सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 320, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 320
  • ३०७ -
    श्रीनामाङ्कितमन्नाम मत्स्वरूपं ददाति च ।
    तत्रापि सहजानन्दासम्बद्धं मम नाम यत् ।
    तत्सुगोप्यतमं साक्षात्प्रेमसायुज्यदायकम् ॥ ३३ ॥
    अन्यत्कृष्णमुकुन्दादिनाममाहात्म्यं वर्त्तते ।
    रामनामस्वरूपं तु मयापि किमु वर्ण्यताम् ॥ ३४ ॥
    न चत्वारोऽपि वै वेदाः समन्त्राः सप्तकोटयः ।
    न यज्ञा अश्वमेधाद्यास्तीर्थानां चापि कोटयः ॥ ३५ ॥
    न मेरुतुल्यदानानि न योगाश्च तपांसि च ।
    रामेति नाममात्रस्य तुलां यान्ति महामने ॥ ३६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
    आत्रेयबोधितश्रीरामनामाहात्म्यगीतायां चतुर्दशोऽध्यायः ॥ १४ ॥
    🟌
    पञ्चदशोऽध्यायः
    श्रीराम उवाच
    उपचारैर्बहुविधैर्मां यजेत विधानतः ।
    एककालं द्विकालं वा त्रिकालं वा विशेषतः ॥ १ ॥
    प्रातर्गुरुपदं ध्यात्वा ध्यात्वा हृत्कमले च माम् ।
    देहकृत्यं विनिर्वर्त्य मन्त्रस्नानं समाचरेत् ॥ २ ॥
    गृहीत्वा मूलमन्त्रेण मृदम