रेम विना कृतम् ॥ २५ ॥
अयं रसो भक्तिरूपो भावर
चतुर्थ खण्ड: पाणिग्रहण महोत्सव एवं पूर्वखण्ड उपसंहार
- ३१३ -
यथैव दुर्लभे पुत्रे वार्धके वयसि स्थिते ।
जाते कुर्यादुत्सवं च तथैवोत्सवमाचरेत् ॥ ५ ॥
मिष्टान्नभोजनान्युच्चैर्दद्यान्मत्प्रीतिहेतवे ।
वैष्णवेभ्यो ब्राह्मणेभ्यो मम भक्तेभ्य एव च ॥ ६ ॥
कुण्डले मुद्रिकावस्त्रे दद्यान्मत्प्रीतिहेतवे ।
महान्तमुत्सवं कुर्वन् मृदङ्गध्वनिपूर्वकम् ॥ ७ ॥
जातस्य मम संवृद्ध्यै विप्रेभ्यो भूरिदक्षिणाः ।
एवं वैशाखमासेऽपि नवम्यां शुक्लपक्षके ॥ ८ ॥
सहजायाः शुभं कुर्याज्जन्मोत्सवमुदारधीः ।
सुवासिनीभ्यः कन्याभ्यो दद्याद्भूषणमम्बरम् ॥ ९ ॥
अलंकृत्य स्नानलेपसौरभार्पणभूषणैः ।
भोजयेद्भूरि भक्त्यैव सहजाप्रीतिहेतवे ॥ १० ॥
प्रमोदविपिनग्रामे राजिनीनन्दनालये ।
उत्पन्ना सहजालक्ष्मीर्मम रासविनोदिनी ॥ ११ ॥
तस्मिन् दिने व्रतं कुर्यादुत्सवं च विशेषतः ।
माघशुक्ले च पञ्चम्यामवतीर्णा पुनः प्रिया ॥ १२ ॥
जनकस्य गृहे यज्ञवेद्यां मङ्गलशालिनी ।
तत्रापि चोत्सवं कुर्याद्भक्त्या मत्प्रीतिहेतवे ॥ १३ ॥
ततः प्रदोषसमये दोलयेद्दोलया प्रियाम् ।
मत्सार्धं सहजानन्दां गोपितां भुवनत्रये ।
रत्नभूषणवासांसि नर्तकेभ्यः प्रदापयेत् ॥ १४ ॥
एवं यो वार्षिकं दिव्यमुत्सवं कुरुते नरः ।
स याति मत्पदं दिव्यं यत्र याताः शुकादयः ॥ १५ ॥
अबन्ध्यं तद्दिनं कुर्यान्मत्कथाश्रवणादिभिः ।
वैष्णवान् पूजयेद्भक्त्या मम प्राणा हि ते मताः ॥ १६ ॥
ममापराधं जनितं क्षमेऽहं न वैष्णवानामपराधलेशम् ।
विनाचतद्वैष्णवसेवयाहं गृह्णामि सेवां न कदापि लोके ॥ १७ ॥
यत्र मद्द्वैष्णवा लोकाः कुपिता यान्ति कारणात् ।
तं देशं सहसा त्यक्त्वा व्रजामि खलु दुर्भगम् ॥ १८ ॥
अपि नाम महापापकारी मल्लक्षणाङ्कितः ।
न दूष्यो वैष्णवीलोकैः पक्षपातोममेदृशः ॥ १९ ॥
तवास्मीति वदेद्यो मां सकृदप्यसकृच्च वा ।
कृतान्तेनापि घोरेण स वै नेतुं न शक्यते ॥ २० ॥
- ३१४ -
तवास्मीत्यक्षरं लोके मामुद्दिश्य समीरितम् ।
मदीय एव स नरो नात्र कार्या विचारणा ॥ २१ ॥
किमर्थं बहुनामानि किमर्थं बहुमन्त्रकान् ।
किमर्थं बहुशास्त्राणि कण्ठशोषकराणि च ॥ २२ ॥
गृणन्ति च किमर्थं वै स्वाध्यायान् भूरिकष्टदान् ।
मामुद्दिश्य तवामीति सकृज्जल्पेद्दिने नरः ॥ २३ ॥
अयमेव महायागो ह्ययमेव महान् जपः ।
अयमेव महान् योगस्तवास्मीति यदुच्चरेत् ॥ २४ ॥
ममैव निहितं तिष्ठेन्नान्यस्य कस्यचिद्भवेत् ।
देवानां वा पितॄणां वा मनुष्याणामथापि वा ॥ २५ ॥
असंगः सर्वदातिष्ठेत्तथा वर्णाश्रमादिषु ।
अहमेव तस्य वर्णोऽप्यहमेवाश्रमस्तथा ॥ २६ ॥
अहमेव तथाऽऽधार ऐहिके पारलौकिके ।
मामेव सर्वविश्वासादाश्रयेद्भवसागरे ॥ २७ ॥
तमहं मोचयाम्यद्धा मयि भारसमर्पणम् ।
अहंकारोऽयमेव स्यादैहिकादिभरः स्वतः ॥ २८ ॥
मयि संन्यस्य तं भारं सुखी तिष्ठेत मत्परः ।
सर्व एव भरो विष्णौ (रामे) मयि ब्रह्माण्डरक्षके ।
तमात्मनि शठः पश्यन् बन्धनं याति मानवः ॥ २९ ॥
एवं भक्तिपथः प्रोक्तो मया तुभ्यं महामुने ।
उत्तमः सर्वधर्माणां शरीराणां यथा शिरः ॥ ३० ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां सप्तदशोऽध्यायः ॥ १७ ॥
✤
अष्टादशोऽध्यायः
श्रीराम उवाच
अथ योगं प्रवक्ष्यामि शृणु ह्येकमना मुने ।
येन विज्ञातमात्रेण नरैः कैवल्यमश्नुते ॥ १ ॥
- ३१५ -
कर्मिणां कर्मयोगः स्याज्ज्ञानिनां ज्ञानमेव सः ।
भक्तिमान् भक्तियोगेन निरुध्याच्चित्तमात्मनः ॥ २ ॥
मूलाधारस्थितं ज्योतिः कुण्डल्यामाविर्भावयेत् ।
प्रणवाख्येन दण्डेन नादरूपेण चालयेत् ॥ ३ ॥
नादोद्भूतः प्राणवायुरपाने बलवत्तरः ।
पराधारनुदेदग्निं तच्छिखा कुण्डली स्पृशेत् ॥ ४ ॥
तया प्रचोदितं तीव्रं कुण्डल्याख्यं परं महः ।
व्याप्य सूक्ष्माणि मार्गाणि हृद्देशं गच्छति द्रुतम् ॥ ५ ॥
तत्र जीवात्मना सार्द्धं विद्युत्तेजःप्रभासुरम् ।
भ्रूपुटे सद्य आगत्य परं चैतन्यमाप्नुयात् ॥ ६ ॥
तदूर्ध्वं रोधिनी भित्त्वा सहस्रदलमश्नुते ।
ब्रह्मानन्दसमुद्रस्य वेला सा रोधिनी भवेत् ॥ ७ ॥
अन्यथा वृद्ध एवासौ सर्वतः प्लावयेज्जगत् ।
सर्वेऽपि च विमुक्ताः स्युः पशुपक्ष्यन्त्यजा अपि ॥ ८ ॥
तान् रुणद्धि ततो विद्या त्रिगुणा रोधिनी हि सा ।
तदूर्ध्वं ब्रह्मलोकोऽस्ति मत्प्रभात्माक्षरात्मकः ॥ ९ ॥
तं प्राप्य मुक्तिसाम्राज्यं सद्यः प्राप्नोति मानवः ।
न तत्र कालकलना न मायाकृतविस्मृतिः ॥ १० ॥
न जरा नापि दुःखाद्यास्त्रिगुणप्रसृतिस्तथा ।
योगी तस्य प्रविश्यान्तस्तुरीयामश्नुते कलाम् ॥ ११ ॥
निमेषोन्मेषरहितां साक्षाद्ब्रह्मस्वरूपिणीम् ।
तस्य हेतुर्बोधमयी दीक्षा सद्गुरुगोपिता ॥ १२ ॥
शक्तिसंचारतो लभ्या सद्य एव प्रजायते ।
परमेश्वरसंतोषाच्चिरमेव प्रजायते ॥ १३ ॥
