सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 326, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 326
  • ३१३ -
    यथैव दुर्लभे पुत्रे वार्धके वयसि स्थिते ।
    जाते कुर्यादुत्सवं च तथैवोत्सवमाचरेत् ॥ ५ ॥
    मिष्टान्नभोजनान्युच्चैर्दद्यान्मत्प्रीतिहेतवे ।
    वैष्णवेभ्यो ब्राह्मणेभ्यो मम भक्तेभ्य एव च ॥ ६ ॥
    कुण्डले मुद्रिकावस्त्रे दद्यान्मत्प्रीतिहेतवे ।
    महान्तमुत्सवं कुर्वन् मृदङ्गध्वनिपूर्वकम् ॥ ७ ॥
    जातस्य मम संवृद्ध्यै विप्रेभ्यो भूरिदक्षिणाः ।
    एवं वैशाखमासेऽपि नवम्यां शुक्लपक्षके ॥ ८ ॥
    सहजायाः शुभं कुर्याज्जन्मोत्सवमुदारधीः ।
    सुवासिनीभ्यः कन्याभ्यो दद्याद्भूषणमम्बरम् ॥ ९ ॥
    अलंकृत्य स्नानलेपसौरभार्पणभूषणैः ।
    भोजयेद्भूरि भक्त्यैव सहजाप्रीतिहेतवे ॥ १० ॥
    प्रमोदविपिनग्रामे राजिनीनन्दनालये ।
    उत्पन्ना सहजालक्ष्मीर्मम रासविनोदिनी ॥ ११ ॥
    तस्मिन् दिने व्रतं कुर्यादुत्सवं च विशेषतः ।
    माघशुक्ले च पञ्चम्यामवतीर्णा पुनः प्रिया ॥ १२ ॥
    जनकस्य गृहे यज्ञवेद्यां मङ्गलशालिनी ।
    तत्रापि चोत्सवं कुर्याद्भक्त्या मत्प्रीतिहेतवे ॥ १३ ॥
    ततः प्रदोषसमये दोलयेद्दोलया प्रियाम् ।
    मत्सार्धं सहजानन्दां गोपितां भुवनत्रये ।
    रत्नभूषणवासांसि नर्तकेभ्यः प्रदापयेत् ॥ १४ ॥
    एवं यो वार्षिकं दिव्यमुत्सवं कुरुते नरः ।
    स याति मत्पदं दिव्यं यत्र याताः शुकादयः ॥ १५ ॥
    अबन्ध्यं तद्दिनं कुर्यान्मत्कथाश्रवणादिभिः ।
    वैष्णवान् पूजयेद्भक्त्या मम प्राणा हि ते मताः ॥ १६ ॥
    ममापराधं जनितं क्षमेऽहं न वैष्णवानामपराधलेशम् ।
    विनाचतद्वैष्णवसेवयाहं गृह्णामि सेवां न कदापि लोके ॥ १७ ॥
    यत्र मद्द्वैष्णवा लोकाः कुपिता यान्ति कारणात् ।
    तं देशं सहसा त्यक्त्वा व्रजामि खलु दुर्भगम् ॥ १८ ॥
    अपि नाम महापापकारी मल्लक्षणाङ्कितः ।
    न दूष्यो वैष्णवीलोकैः पक्षपातोममेदृशः ॥ १९ ॥
    तवास्मीति वदेद्यो मां सकृदप्यसकृच्च वा ।
    कृतान्तेनापि घोरेण स वै नेतुं न शक्यते ॥ २० ॥