भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 322, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 322
- ३०१ -
चैत्रे च दोलयेद्भूरि दक्षिणाभिमुखं हि माम् ।
तं ये पश्यन्ति मनुजास्तेषां न पुनरुद्भवः ॥ २४ ॥
रसालमञ्जरीपत्रपुष्पाच्छादितदोलके ।
आरूढं मां न पश्यन्ति किं ते धन्या नरा भुवि ॥ २५ ॥
ज्येष्ठाभिषेकं कुर्वीतं ज्येष्ठपूर्णादिने पुनः ।
सुवर्णं घर्ममित्याद्यैर्यजुःपुरुषसूक्तकैः ॥ २६ ॥
ब्राह्मणान् वैष्णवान् भक्तांश्चन्दनादिभिरर्चयेत् ।
ततो रथोत्सवः कार्यों रथारूढे हरौमयि ॥ २७ ॥
रथारूढं च ये भक्ताः पश्यन्ति श्रद्धया युताः ।
न तेषां जायते जन्म संसारे दुःखसागरे ॥ २८ ॥
ततः श्रावणके मासि नद्यां हिन्दोलयेच्च माम् ।
हरितावनिभागेषु निकुञ्जेषु च कालतः ॥ २९ ॥
हरितत्वं प्रयातेषु स्थापयेत् प्रियया सह ।
नीलापराजितापुष्पै