तदर्थं भूरिकर्माणि योगाङ्गानि प्रसाधयेत् ।
पूर्वजन्माभ्यासवशाद् वैराग्ये स्थिरतां गते ॥ १४ ॥
अथ ज्ञानकलोदेति सापि योगो निगद्यते ।
द्विविधोऽपि च योगोऽयं स्वाश्रया मुक्तिरुच्यते ॥ १५ ॥
पराश्रया भवेन्मुक्तिर्भक्तियोगेन चात्रिज ।
परो नाम सदानन्दो राम एवाहमच्युतः ॥ १६ ॥
क्षराक्षरावतिक्रम्य भासमाने निजे पदे ।
तदाश्रया तु या मुक्तिदुर्लभा मत्कृपां विना ॥ १७ ॥
- ३१६ -
ऐक्यसायुज्यभेदेन सा द्विधा परिकीर्तिता ।
पूर्वतोऽप्यधिकानन्दा द्वितीया सातिदुर्लभा ॥ १८ ॥
मल्लोकनित्यलीलाख्यमद्भोगानन्दरूपिणी ।
सांख्येऽप्ययं समुद्दिष्टो योगो मद्योगकारकः ॥ १९ ॥
सर्वेषामपि योगानां भक्तियोगो विशिष्यते ।
अल्पायासो बहुफलो मत्स्वरूपप्रदस्तथा ॥ २० ॥
योगो योग इति ग्रन्थेष्वसंदेहान्निरूपितः ।
केचिदेव मुनिश्रेष्ठास्तं जानन्ति मदात्मकम् ।
नास्माद्व्युत्तिष्ठते योगी मद्भक्तो मयि संगतः ॥ २१ ॥
तस्मादेतं द्विजश्रेष्ठ नित्यमभ्यस्य चेतसा ।
चित्तेऽपि खण्डशो जातमखण्डं कुरु यत्नतः ॥ २२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायामष्टादशोऽध्यायः ॥ १८ ॥
✤
एकोनविंशोऽध्यायः
श्रीराम उवाच
सत्त्वं रजस्तमश्चैव त्रिगुणाः परिकीर्तिताः ।
पुरुषः प्रकृतिश्चैव महांश्चाहंकृतिस्तथा ॥ १ ॥
शब्दस्पर्शौ रूपरसौ गन्धो मात्राश्च पञ्चकाः ।
खं वायुर्ज्योतिरापो भूः पञ्चभूतानि च क्रमात् ॥ २ ॥
ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्घ्राणदृग्रसाः ।
पञ्च कर्मेन्द्रियाण्येव वाग्दोर्मेढाङ्घ्रिपायवः ॥ ३ ॥
तथैव सर्वसंयोगिषड्ज्ञानकरणं मनः ।
आध्यात्मिकस्तु यो वर्गः सोऽसावेवाधिदैविकः ॥ ४ ॥
आधिभौतिकवर्गश्चैकत्रैवप्रतिष्ठितः ।
मदंशाधिष्ठिताः सर्वे भासन्तेऽमी प्रदीपवत् ॥ ५ ॥
माया गुणानां सम्भेदादेकैव बहुरूपिणी ।
कालस्तु भगवान् साक्षान्मद्रूपो नित्य एव सः ॥ ६ ॥
- ३१७ -
सूत्रं चैव महान् प्राणो बुद्धिश्चाहंस्वरूपिणी ।
परमात्मा च सर्वाद्यः प्रकृतिः पुरुषस्तथा ॥ ७ ॥
एक एव द्विधाजातस्तदेवाक्षरमुच्यते ।
मद्रूपं परमानन्दस्तिरोभूयात्र तिष्ठति ॥ ८ ॥
सत्त्वस्य व्यवधानेन मुख्यजीवः स ईरितः ।
सृष्टोच्छावशगोभूतः सोऽहमेव न संशयः ॥ ९ ॥
अयमेव च कूटस्थो ब्रह्माव्यक्तादिशब्दितः ।
अण्डानि कोटिशस्तस्य प्रतिष्ठन्ति विग्रहे ॥ १० ॥
अक्षरं ब्रह्म तद्धाम ममैव ज्ञानिनां गतिः ।
