सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 330, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 330
  • ३१७ -
    सूत्रं चैव महान् प्राणो बुद्धिश्चाहंस्वरूपिणी ।
    परमात्मा च सर्वाद्यः प्रकृतिः पुरुषस्तथा ॥ ७ ॥
    एक एव द्विधाजातस्तदेवाक्षरमुच्यते ।
    मद्रूपं परमानन्दस्तिरोभूयात्र तिष्ठति ॥ ८ ॥
    सत्त्वस्य व्यवधानेन मुख्यजीवः स ईरितः ।
    सृष्टोच्छावशगोभूतः सोऽहमेव न संशयः ॥ ९ ॥
    अयमेव च कूटस्थो ब्रह्माव्यक्तादिशब्दितः ।
    अण्डानि कोटिशस्तस्य प्रतिष्ठन्ति विग्रहे ॥ १० ॥
    अक्षरं ब्रह्म तद्धाम ममैव ज्ञानिनां गतिः ।
    अहं प्रभुर्भक्तिगम्यो मम लोकोऽयमक्षरः ॥ ११ ॥
    पादो मे सर्वभूतानि त्रिपाद् ब्रह्मेदमक्षरम् ।
    ब्राह्मणश्च ममांशोऽस्य परस्य पुच्छमुच्यते ॥ १२ ॥
    ज्ञानात्तस्योपासनया तन्मयो जायते नरः ।
    भक्त्या ममोपासनया मन्मयो भवति ध्रुवम् ॥ १३ ॥
    एतदेव ज्ञानमार्गे सेव्यमक्षरमुत्तमम् ।
    अहं ततोऽधिको ज्ञेयः पूर्णानन्दैकविग्रहः ॥ १४ ॥
    चिदानन्दौ तिरोभाव्य सत्त्वांशव्यक्तिमात्रतः ।
    रूपान्तरं चाक्षरस्य कालः सकलसम्भवः ॥ १५ ॥
    तत्र नित्या क्रियाशक्तिः प्राधान्येन प्रतिष्ठिता ।
    सर्वोत्पत्त्यन्तकरणी चिच्छक्तिर्विकृतौ स्फुटम् ॥ १६ ॥
    काले पुनर्यदैश्वर्यं तन्ममैव न संशयः ।
    अत एवेश्वरः कालः सर्वस्यान्तर एव च ॥ १७ ॥
    आसुरस्तमुपासीत कालरूपं मदात्मकम् ।
    तत्रैव लीनतां गच्छेन्महातमसि भीषणे ॥ १८ ॥
    ममाधिकारिणां मुख्यः काल एव न संशयः ।
    यथाहं साम्यवैषम्यात्तथासौ फलदायकः ॥ १९ ॥
    तद्भेदाः सूर्यगतय आधिभौतिकरूपकाः ।
    एवमेव भवेत्कर्ममद्रूपं नियतं फले ॥ २० ॥
    अग्रपश्चाद्भावभेदाद्द्विधैव प्रकटं च तत् ।
    एवं स्वभावोऽपिभवेन्मत्तनुः सर्ववस्तुगः ॥ २१ ॥
    आविर्भावतिरोभावैः परिणामस्तु तत्कृतः ।
    अक्षरं वासुदेवश्च कालः संकर्षणो हि वै ॥ २२ ॥