सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 336, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 336

लक्ष्यॊऽहं सर्वशाखानां स्वयं सा लक्ष्मणं मम ।
तेन चोक्ता स्वयं लक्ष्मीर्महालक्ष्मीश्च मे प्रिया ॥ ५१ ॥
जानाति सैव मे रूपमक्षरात्परतः स्थितम् ।
तेन सा जानकी नाम प्रोच्यते ब्रह्मकोविदैः ॥ ५२ ॥
इति नामाष्टकं दिव्यं निरुक्तं तुभ्यमत्रिज ।
य एतद्धारयेद् भक्त्या स मे श्रीरसिको मतः ॥ ५३ ॥
मन्नाम कीर्त्तयेन्नित्यमेतैर्नामभिरङ्कितम् ।
रामेति रामचन्द्रेति माङ्गल्यातनयेति च ॥ ५४ ॥
प्रमोदवनचन्द्रेति रामेति रमणेति च।
तथा कुञ्जविहारीति रत्नाद्रिरसिकेति च ॥ ५५ ॥
एतान्यपि च नामानि नित्यमष्टौ प्रकीर्तयेत् ।
किं तस्य बहुभिश्चान्यैः साधनैः फलदायकैः ॥ ५६ ॥
एतन्मुख्यतमं लोके साधनं नामकीर्तनम् ।
अवृत्तिदर्परहितो विश्वस्तो भक्तिसंयुतः ॥ ५७ ॥
आलस्यरहितो नित्यं नामकीर्तनमाचरेत् ।
धनुर्बाणाङ्कितो भूत्वा पूजां नित्यं समाचरेत् ॥ ५८ ॥
पद्माक्षतुलसीमालां ऊर्ध्वपुण्ड्रं सदा वहेत् ।
एतद्धि विप्रलिङ्गं यदुपवीतादिधारणम् ॥ ५९ ॥
एतद्वैष्णवलिङ्गं यदूर्ध्वपुण्ड्रादिधारणम् ।
एकादशोव्रतं चैव तथा जन्माष्टमीव्रतम् ॥ ६० ॥
श्रीगुरोरुत्सवं चैव रामस्य नवमीं च मे ।
जयन्तीं नरसिंहस्थ तथा श्रीवामनव्रतम् ॥ ६१ ॥
वर्जयेत्पूर्वसंयुक्तं मम संतोषसिद्धये ।
अन्येऽपि चोत्सवा नित्यं कर्त्तव्या मम तुष्टिदाः ।
एवं धर्मेर्गृहस्थानां प्रसीदामि द्रुतं मुने ॥ ६२ ॥
वर्णाश्रमानामन्येषां नैष्ठिकब्रह्मचारिणाम् ।
एष मुख्यतमो धर्मो नित्यं मत्प्रीतिकारकः ॥ ६३ ॥
सिद्धः सर्वेषु वेदेषु तन्त्रेषु च शुभाध्वसु ।
आचार्याणां सद्गुरूणामृषिवमृतसूक्तिषु ॥ ६४ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे श्रीरामात्रेयसंवादे •
आत्रेयबोधितश्रीरामगीतायामेकविंशोऽध्यायः ॥ २१ ॥