अहं प्रभुर्भक्तिगम्यो मम लोकोऽयमक्षरः ॥ ११ ॥
पादो मे सर्वभूतानि त्रिपाद् ब्रह्मेदमक्षरम् ।
ब्राह्मणश्च ममांशोऽस्य परस्य पुच्छमुच्यते ॥ १२ ॥
ज्ञानात्तस्योपासनया तन्मयो जायते नरः ।
भक्त्या ममोपासनया मन्मयो भवति ध्रुवम् ॥ १३ ॥
एतदेव ज्ञानमार्गे सेव्यमक्षरमुत्तमम् ।
अहं ततोऽधिको ज्ञेयः पूर्णानन्दैकविग्रहः ॥ १४ ॥
चिदानन्दौ तिरोभाव्य सत्त्वांशव्यक्तिमात्रतः ।
रूपान्तरं चाक्षरस्य कालः सकलसम्भवः ॥ १५ ॥
तत्र नित्या क्रियाशक्तिः प्राधान्येन प्रतिष्ठिता ।
सर्वोत्पत्त्यन्तकरणी चिच्छक्तिर्विकृतौ स्फुटम् ॥ १६ ॥
काले पुनर्यदैश्वर्यं तन्ममैव न संशयः ।
अत एवेश्वरः कालः सर्वस्यान्तर एव च ॥ १७ ॥
आसुरस्तमुपासीत कालरूपं मदात्मकम् ।
तत्रैव लीनतां गच्छेन्महातमसि भीषणे ॥ १८ ॥
ममाधिकारिणां मुख्यः काल एव न संशयः ।
यथाहं साम्यवैषम्यात्तथासौ फलदायकः ॥ १९ ॥
तद्भेदाः सूर्यगतय आधिभौतिकरूपकाः ।
एवमेव भवेत्कर्ममद्रूपं नियतं फले ॥ २० ॥
अग्रपश्चाद्भावभेदाद्द्विधैव प्रकटं च तत् ।
एवं स्वभावोऽपिभवेन्मत्तनुः सर्ववस्तुगः ॥ २१ ॥
आविर्भावतिरोभावैः परिणामस्तु तत्कृतः ।
अक्षरं वासुदेवश्च कालः संकर्षणो हि वै ॥ २२ ॥
कर्म प्रद्युम्न एवास्ति स्वभावश्चानिरुद्धकः ।
एवं चतुर्व्यूहतनुः प्रकटः सर्वो ममांशतः ॥ २३ ॥
अष्टाविंशतिरेव स्युस्तत्त्वानि मेकलक्षतः ।
तद्रूपं विधिना ज्ञेयं ममसायुज्यसिद्धये ॥ २४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायामेकोनविंशोऽध्यायः ॥ १९ ॥
विंशोऽध्यायः
आत्रेय उवाच
कथं तत्त्वात्मकं राम त्वां ध्यायन् मुच्यते नरः ।
एतन्मे रघुशार्दूल कृपया कथय प्रभो ॥ १ ॥
श्रीराम उवाच
पद्भ्यामाजानुपर्यन्तं भूतधात्री प्रतिष्ठिता ।
चतुरस्रा पीतवर्णा स्ववीर्यंसहितापि च ॥ २ ॥
तत्र चित्तं शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तदपां मण्डलमाविशेत् ॥ ३ ॥
जानुभ्यां नाभिपर्यन्तमपां मण्डलमुत्तमम् ।
शुक्लवर्णं स्ववीर्येण युक्तं वरुणदैवतम् ॥ ४ ॥
तत्र चित्त शनैः स्थित्वा तन्मयं जायये ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तत्तेजोमण्डलमाविशेत् ॥ ५ ॥
नाभेर्हृदयपर्यन्तं तेजोमण्डलमुत्तमम् ।
रक्तवर्णं त्रिकोणं च वह्निदैवतवीर्यभाक् ॥ ६ ॥
तत्र चित्तं शनैः स्थित्वा तन्मय जायटे ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तद् वायुमण्डलमाविशेद् ॥ ७ ॥
