सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

– १८४ –
तेनैव निर्मितस्त्वं वै अहं चान्ये तथा सुराः ।
कस्तं भीषयितुं शक्तो रामदेवं जनार्दनम् ॥ २१ ॥
यस्य घोरतरं रूपं दृष्ट्वा सद्यः पलायते ।
भवान् भवस्य सर्वस्य भीषणो भूरि विक्रमः ॥ २२ ॥
यस्य घोरं वपुर्दृष्ट्वा राक्षसा ब्रह्मराक्षसाः ।
कूष्माण्डभूतवेताला धावन्ति हरितोदश ॥ २३ ॥
यस्य घोरं वपुर्दृष्ट्वा विघ्नौघाश्च विनायकाः ।
दुर्दर्शना घोररूपा धावन्ति कृतभीतयः ॥ २४ ॥
तं भीषयितुमीशानं प्रवृत्तो यदि वै भवान् ।
तदापराधः संजातः प्रभावविनयात्मकः ॥ २५ ॥
तस्यापराधस्य शमं विधातुं प्रभोः समीपं तु पुनः प्रया हि ।
शीघ्रप्रसादो भगवान् राघवेन्द्रोऽचिरात् प्रसन्नो भविता न संशयः ॥ २६ ।
इत्युक्त्वा भगवान् ब्रह्मा कालं सद्यो व्यसर्जयत् ।
स च नत्वा विधिं पश्चाद् रामसंनिधिमागमत् ॥ २७ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
चतुर्थोऽध्यायः ॥ ४ ॥
❊
पञ्चमोऽध्यायः
ब्रह्मोवाच
आयातं कालमाज्ञाय रामस्त्रिभुवनेश्वरः ।
स्वजनं विसर्जयामास प्रातीहार्ये च लक्ष्मणम् ॥ १ ॥
सहजानन्दिनीं देवीं जानकीं स्वस्वरूपिणीम् ।
सिंहासने समास्थाप्य स्वयमन्तर्दधे विभुः ॥ २ ॥
कालस्त्रैलोक्यमहिषीं प्रमोदवननायिकाम् ।
नत्वा दूरात्सविनयं यावत्प्रैक्षत राघवम् ॥ ३ ॥
तावत्सापि परालक्ष्मीः स्वयमन्तर्दधे शनैः ।
तौ दिव्यकेलिरसिकौ प्रमोदवनमीयतुः ॥ ४ ॥
सहजारामचन्द्रौ च रासलीलां वितेनतुः ।
कुञ्जमन्दिरमध्यस्थौ सखीकोटिनिषेवितौ ॥ ५ ॥

  • २८५ -
    तुल्यतारुण्यकौ शूरौ रतियुद्धविशारदौ ।
    सरयूमन्दपवनपरिश्रान्तातिवीजितौ ॥ ६ ॥
    दाम्पत्यप्रेमरसिकौ चन्द्रिकायास्तमन्मथौ ।
    वेतसीवनविश्रान्तौ वर्षतावद्रिसेविनौ ॥ ७ ॥
    रत्नाद्रिशिखरोत्तुङ्गमञ्जुकुञ्जविहारिणौ ।
    चित्राद्रिस्फटिकशिलागङ्गास्रोतोविलासिनौ ॥ ८ ॥
    न यत्र कालगमनं न मायागमनं तथा ।
    यत्रानन्दमयी भूमिर्यत्रानन्दमयी सरित् ॥ ९ ॥
    यत्रानन्दमयः शैलो यत्रानन्दमयं सरः ।
    सर्वं परब्रह्ममयं यत्र श्रीरामपत्तनम् ॥ १० ॥
    एवं सिंहासनं शून्यं दृष्ट्वा कालः समंततः ।
    त्रैलोक्ये मृगयामास सीतारामात्मकं युगम् ॥ ११ ॥
    नैव लेभे ततो गन्तुं प्रमोदवनमागतः ।
    यावत्प्रविशते तत्र तावत्तद्द्वार्यदृश्यत ॥ १२ ॥
    सहस्त्रवदनो घोरः पुरुषोऽतिभयानकः ।
    तमनादृत्य सोऽन्तः स्थो भवितुं प्रारभद्बलात् ॥ १३ ॥
    स तेन वारितस्तत्र कालस्त चाप्यपृच्छत ।
    ममान्तर्गमनं देहि वनेऽस्मिन् घोरपूरुष ॥ १४ ॥
    ततस्तमाह पुरुषो मां युद्धेन पराभव ।
    ततस्त्वमस्मिन् विपिने प्रवेशं लप्स्यसे बलात् ॥ १५ ॥
    ब्रह्मोवाच
    ततस्तयोर्युद्धमभून्महाघोरतरं परम् ।
    परस्परप्रहरणौ विदारितपरस्परौ ॥ १६ ॥
    परस्परातिदुर्धर्षौ परस्परप्रकोपनौ ।
    परस्परोच्चण्डवेगौ परस्परनिपातिनौ ॥ १७ ॥
    एवं वर्षसहस्राणि तयोर्युद्धं परस्परम् ।
    अभूद्यत्र कियांल्लोकस्त्वन्यां प्रकृतिमागतः ॥ १८ ॥
    ततः पराजितः कालः पुरुषेणामितौजसा ।
    मूर्च्छितो न्यपतद्भूम्या वाताहत इव द्रुमः ॥ १९ ॥
    पतितो धरणी तं च सोऽपृच्छच्छनकैर्गिरा ॥ २० ॥
    काल उवाच
    कस्त्वं पुरुषशार्दूल कच्चिद्रुक्कोऽसि मत्प्रभोः ।
    न चेदेवं विक्रमस्ते कथमेवंविधो भवेत् ॥ २१ ॥
  • २८६ -

