सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ
  • २६३ -
    तारकागणशोभाभिर्मुनिद्रुमसुकोरकैः ।
    मल्लिकावलिकुसुमविकासोद्गारिसौरभैः ॥ ३० ॥
    जलनैर्मल्यशोभाभिः सरित्पुलिनदर्शनैः ।
    विकासिकासशोभाढ्यदिगनन्तपरिदर्शनैः ॥ ३१ ॥
    तुषारकणसम्पातमौक्तिकक्षणदर्शनैः ।
    नित्यभोजनसंतोषपितृब्राह्मणदर्शनैः ॥ ३२ ॥
    नवदुर्गार्चनोत्साहैर्विजयादशम्युत्सवैः ।
    कार्तिकस्नानमिलितनरनारीसुसङ्गमैः ॥ ३३ ॥
    प्रत्यूषसमयोन्निद्रस्तनसंगतकाहलैः ।
    प्रकाशदीपमालानां शोभादर्शनकौतुकैः ॥ ३४ ॥
    सितमन्दिरशोभाभिर्दीपावलिमहोत्सवैः ।
    द्यूतकेलिविनोदैश्च तुलसीवनपूजनैः ॥ ३५ ॥
    अन्नकूतोत्सवसुखै रत्नाचलसमर्चनैः ।
    सरयूसलिलस्नानसंगतापसरसां गणैः ॥ ३६ ॥
    कुञ्जमन्दिरशोभाभिर्नृत्यगीतविनोदनैः ।
    स्वयं रासविलासैश्च गानतालविधानकैः ॥ ३७ ॥
    हरिप्रबोधकौतुकैः किन्नरीगणनर्तनैः ।
    सर्वतोभद्रपद्मादिमहामण्डलमण्डनैः ॥ ३८ ॥
    पञ्चभीष्मविधानोत्थनृत्यवाद्यादिदर्शनैः ।
    दम्पतिव्रतपूजाभिः सुन्दरीगणदर्शनैः ॥ ३९ ॥
    प्रातःस्नानसमायातस्निग्धगोपिनिभालनैः ।
    अनेकमिश्रसम्प्राप्तपट्टाम्बरधराद्भुतैः ॥ ४० ॥
    गोपीगणैः कृतानेकहावभावनिरीक्षणैः ।
  • २६४ -
    क्रीडन्तौ सहजारामौ जनयामासतुर्मुदम् ।
    त्रैलोक्यमङ्गलभर सुख पुपुषतुश्च तौ ॥ ४५ ॥
    श्यामां चैव तथा रामां समस्नेहेन मोदयन् ।
    रामानुगत एवासौ ववृते केलिकोविदः ॥ ४६ ॥
    मुक्ताहारधरः किरीटतटयोः प्रोद्बुद्धमुक्तासरः-
    क्रीडानाट्यकरः कलापदुतरः कैशोरवेशोत्तरः ।
    वद्धाधोनटकच्छसुन्दरवरः प्रोल्लासिपीताम्बरः-
    श्रीरामः शुशुभेतरां त्रिजगतामेकानुकम्पाकरः ॥ ४७ ॥
    प्रमोद्वनचन्द्रमाः सकलसतकलाभूषितः-
    समस्तसुखितव्रजप्रवणगोपिकासौहृदः ।
    अनेकपरिलालनप्रचयकारिमाङ्गल्यका निकेतन-
    महामणिविजयते रघूणांपतिः ॥ ४८ ॥
    शृङ्गारस्यैष सीमा परममधुरताधोरिणीनां धुरीणः-
    श्रीमान् श्रीमत्प्रियायाः प्रणयरसधुनीस्रोतसिस्नानशीलः ।
    पूर्णानन्दव्रजेन्दुस्त्रिजगति वितरन् भक्तिपीयूषपानं-
    श्रीमन्माङ्गल्यका यास्त नय इतिमुदं राघवेन्द्रो विधत्ते ॥ ४९ ॥
    इत्यहं राघवेन्द्रस्य रामस्य परमा

– २६५ –
अष्टषष्टितमोऽध्यायः
जनक उवाच
तव प्रसादान्मुनिवर्य तत्त्वं ज्ञातं मया सहजायाः परं यत् ।
इयं चिदानन्दघनासनातनी पूर्णा कला योगविदामगोचरा ॥ १ ॥
ब्रह्मतत्त्वं परं यत्तदक्षरं परमं पदम् ।
सर्ववेदान्तवाक्यानां स्थानमेकं निरूपितम् ॥ २ ॥
समासन्यासयोगेन शब्दब्रह्म प्रतिष्ठितम् ।
यत्र दिक्कालसम्बन्धरहिते परमात्मनि ॥ ३ ॥
तदेव सर्वभूतानामन्तर्यामितया स्थितम् ।
अवतारकलानां च स्रोतसामिव तत्सरः ॥ ४ ॥
अनवद्यं पदं पूर्णं मायासम्बन्धवर्जितम् ।
प्रकृतिं पुरुषं चापि यदतीत्य व्यवस्थितम् ॥ ५ ॥
पूर्णं चिदानन्दमयं नभश्च यद्योगीश्वराणां धिषणाभिरस्पृशम् ।
सर्वंकषं साम्येन युतं निरन्तरं क्षरातिगं च प्रतियोगिशून्यम् ॥ ६ ॥
ततः परं तत्पुरुषोत्तमाख्यं परं तत्त्वं सहजारामशब्दितम् ।
अर्वाग् यतो ब्रह्म यदक्षरं तद्दीपस्य यद्वच्च विभा प्रसृत्वरी ॥ ७ ