सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 328, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 328
  • ३१५ -
    कर्मिणां कर्मयोगः स्याज्ज्ञानिनां ज्ञानमेव सः ।
    भक्तिमान् भक्तियोगेन निरुध्याच्चित्तमात्मनः ॥ २ ॥
    मूलाधारस्थितं ज्योतिः कुण्डल्यामाविर्भावयेत् ।
    प्रणवाख्येन दण्डेन नादरूपेण चालयेत् ॥ ३ ॥
    नादोद्भूतः प्राणवायुरपाने बलवत्तरः ।
    पराधारनुदेदग्निं तच्छिखा कुण्डली स्पृशेत् ॥ ४ ॥
    तया प्रचोदितं तीव्रं कुण्डल्याख्यं परं महः ।
    व्याप्य सूक्ष्माणि मार्गाणि हृद्देशं गच्छति द्रुतम् ॥ ५ ॥
    तत्र जीवात्मना सार्द्धं विद्युत्तेजःप्रभासुरम् ।
    भ्रूपुटे सद्य आगत्य परं चैतन्यमाप्नुयात् ॥ ६ ॥
    तदूर्ध्वं रोधिनी भित्त्वा सहस्रदलमश्नुते ।
    ब्रह्मानन्दसमुद्रस्य वेला सा रोधिनी भवेत् ॥ ७ ॥
    अन्यथा वृद्ध एवासौ सर्वतः प्लावयेज्जगत् ।
    सर्वेऽपि च विमुक्ताः स्युः पशुपक्ष्यन्त्यजा अपि ॥ ८ ॥
    तान् रुणद्धि ततो विद्या त्रिगुणा रोधिनी हि सा ।
    तदूर्ध्वं ब्रह्मलोकोऽस्ति मत्प्रभात्माक्षरात्मकः ॥ ९ ॥
    तं प्राप्य मुक्तिसाम्राज्यं सद्यः प्राप्नोति मानवः ।
    न तत्र कालकलना न मायाकृतविस्मृतिः ॥ १० ॥
    न जरा नापि दुःखाद्यास्त्रिगुणप्रसृतिस्तथा ।
    योगी तस्य प्रविश्यान्तस्तुरीयामश्नुते कलाम् ॥ ११ ॥
    निमेषोन्मेषरहितां साक्षाद्ब्रह्मस्वरूपिणीम् ।
    तस्य हेतुर्बोधमयी दीक्षा सद्गुरुगोपिता ॥ १२ ॥
    शक्तिसंचारतो लभ्या सद्य एव प्रजायते ।
    परमेश्वरसंतोषाच्चिरमेव प्रजायते ॥ १३ ॥
    तदर्थं भूरिकर्माणि योगाङ्गानि प्रसाधयेत् ।
    पूर्वजन्माभ्यासवशाद् वैराग्ये स्थिरतां गते ॥ १४ ॥
    अथ ज्ञानकलोदेति सापि योगो निगद्यते ।
    द्विविधोऽपि च योगोऽयं स्वाश्रया मुक्तिरुच्यते ॥ १५ ॥
    पराश्रया भवेन्मुक्तिर्भक्तियोगेन चात्रिज ।
    परो नाम सदानन्दो राम एवाहमच्युतः ॥ १६ ॥
    क्षराक्षरावतिक्रम्य भासमाने निजे पदे ।
    तदाश्रया तु या मुक्तिदुर्लभा मत्कृपां विना ॥ १७ ॥