पुरुष उवाच
अहं रामस्य भक्तोऽस्मि प्रमोदवनरक्षकः ।
कोऽन्तःप्रवेष्टु मर्होऽस्ति व्रजभक्तजनं विना ॥ २२ ॥
ततः कालः पराभूतोन्ववर्तत दिवं प्रति ।
मध्येपथं तु सविधे वसिष्ठस्याश्रमे शुचौ ॥ २३ ॥
निर्वाणे गण्डकोगङ्गासंगमे ह्यतिपावने ।
तत्र दिव्यवने रामं ददर्श स किरातिनम् ॥ २४ ॥
मृगयाभिरतं वीरं सीतासंशोभिविग्रहम् ।
खेलन्तं मृगयूथेन मृगराजमिवोद्धुरम् ।
उपरिष्टाच्छ्वेतहये पर्यारूढं घनोपमम् ॥ २५ ॥
तं दृष्ट्वा प्रणनामैष प्रभुं त्रैलोक्यनायकम् ।
पपात पादयोः पश्चात्परिपूर्णदयानिधेः ॥ २६ ॥
पूर्वापराधशमनाय विधेर्नियोगात् तुष्टाव राघववरं करुणासमुद्रम् ।
उन्निद्रपुष्करदलायतलोचनान्तं दृष्ट्वामितामृतकृपारसभूरिधारम् ॥ २७ ॥
नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ।
नमस्ते दीनलोकाप्त क्षमस्व मम दुर्नयम् ॥ २८ ॥
नमस्ते राम राजीवनेत्र लालितविग्रह ।
भक्तौघनयनानन्द क्षमस्व मम दुर्नयम् ॥ २९ ॥
नमस्ते कालमायादिगुणवश्यैकवारक ।
स्ववश्य कमलाकान्त क्षमस्व मम दुर्नयम् ॥ ३० ॥
नमस्ते त्रिजगन्नाथ ब्रह्मरुद्रादिदैवत ।
मायाधीश हि सर्वेश क्षमस्व मम दुर्नयम् ॥ ३१ ॥
भीषणानां भीषणस्त्वं सुन्दराणां च सुन्दरः ।
सौम्यानां च तथा सौम्यः कठोराणां कठोरकः ॥ ३२ ॥
मृदूनां मृदुलश्चासि पृथूनां त्वं पृथुः प्रभो ।
नियन्तॄणां नियन्ता च लोकेशो लोकरक्षिणाम् ॥ ३३ ॥
प्रचण्डानां प्रचण्डस्त्वमुद्धतानां तथोद्धतः ।
यद्वस्तु यद्यादृशं च तस्य रूपं त्वमेव हि ॥ ३४ ॥
आधिदैविकमध्यात्ममधिभूतमथापि च ।
तस्यते नाथ मत्तोऽपि भीषणस्य मदीशितुः ॥ ३५ ॥
विभीषिकार्थं यदहं निजरूपमदर्शयम् ।
स एव मेऽपराधोऽभूत्प्रभो दुर्विनयात्मकः ॥ ३६ ॥

तस्यापराधस्य शमाय राम तवाङ्घ्रिमूलं शरणं प्रपद्ये ।
स्वानामभीतिप्रदमात्मदीयं निवृत्तमायागुणमीशवन्द्यम् ॥ ३७ ॥
तस्यापराधस्य शमाय राम भजामि ते नामपदार्णयुग्मम् ।
एकं तु मायेन्धनदाहनेन्धं परं पदं नाथपरं पदं ददत् ॥ ३८ ॥
तस्या पराधस्य शमाय राम पश्यामि रूप तव योगिमृग्यम् ।
यदिहते द्रष्टुमनन्तनामा शेषः स्वयं श्रीश्च परापरेशा ॥ ३९ ॥
तस्या पराधस्य शमाय राम करोमि ते भक्तिमपारवीर्याम् ।
यदाश्रयातः प्रियतामुपागताः श्रीमच्छुकव्यासपराशराद्याः ॥ ४० ॥
एवं स्तुत्वा स्थिते तस्मिन् प्रणते दीनदीनवत् ।
उवाच प्रहसन् रामः करुणारस वारिधिः ॥ ४१ ॥
श्रीराम उवाच
कुत्र कुत्र गतः काल मदन्वेषणकारकः ।
तत्र तत्र च किं वृत्तं ज्ञातं मे किन्तु वैभवम् ॥ ४२ ॥
काल उवाच
गतः साकेतनगरे तत्र त्वां समलोकयम् ।
अदर्शनं प्रभो स्मृत्वां रमादेवीमलोकयम् ॥ ४३ ॥
ततो राम रमादेवी तिरोधानमुपागमत् ।
ततस्तद्युगलान्वेषी बभ्रामाहं त्रिलोकगः ॥ ४४ ॥
ततः प्रमोदविपिनं गन्तुमारब्धवानहम् ।
तद्द्वाःस्थेनातिघोरेण पुरुषेण महौजसा ॥ ४५ ॥
सहस्रवदने नाहं युद्धं कृत्वा पराजितः ।
ततो विवर्णवदनो यातुं ब्रह्मगृहं प्रति ॥ ४६ ॥
इयेषाहं मध्यपथे भाग्याच्च तव दर्शनम् ।
प्राप्तवान् रघुशार्दूल गतश्चाहं कृतार्थताम् ॥ ४७ ॥
श्रीराम उवाच
अत्राप्यस्मि च तत्रास्मि साकेतनगरोत्तमे ।
प्रमादविपिने वास्मि सर्वत्रास्मि निजे वशः ॥ ४८ ॥
अधुना गच्छ तत्रैव यत्र सिंहासनं मम ।
साकेतनगरस्थाने शुभेप्रासाद वेश्मनि ॥ ४९ ॥
ततो नत्वागत्कालः साकेतनगरीं प्रति ।
यत्र सिंहासनं रम्यं नित्यं रामस्य राजते ॥ ५० ॥

  • २८८ -
    प्रासादतलवेश्मस्थं सौवर्णरत्ननिर्मितम् ।
    अधस्स्थदिव्यसौवर्णमणिमत्पादुकायुगम् ॥ ५१ ॥
    दिव्यातपमच्छायाढ्यं स्थिते चामरराजितम् ।
    महास्फटिकपीठे न राजितं रत्नशोभितम् ॥ ५२ ॥
    अनेकमणिसौवर्णकिंकिणीजालमण्डितम् ।
    त्रैलोक्यव्याप्तपरमप्रभासंदोहभूषितम् ॥ ५३ ॥
    सुवर्ण रत्ननिःश्रेणीच्छन्नदिव्यदुकूलकम् ।
    दिव्यवस्त्रपरीधानं स्वाराज्यपदभाजनम् ॥ ५४ ॥
    ब्रह्मशक्रादिमुकुटमणिघृष्टान्तभागकम् ।
    स्वयंलक्ष्मीनिरस्थानं साम्राज्यस्थानमुत्तमम् ॥ ५५ ॥
    अनन्यसाधारणपर श्रीमच्चरणाङ्कितम् ।
    सहजानन्दिनीपादपद्माङ्कित मनोहरम् ॥ ५६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसम्वादे उत्तरखण्डे कालवमनोपाख्याने
    पञ्चमोऽध्यायः ॥ ५ ॥
    [L1
  • २८९ -
    मदाज्ञयैवाधुना त्वं निजां शक्तिं प्रसारय ।
    वसुधां वसुभिः पूर्णां संकोचय बलादिमाम् ॥ ७ ॥
    मणीनामाकरेष्वङ्ग सौवर्णेष्वाकरेषु च ।
    कन्दरासु निधिस्थानेष्वनन्यश्रीप्रदायिषु ॥ ८ ॥
    वनेषु च फलाढ्येषु रत्नशैलेषु भूरिषु ।
    प्रत्यक्षलक्ष्मीस्थानेषु प्रसारय निजं बलम् ॥ ९ ॥
    सरःसु पद्मपूर्णेषु परागौघसुगन्धिषु ।
    राजहंसकलध्वानमनोहारिषु वीचिषु ॥ १० ॥
    रत्ननिःश्रेणिकाशोभामण्डितेषु महत्सु च ।
    समुद्रतुल्यरूपेषु दिव्यरत्नाकरेषु च ॥ ११ ॥
    मुक्तामाणिक्यशोभाढ्येष्वनन्तगुणवत्सु च ।
    देवाङ्गनादेवयानमानसादिषु भूरिशः ॥ १२ ॥
    श्रीसंकोचकरं तेषु प्रसारय निजं बलम् ।
    अग्निहोत्रेषु विप्राणां यज्ञस्थानेषु कोटिशः ॥ १३ ॥
    प्रत्यक्षवह्निस्थानेषु धर्मकर्मालयेषु च ।
    ब्रह्मादिषु च देवेषु रुद्रशक्रादिकेषु च ॥ १४ ॥
    श्रीविद्यादिषु विद्यासु महाविद्यासु सर्वशः ।
    चिन्तामणिपराढ्येषु मन्त्रेष्वद्वयवाचिषु ॥ १५ ॥
    द्वयवात्रिषु चाग्र्येषु महासाम्राज्यदायिषु ।
    नृसिंहे च हयग्रीवे श्रीमद्गोपालमन्त्रके ॥ १६ ॥
    स्वयंलक्ष्म्याश्च मन्त्रेषु मन्त्रशक्तिबलासु च ।
    स्वयं कामकलायां च बहुशक्तिषु वस्तुषु ॥ १७ ॥
    स्वयंसिद्धेषु चार्थेषु रत्नभेषजवस्तुषु ।
    गुटिकायक्षवेतालचेटकेषु च सर्वशः ॥ १८ ॥
    महोषधिषु सर्वासु कल्पवृक्षादिशाखिषु ।
    लतासु देवताख्यासु शिलासु दैवतात्मसु ॥ १९ ॥
    प्रत्यक्षशक्तिसिद्धेषु पदार्थेष्वेषु भूरिषु ।
    तिरोभावकरं कार्यं स्वसामर्थ्यं प्रसारय ॥ २० ॥
    इति सम्मन्त्र्य कालेन रघूणां वल्लभो नृपः ।
    यावत्ताम्बूलिकामस्मै ददाति निजपाणिना ॥ २१ ॥
    रत्नाङ्गुलीयकगणैर्भूषितेनामितौजसा ।
    यावद्विसर्जयेत्तं च कालं त्रैलोक्यभीषणम् ॥ २२ ॥
    ३७
  • २९० -
    सिंहासनान्तपार्श्वस्थं निरुक्ताज्ञाकरं प्रभोः ।
    तावदत्रेः सुतो योगी दुर्वासा मुनिसत्तमः ॥ २३ ॥
    प्रकृत्या कोपनोऽशान्तः शापमूर्त्तिरुपागतः ।
    तं दृष्ट्वा लक्ष्मणो द्वाःस्थः सद्य एवोदतिष्ठत ॥ २४ ॥
    प्रणाम महीं स्पृष्ट्वा यावत्पाद्यार्चनादिभिः ।
    गृह्णाति मुनिशार्दूलं तावदाह मुनिः स्वयम् ॥ २५ ॥
    दुर्वासा उवाच
    गच्छ लक्ष्मण यत्रास्ति रामस्त्रैलोक्यवल्लभः ।
    मदागमनमेतस्मै निवेदय च सत्वरम् ॥ २६ ॥
    ततः स चिन्तयाविष्टो लक्ष्मणः प्रत्युवाच तम् ।
    एवमेव करिष्यामि क्षणं विश्रम्यतां मुने ॥ २७ ॥
    यावत्कार्यान्तरे व्यग्रं रामदेवं जगत्प्रभुम् ।
    यास्यामि यत्प्रतीहार्ये स वै मामभ्यषेचयत् ॥ २८ ॥
    दुर्वासा उवाच
    रघूणां राजवर्याणां ग्रहे रीतिः सनातनी ।
    मुनयोऽवारितद्वारा विशन्त्यन्तःपुरेष्वपि ॥ २९ ॥
    त्वं चेदद्य समायान्तं मां तस्मै न वदिष्यसि ।
    सद्यो लक्ष्मण शप्स्यामि कोपेन विकटाकृतिः ॥ ३० ॥
    ततः स लक्ष्मणो वीरश्चिन्तामाप महत्तराम् ।
    शापभीतो मुनेः किं नु गच्छामि भ्रातुरन्तिकम् ।
    ततो भ्राता भवेत् क्रुद्धः प्रातिहार्यव्यतिक्रमात् ॥ ३१ ॥
    अथ चेन्नैव गच्छामि तदा शापं ददात्ययम् ।
    आत्रेयः कोपनो विप्रो विलम्बासहनो मुनिः ॥ ३२ ॥
    इति चिन्ताद्वयाविष्टो जगाम भ्रातु रन्तिकम् ।
    समं कालेन यत्रासौ भगवान् मन्त्रयन् स्थितः ॥ ३३ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    षष्ठोऽध्यायः ॥ ६ ॥
  • २९१ -
    सप्तमोऽध्यायः
    ब्रह्मोवाच
    ततः सुमित्रातनयो दर्श तौ भीषणौ राघवरामकालौ ।
    अवर्षकालाम्बुदकालरूपौ ज्वालावलीकोटिपरीतकालौ ॥ १ ॥
    जगद्ग्रसन्तौ ससुरासुरं स्वैर्मुखैर्वमद्भिः प्रलयाग्निकीलम् ।
    कोट्यर्कसंदोहकराल दंष्ट्राजिह्वाग्रविद्युल्ललनातिभीमौ ॥ २ ॥
    अनेकबाहूदरवक्त्रनेत्रौ नक्षत्रताराग्रहचित्रदेहौ ।
    वज्रप्रपातप्रसभोद्गताक्षिकोनप्रभाशोणधरान्तरिक्षौ ॥ ३ ॥
    परिज्वलन्तौ प्रलयाग्नितुल्यौ सुघोरनिर्ह्रादगम्भीरघोषौ ।
    दंष्ट्राग्रलग्नाधिकचूर्णिताङ्गब्रह्मादिशक्रादिसुरोधरावौ ॥ ४ ॥
    अनेकदंष्ट्रातपनोग्रतेजोनिवारिताशेषभवान्धकारौ ।
    महस्तपन्तौ तपनीयभासा करालदुद्दर्शशरीरभासौ ॥ ५ ॥
    तयोः शरी
  • २९२ -
    द्वितीयश्च तथा कोऽयं रुद्रो वान्तक एव वा ।
    इत्थं चिन्तासमाविष्टो लक्ष्मणः स्तिमितो भिया ॥ १६ ॥
    मूर्च्छाम्याय ततः सद्यो निजनेत्रे न्यमीलयत् ।
    तावत्तथैव पुरतो रामचन्द्रो व्यदृश्यत ।
    यथा पूर्वं स्थितो दृष्टः सिहासनवरे नृपः ॥ १७ ॥
    कालश्च प्रभुणा दत्तां ताम्बूलदलवीटिकाम् ।
    प्रसादत्वेन सङ्गृह्य जगाम निजसदनम् ॥ १८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    सप्तमोऽध्यायः ॥ ७ ॥
    ✱
    अष्टमोऽध्यायः
    ब्रह्मोवाच
    य इदं शृणुयात् पुण्यं श्रीरामचरितान्वितम् ।
    आख्यानं कालदमनं तस्य कालोऽतिदूरतः ।
    पठेद्वा पाठयेद्वापि न स कालवशे भवेत् ॥ १ ॥
    य इदं प्रपठेद्यज्ञे हव्यकव्यादिभोजने ।
    तस्य देवाश्च पितरस्तृप्ता वर्षाणि भूरिशः ॥ २ ॥
    यः कालदमनं नाम पठेदाख्यानमादरात् ।
    कृतानि तेन धर्म्याणि कर्माणि बहुशो द्विज ॥ ३ ॥
    भुशुण्ड उवाच
    ब्रह्मन् कालेगते पश्चात्किं वृत्तं भवत्तयोः ।
    रामलक्ष्मणयांस्तत्र वोरयोरितरेशयोः ॥ ४ ॥
    दुर्वासश्चैव किं वृत्तं मुनेरात्रेयशर्मणः ॥ ५ ॥
    ब्रह्मोवाच
    रामभक्त भुशुण्ड त्वं शृणु ह्येतत् कथानकम् ।
    रामस्य चरितं पुण्यं सर्वपापौघनाशनम् ॥ ६ ॥
    लक्ष्मणो रघुशार्दूलं मुनिं प्राप्तं न्यवेदयत् ।
    ततो रामः समुत्थाय स्वर्णसिंहासनोत्तमात् ॥ ७ ॥