हृदयात्कण्ठपर्यन्तं वायुमण्डलमुत्तमम् ।
षट्कोणं च हरिद्वर्णं स्ववीर्यसहितं सदा ॥ ८ ॥
तत्र चित्त शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तन्नभोमण्डलमाविशेत् ॥ ९ ॥
- ३१९ -
कण्ठाद्भूमध्यपर्यन्तं नभोमण्डलमुत्तमम् ।
शुद्धस्फटिकसंकाशं वर्तुलं वीर्यसंयुतम् ॥ १० ॥
तत्र चित्तं शनैः स्थित्वा तन्मयं जायते ध्रुवम् ।
तन्मात्रां च ग्रसित्वा तन्मनःस्थानं समाविशेत् ॥ ११ ॥
संकल्पं च विकल्पं च तद्वृत्ति निरसेद्ध्रुवम् ।
ततो बोद्धव्यरूपं तन्निश्चितं जायते मनः ॥ १२ ॥
बोद्धव्यं बुद्धिविज्ञानं जायते तच्चवै ध्रुवम् ।
विज्ञानं हीनविषयं चैतन्यं जायते ततः ॥ १३ ॥
मनो बुद्धिश्च विज्ञानं चित्तं चाहंकृतिस्तथा ।
भवेत् पञ्चात्मकमिदमन्तःकरणशब्दितम् ॥ १४ ॥
ततो भ्रूदेशतश्चोर्ध्वं सहस्रदलतोऽप्यधः ।
अहमस्मीति संवित्या शुद्धात्मानं च लक्षयेत् ॥ १५ ॥
अहंतायां निवृत्तायामस्मीतिद्योतते विभुः ।
अस्मितायां निवृत्तायां स्वरूपमवभासते ॥ १६ ॥
ज्ञातृज्ञेयाख्य सम्बन्धे ततः शान्तिमुपागते ।
गुणातीत पद गत्वा न ततो विनिवर्त्तते ॥ १७ ॥
यतो निवर्त्तते नैव यत्रोच्चैः सुखमश्नुते ।
यत्र चात्येति त्रिपथं गुणातीतपदं हि तत् ॥ १८ ॥
एषा ते तत्त्वसंदोहसंस्था प्रोक्ता मया मुने ।
रहस्यं योगिनामेतज्ज्ञानिनां च विशेषतः ॥ १९ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
आत्रेयबोधितश्रीरामगीतायां विंशोऽध्यायः ॥ २० ॥
🞶
एकविंशोऽध्यायः
श्रीराम उवाच
अथतेऽहं प्रवक्ष्यामि ज्ञानं सिद्धान्तशब्दितम् ।
मार्गस्त्रेधापिपूर्वोक्तः फलसिद्धयै भवेद्ध्रुवम् ॥ १ ॥
कर्मोपास्तिज्ञानरूपस्तेषु भक्तिर्विशिष्यते ।
कर्मज्ञाने पृथक् तेन काण्डद्वये निबोधिते ॥ २ ॥
- ३२० -
विशिष्ट रूपो वेदार्थो ह्यहमेव न संशयः ।
तत्साधनं भवेत्प्रेम तस्य साधनमीर्यते ॥ ३ ॥
तेषां वक्ता स्वयं देवोऽभ्यासपूर्वं निषेवितः ।
भक्तिशास्त्रेषु सर्वेषु तदेव प्रतिपाद्यते ॥ ४ ॥
तेषां वक्ता स्वयमंहं मत्कलाश्च विशेषतः ।
भगवांश्च हयग्रीवो मत्स्यः श्रीकपिलस्तथा ॥ ५ ॥
वेदव्यासस्तथाऽऽत्रेयो भगवानृषभस्तथा ।
नारायणो रमाशेशौ ब्रह्मा चैव सनातनः ॥ ६ ॥
सनत्कुमारो भगवान् नारदश्च सुदर्शनः ।
इत्याद्या भक्तिशास्त्रस्य ह्याचार्याश्च प्रवर्त्तकाः ॥ ७ !
