सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 318, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 318
  • ३०५ -
    नामश्रीनामसंयुक्तं मम वित्तैकपार कम् ।
    तारकं पारकं ब्रह्म यो जानाति स पण्डितः ॥ २ ॥
    स एत्व वैष्णवो भक्तः प्रेमसत्कृतमानसः ।
    स एव सर्वदर्शी च स एव मम बल्लभः ॥ ३ ॥
    नामामृतमुदारं मे मोहध्वान्तविनाशकम् ।
    ब्रह्मानन्दाधिकं नाम रामचन्द्रपदात्मकम् ।
    प्रेमानन्दमय ज्ञेयं रामेति द्व्यक्षरं पुनः ॥ ४ ॥
    गृह्णन्ति रामेति च नाम नित्यं भक्ता भवाब्धेस्तर णाय तावत् ।
    रामेति मे नाम पुनर्गृणन्तः प्रेमामृतं भूरितर पिबन्ति ॥ ५ ॥
    रामेति रेफोऽनलकीलयोगो मकारचन्द्रः स्रवतेऽमृतानि ।
    संस्नाति यस्तत्र नरोऽतिधन्यः स मे प्रियो वैष्णवभक्त राजः ॥ ६ ॥
    प्रणवादपि मन्नाम मद्रूपत्वप्रदायकम् ।
    अधिकं खलु विज्ञेय साक्षान्मद्रूपबोधनात् ॥ ७ ॥
    अन्तरङ्गात्मिका सृष्टिर्नामरूपात्मिका मम ।
    उभे अपि सदा नित्ये अविनाभाववत्यपि ॥ ८ ॥
    नामसृष्टिः समस्तापि रामेत्यत्र समाप्यते ।
    रूपसृष्टिस्तथा सर्वा श्यामे धाम्नि समाप्यते ॥ ९ ॥
    मन्नाम द्व्यक्षरं ब्रह्मन् ममापि प्रीतिदायकम् ।
    रमेऽहमपि मे धाम्नि श्यामे परमसुन्दरे ॥ १० .।
    आकाशमतसीपुष्पं तापिच्छद्रुम कोरकम् ।
    ममाङ्गतुलनाप्राप्तं लोके धन्यतमं खलु ॥ ११ ॥
    मद्धर्मबोधकं नाम यद्राम इति गोपितम् ।
    तद् गृणँल्लभते तादृक् स्वरूपं सहजोज्ज्वलम् ॥ १२ ॥
    मद्रूपमविनाभूतं ध्यायन् मुच्येत पातकात् ।
    अमुनाद्व्यक्षरेणैव रामेति रुचिरात्मना ॥ १३ ॥
    रामेति द्व्यक्षर नाम गोपयेन्निजचेतसि ।
    उपांशुना जपेन्नित्यं स्फोरयेन्न गलाध्वना ॥ १४ ॥
    उच्चैःशब्देनापि नियमेकान्ते राममुच्चरेत् ।
    एवं मां नामरूपाभ्यां भावयेत्सुसमाहितः ॥ १५ ॥
    मन्नित्यलीलासम्बन्धं प्रमोदर्विपिने लभेत् । ^
    तस्मान्नामपरो नित्यं भवेदेकान्तवैष्णवः ॥ १६ ॥
    नामशक्त्याशया जातु न कुर्यात्पातकं जनः ।
    नामग्रहणगर्वं च न कुर्याद्भक्तसंसदि ॥ १७ ॥
    ३९