द्वारपर्यन्तमागत्य मुनिमन्तर्न्यवेशयत् ।
पाद्यादिभिस्तथा दिव्यैरुपचारैश्च सोऽग्रहीत् ॥ ८ ॥
स्वयं लक्ष्मीश्च सा देवी सहजानन्दिनी प्रिया ।
शनैः पर्यचरत्तत्र मुनिपूजाविधौ सति ॥ ९ ॥
दुर्वासा उवाच
सत्य प्रभो त्वं पुरुषः सनातनः समागतोऽद्धाभुवने स्वधामतः ।
साकेतनाथः कृपया जनानामर्त्यातिभाजामसुराणां भयेन ॥ १० ॥
सा तेषामार्तिरत्युग्रा तथैव दिवि वासिनाम् ।
रावणारिविद्रुतानां निरस्ता निजलीलया ॥ ११ ॥
नहि तेऽन्यत् क्वचित्कार्यमव्यक्तस्यात्मलिङ्गिनः ।
कृते पर देवकृत्यं भक्तानां च मनीषितम् ॥ १२ ॥
स त्वं भक्तजनोद्धारणायैव धरणीतले ।
अवतीर्णः स्वयं राम धनुर्बाणधरः प्रभुः ॥ १३ ॥
तं त्वां परेशमाज्ञाय प्राप्तोऽस्मि मधुसूदन ।
ब्रूहि गुह्यतमं ज्ञानं येन मर्त्यो भवं तरेत् ॥ १४ ॥
अस्यात्मनो गति ब्रूहि विश्वाधारस्य च प्रभो ।
किं कार्यं मर्त्यलिङ्गानां कथं स्वात्मानमुद्धरेत् ॥ १५ ॥
जानीयात् त्वां परात्मानं त्रैलोक्यस्थितिकारकम् ।
कथं च गुरुपादाब्जमुपसीदेद्भवाम्बुधौ ॥ १६ ॥
किं गुरोर्लक्षणं राम संसारोद्धारकारणम् ।
किं ज्ञानं च ततः शिक्षेत्प्रपन्नः शिष्यसत्तमः ॥ १७ ॥
शिष्यस्य लक्षणं ब्रूहि प्रपन्नस्य मनीषिणः ॥ १८ ॥
श्रीराम उवाच
सम्यक् ते बुद्धिरुत्पन्ना मुनेरात्रेयशर्मणः ।
यदध्यात्मगतिं ज्ञातुमेवं व्यवसितोऽसि भोः ॥ १९ ॥
एकमेव परं ज्ञानं परब्रह्मात्मक मुने ।
येन विज्ञातमात्रेण जनोऽज्ञो भवसागरम् ॥ २० ॥
समुत्तरति शोकाढ्यं दुस्तरं ज्ञानिनामपि ।
यथा वृक्षो भवेत्स्तम्भः शखाश्च प्रतिशालिकाः ॥ २१ ॥
पत्राणि चैव पुष्पाणि फलानि च फलान्तरम् ।
त्वचश्च विविधाकारा एक एव तरुर्भवेत् ॥ २२ ॥