ममांशा मन्मतविदो भक्तप्रीतिविवर्धनाः ।
एतेषां मतमाज्ञाय श्रवणादिपरो भवेत् ॥ ८ ॥
मोहशास्त्राणि सर्वाणि तदाचारांश्च वर्जयेत् ।
छलयोगस्तथा सांख्यं वामं शाक्तं तथैव च ॥ ९ ॥
सिद्धान्तः कौलमार्गंश्च कर्मसक्तश्च वैदिकः ।
इत्यादीन् वर्जयेन्मार्गान् लोकव्यामोहकारकान् ॥ १० ॥
मार्गोऽयं सर्वमार्गाणामुत्तमः परिकीर्तितः ।
यत्र पातभयं नास्ति प्रायश्चित्तं तथैव च ॥ ११ ॥
मोचकः सर्वथैवाहं सप्रमेयफलात्मकः ।
यत्र वर्णाश्रमाचाराः सर्वे नश्यन्ति कालतः ॥ १२ ॥
तत्र धर्मः कथं सिद्ध्येत्कथं वा भवमोचनम् ।
तस्मात्सर्वेषु धर्मेषु वैदिके तान्त्रिकेऽपि च ॥ १३ ॥
विश्वासं चादरं त्यक्त्वा मम भक्तिं समाश्रयेत् ।
भक्तौ वापि विशेषेणमत्प्रपत्तिपरो भवेत् ॥ १४ ॥
नास्मिन् विरुद्धकरणं प्रकृत्या न विरुद्ध्यते ।
अहं प्रमाण चैवात्र भवेन्मार्गः क चेदृशः ॥ १५ ॥
परन्तु मत्कृपाहीनः सर्वथा सुतरामपि ।
मार्गेऽस्मिन्नन्तरं¹तस्मान्मत्कृपाहेतुतत्परः ॥ १६ ॥
भवेद् विद्वान् घोररूपं भवं यो निस्तितीर्षति ।
मत्सेवातत्पर प्राज्ञ रम्भादिदोषवर्जितम् ॥ १७ ॥
भक्तिशास्त्रैकतत्वज्ञं भजेत्सद्गुरुमादरात् ।
तदभावे च मन्मूर्त्ति कृत्वा भावपरायणः ॥ १८ ॥
१ अन्तरम्—विघ्नबाहुल्यम्—टि० बड़ौ० ।
' with 'ू'?
Wait, look at 'द्' in 'कुर्याद्दिनमबन्ध्यकम्' (line 12): 'द्' + 'दि' = 'द्दि'.
Look at 'द्' in 'एतद्देहावसाने' (line 15): 'द्' + 'दे' = 'द्दे'.
Look at 'द्' in line 1:
It has 'म', then 'द्', and below it is 'रू'!
In Devanagari, 'द्' + 'रू' is written as 'द्रू' (like 'दृ' but with 'रू' curl) or 'द्द्रू'.
Here, it is द् with a loop: 'द्द्रू' or 'द्रू'. It looks like 'मद्रूपाभेदभावनातू' or 'मद्द्रूपाभेदभावनातू'.
Wait, look at the end of the line:
भावनात् ।
Is it 'त्' with a halant, or 'तू'?
Look at the bottom of 'त': there is a slant line down to the left, which is a virama/halant: 'त् ।'!
Wait, why did I think 'तू'? Because sometimes halant looks like 'ू'. But it's clearly a halant: 'भावनातू' vs 'भावनात्' -> it is 'भावनात् ।'.
Let's check line 4:
"तस्मात्प्रपूजयेन्मूर्त्ति
- ३२२ -
चरित्राणि च भूरिणि नित्यं संकीर्तयेन्नरः ।
जनानां च समक्षं वै शैवशास्त्रपरेष्वपि ॥ ३५ ॥
निर्भयः स्वेन भावेन गृणन्मामेव मत्परः ।
न कस्यापि स्पृहां कुर्यात् सर्वभूमिपतेरपि ॥ ३६ ॥
रामेति जनसर्वस्व मम नाम सदा वदेत् ।
स्वीयं करोमि चैकेन द्वितीयेन सदा ऋणी ॥ ३७ ॥
यावन्तो ब्रह्मणोवक्त्रान्निर्गता वेदराशयः ।
ते च सर्वेऽप्यधीताः स्युर्नाम्नि नारायणात्मके ॥ ३८ ॥
नारायणस्य यावन्ति पुराणेष्व्वागमेषु च ।
दिव्यनाम्नां सहस्राणि कीर्त्तयन् यत्फलं भवेत् ॥ ३९ ॥
ततः कोटिगुणं पुण्यं फलं दिव्यं मदात्मकम् ।
