सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 323, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 323
  • ३१० -
    पीतवासकपुष्पैश्च दिव्यहारं प्रकल्पयेत् ।
    भक्त्या निवेदयेन्मह्यं हेममालार्पणादिकम् ॥ ४० ॥
    हरिप्रबोधिनीं यावत्कुर्याद्दीपगणार्पणम् ।
    दीपमालाविशेषेण पूरयेन्मम मन्दिरे ॥ ४१ ॥
    तुलसीसविधे चैव गवां गोष्ठे द्विजन्मनाम् ।
    अन्नकूटोत्सवे चापि पूजयेन्मम गोकुलम् ।
    सौगन्धाद्रिं च रत्नाद्रिमन्नकूटैः प्रपूरयेत् ॥ ४२ ॥
    मद्गतो गवां क्रीडा चान्नकूटं मद्गतः ।
    मद्गतो दीपमाला हन्ति पापं त्रिजन्मजम् ॥ ४३ ॥
    पञ्चभीष्मव्रतं कुर्याद्यावत्पूर्णादिनावधि ।
    कार्तिकादधिकं पुण्यं मार्गशीर्षे निरूपितम् ॥ ४४ ॥
    यत्र मां गोपिकाः प्रापुर्वरत्वेनात्य भीप्सितम् ।
    हेमन्ते प्रोज्ज्वलाङ्गारहसन्तीर्मम मन्दिरे ॥ ४५ ॥
    स्थापयेद् दिव्यधूपेन धूपिताश्च सुगन्धिताः ।
    तूलवस्त्रपरीधानं सेव्येन्मां श्रिया सह ॥ ४६ ॥
    एवमात्मानुरागेण सेवते मां सदैव यः ।
    स याति मम सायुज्यमात्मारामो न संशयः ॥ ४७ ॥
    एवं यः सततं भक्तो देशकालानुसारतः ।
    सेवते मां स्वशक्त्या च स मे प्रियतमः सदा ॥ ४८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे
    श्रात्रेयबोधितश्रीरामगीतायां पञ्चदशोऽध्यायः ॥ १५ ॥
    ✤
    षोडशोऽध्यायः
    श्रीराम उवाच
    बाह्ययागेष्वशक्तश्चेदान्तरं यजनं चरेत् ।
    सहस्रदलमध्यस्थं दिव्यं ज्योतिः परं पदम् ॥ १ ॥
    हृत्पङ्कजे समानीय भावयेत्साधकोत्तमः ।
    श्यामं पीताम्बरं देवं पुण्डरीकाक्षमच्युतम् ॥ २ ॥