  • २९४ -
    वृक्षत्वेन न भेदोऽस्ति स्तम्भत्वादिकृता भिदा ।
    एवं जगदिदं सर्वं ब्रह्मैवेति न संशयः ॥ २३ ॥
    पञ्च भूतानिमात्राश्च चित्तं बुद्धिस्तथा मनः ।
    अहंकृतिर्महत्तत्त्वं प्रकृतिश्च सनातनी ॥ २४ ॥
    प्रत्येकं भेदनियतमभिन्नं ब्रह्मसर्वतः ।
    अचलं चैव कूटस्थं भेदाभेदोपयोगि तत् ॥ २५ ॥
    अवाच्यं सर्वतोऽतीतमुच्चैः स्थानं परं पदम् ।
    तस्यविद्या च महती विद्या चापि तदात्मिका ॥ २६ ॥
    अविद्यया न जानाति विद्यया वेत्ति तत्परम् ।
    विद्याविद्ये अतिक्रम्य परमं सुखमश्नुते ॥ २७ ॥
    न यत्र भेदसम्बन्धो नाभेदश्च परस्परम् ।
    न बन्धो यत्र विषमो न मुक्तिश्च समात्मिका ॥ २८ ॥
    यथा राजा भवेत्कश्चित् समस्ते भूमिमण्डले ।
    स लोकैर्ज्ञायते राजा वाङ्मनोव्यवहारतः ॥ २९ ॥
    स नित्यं नैव जानाति राजास्मीति निरन्तरम् ।
    एवं स्वरूपं प्राप्तस्य ब्रह्मास्मीति मुहुर्मुहुः ॥ ३० ॥
    चित्तवृत्तिर्नाशिमेति तदेव परमं पदम् ।
    क्षीरनीरवदैक्यं स्याल्लवणोदकवत् पुनः ।
    एकमेव च तज्ज्ञानं ज्ञातव्यं मुक्तिमिच्छता ॥ ३१ ॥
    नानाज्ञानानि बालानां प्रबोधाय समंततः ।
    निबन्धेषु निबध्यन्ते वस्तुतो नैव तत्र हि ॥ ३२ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे¹ श्रीरामात्रेयसंवादे
    ऽष्टमोऽध्यायः ॥ ८ ॥
    ⁕
    नवमोऽध्यायः
    आत्रेय उवाच ,
    यदिदं ज्ञानमाख्यात भवता रघुपुङ्गव ।
    उपयोगी न बालानां क्षुद्राणामल्पचेतसाम् ॥ १ ॥
    १. नास्ति बड़ौ० ।
  • २९५ -
    ये क्षुद्रा निस्तितीर्षन्ति भवसागरजं भयम् ।
    तेषां करुणया राम वद गुह्यतरं वचः ॥ २ ॥
    श्रीराम उवाच
    बालाः सुमन्दमतयो भवाब्धिं निस्तितीर्षवः ।
    सगुणं समुपासीरन् ज्ञानं ज्ञेयं च यत्पदम् ॥ ३ ॥
    गुरोरधीत्य छन्दांसि सरहस्यानि सर्वतः ।
    अनुत्कटे तु वैराग्ये गृहमेधीयमाचरेत् ॥ ४ ॥
    अग्निहोत्रमुपासीत विधिवत्पूतमानसः ।
    दर्शं च पौर्णमासं च पशुबन्धक्रतुं तथा ॥ ५ ॥
    चातुर्मास्यानि सत्कृत्य पिबेत् सोमं महामखे ।
    रामार्पणधिया सर्वं कर्म कुर्यादतन्द्रितः ॥ ६ ॥
    फलभोगेच्छुना कर्म कृतं फल समर्पकम् ।
    तत्फल नश्वरं विन्द्यादैहिकामुत्रिकं तथा ॥ ७ ॥
    फलं हि परमानन्द ऐहिकः पारलौकिकः ।
    पूर्णानन्दसमुद्रस्य मम मात्रास्तु ताः किलः ॥ ८ ॥
    न मां लोकाः कामयन्ते पूर्णानन्दपयोनिधिम् ।
    मम मात्राः कामयानाः क्षुद्रास्ते क्षुद्रचेतसः ॥ ९ ॥
    मां प्राप्य नान्यकामेषु सज्जन्ते भूरिबुद्धयः ।
    उदाराः सर्वतः कामा निष्कामा भवसागरे ॥ १० ॥
    मोक्षकामाः कृतधियो गुरुपास्तिफलोत्सुकाः ।
    छर्दितान्नसमं सर्वं पश्यन्तो ब्रह्ममप्युत ॥ ११ ॥
    कष्टं कर्मापि कुर्वन्तो विनाशायल्पमेधसः ।
    विना मदर्पणधियं कर्मदोषापहारिणीम् ॥ १२ ॥
    प्रयाजाद्यखिलाङ्गानि साधनानि च सर्वशः ।
    सुगादीनि समेतानि दध्याज्यादीनि वै तथा ॥ १३ ॥
    मद्रूपाणि समस्तानि भावयेत् सुविचक्षणः ।
    तथा यज्ञं मत्स्वरूपं भावयेत् कर्मदीक्षितः ॥ १४ ॥
    नित्यं नैमित्तिकं काम्यमेवं कुर्यादतन्द्रितः ।
    कर्मरूपस्य च मम पदाभिव्यक्तिरुद्भवेत् ॥ १५ ॥
    १परापरविभेदेन सुखं तद्द्विविधं मतम् ।
    तदा कर्तुर्ज्ञानवतो मुक्तिः सा क्रमतो भवेत् ॥ १६ ॥