लभते सहसा ब्रह्मन् सकृद् रामेति कीर्तनात् ॥ ४० ॥
ममातिवल्लभतमं मम नाम मदात्मकम् ।
ततोऽपि वल्लभतमं सहजेति प्रियं वचः ॥ ४१ ॥
सहजानन्दिनी सीता सीता श्रीर्मोदिनी रमा ।
स्वयंलक्ष्मीर्जानकीति नामाष्टकमुदीरयेत् ॥ ४२ ॥
मन्नामतोऽप्यतिफलं नरः प्राप्नोति वै मुने ।
आविर्भावे चावतारे मयैव सह जन्मतः ॥ ४३ ॥
सहजानन्दिनीत्याख्यां गता सीता प्रिया मम ।
सीता नाम्ना ततो व्याप्ता मयि मद्धर्मरूपिणी ॥ ४४ ॥
यथा हलस्यपद्धतिस्ततः सीतेति कीर्तिता ।
सीता सुधारसमयीधारारूपरसात्मिका ॥ ४५ ॥
आनन्दयति विश्लेषात् सन्तसं भावरूपिणी ।
श्रीः समाश्रीयतेसैव श्रुतिभिः स्मृतिभिस्तथा ॥ ४६ ॥
आगमैर्निगमैर्देवैर्मया च ब्रह्मणापि च ।
सनातनेन धर्मेण छन्दोभिः प्रणवेन च ॥ ४७ ॥
तेन सा श्रीरिति प्रोक्ता सहजानन्दिनी प्रिया ।
आविर्भावे स्फुटं नित्यं तिरोभावेऽपि चास्फुटम् ॥ ४८ ॥
कैशोरादिषु रूपेषु नित्यं मोदयते हि माम् ।
ततः सा मोदिनी शक्तिः सहजैव प्रकीर्तिता ॥ ४९ ॥
आनन्दरूपिणी नित्यं रमते ब्रह्मणि स्थिता ।
तथा रमयते तं च सा रमा कीर्त्तिता बुधैः ॥ ५० ॥
लक्ष्यॊऽहं सर्वशाखानां स्वयं सा लक्ष्मणं मम ।
तेन चोक्ता स्वयं लक्ष्मीर्महालक्ष्मीश्च मे प्रिया ॥ ५१ ॥
जानाति सैव मे रूपमक्षरात्परतः स्थितम् ।
तेन सा जानकी नाम प्रोच्यते ब्रह्मकोविदैः ॥ ५२ ॥
इति नामाष्टकं दिव्यं निरुक्तं तुभ्यमत्रिज ।
य एतद्धारयेद् भक्त्या स मे श्रीरसिको मतः ॥ ५३ ॥
मन्नाम कीर्त्तयेन्नित्यमेतैर्नामभिरङ्कितम् ।
रामेति रामचन्द्रेति माङ्गल्यातनयेति च ॥ ५४ ॥
प्रमोदवनचन्द्रेति रामेति रमणेति च।
तथा कुञ्जविहारीति रत्नाद्रिरसिकेति च ॥ ५५ ॥
एतान्यपि च नामानि नित्यमष्टौ प्रकीर्तयेत् ।
किं तस्य बहुभिश्चान्यैः साधनैः फलदायकैः ॥ ५६ ॥
एतन्मुख्यतमं लोके साधनं नामकीर्तनम् ।
अवृत्तिदर्परहितो विश्वस्तो भक्तिसंयुतः ॥ ५७ ॥
आलस्यरहितो नित्यं नामकीर्तनमाचरेत् ।
धनुर्बाणाङ्कितो भूत्वा पूजां नित्यं समाचरेत् ॥ ५८ ॥
पद्माक्षतुलसीमालां ऊर्ध्वपुण्ड्रं सदा वहेत् ।
एतद्धि विप्रलिङ्गं यदुपवीतादिधारणम् ॥ ५९ ॥
एतद्वैष्णवलिङ्गं यदूर्ध्वपुण्ड्रादिधारणम् ।
एकादशोव्रतं चैव तथा जन्माष्टमीव्रतम् ॥ ६० ॥
श्रीगुरोरुत्सवं चैव रामस्य नवमीं च मे ।
जयन्तीं नरसिंहस्थ तथा श्रीवामनव्रतम् ॥ ६१ ॥
वर्जयेत्पूर्वसंयुक्तं मम संतोषसिद्धये ।
अन्येऽपि चोत्सवा नित्यं कर्त्तव्या मम तुष्टिदाः ।
एवं धर्मेर्गृहस्थानां प्रसीदामि द्रुतं मुने ॥ ६२ ॥
वर्णाश्रमानामन्येषां नैष्ठिकब्रह्मचारिणाम् ।
एष मुख्यतमो धर्मो नित्यं मत्प्रीतिकारकः ॥ ६३ ॥
सिद्धः सर्वेषु वेदेषु तन्त्रेषु च शुभाध्वसु ।
आचार्याणां सद्गुरूणामृषिवमृतसूक्तिषु ॥ ६४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे •
आत्रेयबोधितश्रीरामगीतायामेकविंशोऽध्यायः ॥ २१ ॥