भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 325, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 325
- ३१२ -
तस्मान्मानसकर्मैव कुर्यान्नित्यमतन्द्रितः ।
मम सेवां विधायादौ परिवारं ममार्चयेत् ॥ १९ ॥
श्रीमद्दशरथं तातं कौसल्यायाश्च मातरः ।
भ्रातरं लक्ष्मणं शेषं परौ कीरौ च तत्प्रियः ॥ २० ॥
जानकीं हनुमन्तं च कपिवर्गं च मे प्रियम् ।
प्रत्येकमुपचारौघैर्माङ्गल्यैः सुखितं तथा ॥ २१ ॥
प्रमोदविपिनं दिव्यमर्चेत्परिकरैः सह ।
एवं पूजां समाचर्य्य कृतकृत्यो भवेन्नरः ॥ २२ ॥
ऐहिके चामुष्मिके च कर्त्तव्यं नावशिष्यते ।
प्रेम्णायुतोऽखिलं कुर्यात्तदभावे तु मध्यमम् ॥ २३ ॥
ज्ञानाभावे प्रेमसत्त्वे नैव मध्यमता भवेत् ।
तस्मात् प्रेम पुरस्कृत्य सर्वसेवाधिकं चरेत् ॥ २४ ॥
यथा स्त्रियो विना भूषां भोजनं च घृतं विना ।
भाग्यं विना च पुरुषस्तथा प्रेम विना कृतम् ॥ २५ ॥
अयं रसो भक्तिरूपो भावर