१. सुखं तद् द्विविधं प्रोक्त परापर विभेदतः—बड़ौ० ।

  • २९६ -
    ज्ञानाभावे स्वर्गसुखं लभते मूढमानसः।
    परं नियतलोकाख्यं वाक्यशेषेण गद्यते ॥ १७॥
    श्रद्धा चैव तथासूया दुःखानि विविधानि च।
    स्वर्गिणामपि जायन्ते तथान्येश्च पराभवः ॥ १८॥
    प्रवृत्तिमार्गनिष्ठा हि ध्रुवाधस्तात् स्थिता अमी।
    न ध्रुवोपरि वै तेषां स्वर्गिणां गतिरिष्यते ॥ १९॥
    न च स्वर्गेषु लोकेषु वाक्यशेषोदितं सुखम्।
    नित्यमात्मसुखं तद्धि सत्त्ववृद्ध्या प्रजायते ॥ २०॥
    शुद्धे सत्त्वगुणे चैव स्वर्गः सत्त्वभवो भवेत्।
    कामाभावेपि तन्मुख्यं फलमुक्तं न संशयः ॥ २१॥
    सार्वकामिकमेतद्धि फलं वेदे निगद्यते।
    यागस्य मत्स्वरूपत्वान्मुक्तिरेव फलं भवेत् ॥ २२॥
    परोक्षकथनद्वारा तदेवाह गिरां पतिः।
    अलसा अनुशास्यन्ते प्ररोचनगिरा मुहुः ॥ २३॥
    यजेत पशुबन्धेन स्वर्गलोकफलाशये।
    अक्षय्यं सुकृतं लब्धुं चातुर्मास्यैर्यजेन्नरः ॥ २४॥
    आत्मानन्दस्वरूपं तदक्षयं समुदीर्यते।
    तदेव सर्वलोकाख्यं वेदेषु च निगद्यते ॥ २५॥
    सर्वे लोकाः स्वयं ह्यात्मा सच्चिदानन्दलक्षणः।
    आदित्यानां च विश्वेषां वसूनां वरुणस्य च ॥ २६॥
    अग्नीनां तु चितानां च भास्वराणां दिवौकसाम्।
    मरुतां चैव साध्यानां रुद्राणां गणपां तथा ॥ २७॥
    कुबेरस्य ब्रह्मणश्च तथैवानन्तसंज्ञिनः।
    सर्पाणां देवजनानां देवानां च विशेषतः ॥ २८॥
    देवानां कर्मदेवानां ये ये लोकाः सनातनाः।
    सच्चिदानन्दरूपाश्च तत्तद्भोगभयास्तथा ।
    सर्वेपरिसमाप्यन्त आत्मन्येव न संशयः ॥ २९॥
    आत्मा स्वयं ज्योतिरजः सनातनः सच्चित्सदानन्दमयः स्वयं प्रभुः।
    अनन्यतन्त्रः कुशलैकभाजनं स्वभासकः सन् परभासकश्च सः ॥ ३०॥
    स्वर्गं एव फलं नित्यं नान्यत्क्वापि श्रुतेर्मतम्।
    पश्वादिकं तु विकृतौ फलमुक्तं मदात्मकम् ॥ ३१॥
    मदात्मकं तद्धि तथा मद्रूपं नियतं श्रुतौ।
    नित्यकर्माणि पोष्यन्ते काम्यकर्माद्युदीरणात् ॥ ३२॥
  • २९७ -
    अभावे पशुपुत्रादिबहुवित्तस्य ससृतौ ।
    नित्यकर्म कथं सिद्धेद्बहुवित्तव्ययोजितम् ॥ ३३ ॥
    सर्वोपायगिरा वेदो नित्यमेव प्रसाध्यते ।
    नित्यं कर्म सदा कार्यमनित्यं न कथंचन ।
    एतद्धि नियतं लोके मत्स्वरूपं विभावयेत् ॥ ३४ ॥
    ध्यानेन धारणाभिश्च समाधिभिरथापि च ।
    परमात्मा यथा नृणामभिव्यक्तो भवेद्ध्रुवम् ॥ ३५ ॥
    एवमाधानप्रमुखैः कर्मभिर्वेदबोधितैः ।
    यज्ञरूपश्च भगवान् अभिव्यक्तो भवेद्ध्रुवम् ॥ १
    अहं यज्ञस्वरूपात्मा यज्ञकर्ताहमच्युतः ।
    यज्ञभोक्ता यज्ञकर्ता यज्ञसाधनमप्यहम् ॥ ३६ ॥
    अहं यज्ञे सम्प्रदानमपादानमहं मुने ।
    अहं च यज्ञशेषोऽपि शेषी यज्ञोऽहमुत्तमः ॥ ३७ ॥
    यज्ञाधारोऽहमतुलो यज्ञो वै मामकी तनुः ।
    इति ज्ञात्वा यज्ञपरो भवेदास्मन् बुधोऽपिसन् ॥ ३८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
    आत्रेयबोधितश्रीरामगीतायां नवमोऽध्यायः ॥ ६ ॥
    ✤
    दशमोऽध्यायः
    श्रीराम उवाच
    पुरुषार्थपरो नित्यं तत्त्वज्ञः पुरुषो भवेत् ।
    व्यासत्तस्ते तु चत्वारो द्वावेव तु समासतः ॥ १ ॥
    धर्मार्थकाममोक्षाख्याः क्रमशः परिकीर्तिताः ।
    द्वौ च वेदे निगद्येते दुःखाभावसुखात्मकौ ॥ २ ॥
    दुःखाभावस्तु मोक्षः स्यात्परः कामोऽपि सम्भवेत् ।
    तयोरङ्गं भवेद्धर्मः स च भूयोऽर्थसाधितः ॥ ३ ॥
    अहमेव फलं वेदे तस्य साधनमप्यहम् ।
    नामरूपप्रपञ्चात्मा नित्य एवाहमच्युतः ॥ ४ ॥
    १. अभाद्विलिखितं-बड़ौ० ।
    ३८
  • २९८ -
    रूपप्रपञ्चाशक्तानां कर्तुनामप्रपञ्चके ।
    अहं चक्रे श्रुतिं दिव्यां भूतभव्यानि यत्र वै ॥ ५ ॥
    आत्मप्रसादकरणीं जगौ तां भगवान् विधिः ।
    स च दिव्यःश्रुतेरर्थः सात्त्विकानां हृदि स्फुरन् ॥ ६ ॥
    समन्वयैनाविरोधाद्वेदार्थं च समर्थयेत् ।
    त्रिविधोजीवसंघातो देवदानवमानवाः ॥ ७ ॥
    सर्वेऽपि ते वेदविदो ब्राह्मणा वेदपारगाः ।
    स्वभावगुणभेदेन वेदार्थस्यैव वर्णकाः ॥ ८ ॥
    बुद्धिवैचित्र्यतस्तेषां वेदार्थो बहुधास्फुटः ।
    केचिद्वेदविदो विप्राः स्वीचक्रुः कर्म मात्रकम् ॥ ९ ॥
    कर्मैव सारोवेदानां न ज्ञानं नापि वेश्वरः ।
    ज्ञानमेवाहुरपरे भक्तिमेव तु मामकाः ॥ १० ॥
    कर्मापि मत्प्रभावेणसूते फलमुदारवत् ।
    ज्ञानं चापि मदाधारस्वरूपं बोधयत्यहो ॥ ११ ॥
    तस्मान्मत्सेवका लोका भक्तिं कुर्युर्मदात्मिकाम् ।
    अपुनर्जन्मनिष्कामां निषेधः कर्मणि श्रुतः ॥ १२ ॥
    अन्यथा पुनरुत्पत्तिःक्षयिष्णुकर्मणां भवेत् ।
    भवेषु वै नोत्पद्यन्ते प्रपाता अर्चिरादिना ॥ १३ ॥
    धूमादिना प्रयातानां नियतः पुनरुद्भवः ।
    एकमेव भवेत् कर्म प्रकाशस्तस्य भूरिशः ॥ १४ ॥
    एक एव च वेदोऽपि नित्या सामतनूर्यतः ।
    लौकिकानामात्मधियां जनानां भवजन्मनाम् ॥ १५ ॥
    न पाठशक्तिर्नैवापि ज्ञानशक्तिरनन्तदृक् ।
    ततो मदात्मको व्यासश्चातुर्होत्रविभागशः ॥ १६ ॥
    व्यस्तवान् सकल वेदं ततस्तत्प्रेरितैर्मुने ।
    तच्छिष्यैर्भैदिताः शाखाः कृत्स्नं तन्त्र वदन्ति ताः ॥ १७ ॥
    कर्मणां जैमिनिस्तत्त्वं जानाति स महामुनिः ।
    सर्वज्ञो भगवान् व्यासो ज्ञाननिर्णयमुक्तवान् ॥ १८ ॥
    मुनिद्वयनिबन्धार्थैः सर्ववेदार्थनिर्णयः ।
    बहुभिर्ऋषिभिर्वादैः कृत्स्नं तन्त्रं प्रकोपितम् ॥ १९ ॥
    वेदराशिमुपासीत पुरुषं तन्मनीषया ।
    करौ पादौ शिरो वक्ष एव वै पुरुषो मतः ॥ २० ॥

) to 'चि' (in second):
It is only about 4-5 characters wide!
Let's list them:

  1. चि
  2. न्
  3. न्या
  4. त्
  5. क्व (or त्व?)
  6. चि
    Wait!
    Between first चि and second चि:
    There is:
    न्न्या (or न्त्या)
    then ONE or TWO glyphs?
    It is:
    न्त्या (or न्न्या)
    then:
    त्क? No, look at:
    It's a ligature: त् (half ta) + क (ka) with व (va) subscript?
    That's "त्क्व"!
    Wait, what is before it?
    Just "न्त्या" (or "न्द्या" or "न्या")!
    Wait, look at line 7 again:
    Does it say:
    "क्वचिन्त्यात्क्वचिन्नित्यानुमेयश्रुतिमूलतः" ?
    Wait, if it is "क्वचिन्त्यात्क्वचिन्नि...", let's look at the letter before 'त्क्व':
    It is: 'न्' + 'त्या' or 'न्' + 'न्या'?
    Look at the loop: it is 'न्या' (nya).
    Wait, could it be:
    "क्वचिन्न्यात्क्वचिन्नित्यानुमेयश्रुतिमूलतः" ?
    Yes!
    क ् व च ि
    न ् य ा
    त् क ् व
    च ि
    न ् न ि
    त
  • ३०० -
    एकादशोऽध्यायः
    आत्रेय उवाच
    अथो रघुकुलोत्तंस ब्रूहि भक्ति निजां पराम् ।
    ययानुष्ठितया लोकस्त्वत्सम्बन्धमवाप्नुयात् ॥ १ ॥
    श्रीराम उवाच
    आत्रेय शृणु वक्ष्यामि मम भक्ति मदात्मिकाम् ।
    कर्मभिः शुद्धचित्तत्वादात्मज्ञो जायते नरः ॥ २ ॥
    आत्मज्ञे स परो भावः समुदेति मदात्मकः ।
    मन्निष्ठेऽभ्युदिते भावे नान्यत्प्राप्तव्यमिष्यते ॥ ३ ॥
    सोत्कण्ठो जायते नित्यं मत्पुण्यचरितश्रुतौ ।
    मन्नामस्मरणोद्भूतपरमानन्दनिर्भरः ॥ ४ ॥
    मदाधारपरो भूत्वा नान्यत्स्पृहयति क्वचित् ।
    मृत्योर्मूद्धिन् पदं दत्त्वा विहरेत समंततः ॥ ५ ॥
    ऐहिकामुष्मिके लोके विरक्तो मत्पदाश्रयः ।
    नित्यं मम वने तिष्ठेत् प्रमोदवनसंज्ञिनि ॥ ६ ॥
    ततो मां पश्यते तत्र निर्भरप्रेमसम्प्लुतः ।
    खेलन्तं सहजानन्दासंगसंगतमङ्गलम् ॥ ७ ॥
    विचित्रवंशीरवगायनोद्धुरं विचित्रवेषं मणिरत्नमण्डितम् ।
    मृदुस्मृतापूरितचन्द्रमण्डलप्रभामुखं मोदवतीविहारिणम् ॥ ८ ॥
    विचित्ररत्नाद्रिदरीस्थधातुभिर्विचित्रितोरस्कमनन्यसुन्दरम् ।
    मुक्तावतंसप्रविभूषितस्फुरत्तुङ्गोत्तमाङ्गं स्मर मा रामचन्द्रम् ॥ ९ ॥
    ततो मामीदृशं पश्यन् बद्धप्रेमा भवेन्मयि ।
    प्रेमाणमाशु लभते मत्प्रसादादनन्यधीः ॥ १० ॥
    न हिमत्प्रेमणि प्राप्ते प्राप्तव्यान्तरमस्ति च ।
    ईदृशा रसिका भक्ता वैष्णवाः प्रेमभागिनः ॥ ११ ॥
    अति दुर्लभसम्बन्धाः कथं लभ्याः शुभं विना ।
    तेषां चरणपाथोजनिषेवणकृतां सताम् ॥ १२ ॥
    सुलभोभगवत्प्रेमा क्षेमाकर उदग्रभाः ।
    तेषां वाक्यागमेनैव शुद्धता मनसो भवेत् ॥ १३ ॥
    १तत्कृपालेशमात्रेण निस्तरेद्भवसागरम् ।
    तदुच्छिष्टान्नभोज्येन सर्वज्ञत्वमवाप्नुयात् ।
    तेषां स्वरूपं त्रिदशैरज्ञेयं विष्णुवेदिभिः ॥ १४ ॥
    १ तत्कपालेशमात्रेण—बडौ० ।

manuṣyā)
ब्रह्मज्ञा (brahmajñā)
भवन्तीह (bhavantīha)
कदाचन (kadācana)
। (danda)

Line 9:
मन्नामरूपलीलानां ऋते ज्ञानादनुत्तमात् ॥ १८ ॥
मन्नामरूपलीलानां (mannāmarūpalīlānāṃ)
ऋते (ṛte)
ज्ञानादनुत्तमात् (jñānādanuttamāt)
॥ १८ ॥

Line 10:
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
इति (iti)
श्रीमदादिरामायणे (śrīmadādirāmāyaṇe)
ब्रह्मभुशुण्डसंवादे (brahmabhuśuṇḍasaṃvāde)
उत्तरखण्डे (uttarakhaṇḍe)
श्रीरामात्रेयसंवादे (śrīrāmātreyasaṃvāde)

Line 11:
आत्रेयबोधितश्रीरामगीतायामेकादशोऽध्यायः ॥ ११ :।
Wait, let's look at the danda/number at the end of line 11:
॥ ११ :। or ॥ ११ ॥ ?
Look closely at "॥ ११ :।":
It has: double danda ॥, then ११,

  • धीः (dhīḥ) ।
    All correct.

त्रिपुण्ड्रं नैव कुर्वीत विशेषेण विवर्जयेत् ॥ १७ ॥

  • त्रि (tri) पु (pu) ण्ड्रं (ṇḍraṁ)
  • नै (nai) व (va)
  • कु (ku) र्वी (rvī) त (ta)
  • वि (vi) शे (śe) षे (ṣe) ण (ṇa)
  • वि (vi) व (va) र्ज (rja) ये (ye) त् (t) ॥ १७ ॥
    All correct.

अङ्गवस्त्रमपिस्नाने न तिर्यग्धारयेद्बुधः ।

  • अ (a) ङ्ग (ṅga) व (va) स्त्र (stra) म (ma) पि (pi) स्ना (snā) ने (ne)
  • न (na)
  • ति (ti) र्य (rya) ग्धा (gdhā) र (ra) ये (ye) द्बु (dbu) धः (dhaḥ) ।
    All correct.

यत्प्रमोदवने रम्ये रत्नाद्रितट भूमिषु ॥ १८ ॥

  • य (ya) त्प्र (tpra) मो (mo) द (da) व (va) ने (ne)
  • र (ra) म्ये (mye)
  • र (
  • ३०३ -
    त्रयोदशोऽध्यायः
    श्रीराम उवाच
    नोष्णीषं धारयेद्भक्तः पुरुषाहंकृति तथा ।
    श्मश्रूणि कंचुके चैव१ पूर्वनाम च यद्भवेत् ॥ १ ॥
    वर्णाश्रमादिचिह्नानि सोपवीतां शिखां पुनः ।
    शृंगादिसर्वभागांश्च सर्ववेदायतोऽस्य हि ॥ २ ॥
    सर्ववेदसमं तद्धि यत्प्राप्तं मामकं पदम् ।
    स्मार्तानि च निषिद्धानि स्वविरोधेन पालयेत् ॥ ३ ॥
    दहेच्च भुजयोर्युग्मं मामकैर्धनुवीरुधैः ।
    कुर्याच्च सर्वगात्रेषु संस्कारं पुण्ड्रकाभिधम् ॥ ४ ॥
    पवित्रं धारयेन्नाम रामदासादिरूपभाक् ।
    तदुच्चारणमात्रेण पूतो भवति मानवः ॥ ५ ॥
    यथा रामभगवतो नामोच्चारणतो मम ।
    तथा पावयति ब्रह्मन् नाम सम्बन्धिनोऽपि मे ॥ ६ ॥
    तादृशानि तु नामानि यान्ति लौकिकतां न च ।
    तन्नामयोगमात्रेण मदीयो जायते नरः ॥ ७ ॥
    यदात्मा मत्पदं प्राप्तः साक्षान्मद्दासतां गतः ।
    तादृशं यस्य नामास्ति न तस्य गृहकल्पनम् ॥ ८ ॥
    रामो देवः सदा येषां राम एव च तारकः ।
    राम एव तथा कर्त्ता वैष्णवान् पूजयेत् सदा ॥ ९ ॥
    तन्नामवति वै भक्ते न भवेद्यमयातना ।
    तस्माल्लौकिकनामानि परित्यज्य सदा नरः ॥ १० ॥
    तादृशं धारयेन्नाम यादृशं वैष्णवोचितम् ।
    ततः स रामदासाख्यः श्रीगुरुं सततं भजेत् ॥ ११ ॥
    स तं करुणया ब्रह्मन् दिव्यमन्त्रमुपादिशेत् ।
    मन्त्रश्च द्विविधः प्रोक्तो द्व्यक्षाद्वय एव च ॥ १२ ॥
    देशिकोक्तप्रकारेण तं मन्त्रं प्रजपेन्नरः ।
    मन्त्रजापीभवेत्पूतो मन्त्रजापीभवेन्मुनिः ॥ १३ ॥
    मन्त्रजापी भवेद्दिव्यस्तस्मान्मन्त्र सदा जपेत् ।
    बीजमन्त्रं जपेद्वापि नाममन्त्रं जपेन्मुने ॥ १४ ॥
    १. जन्मनाम-टि० बडौ० ।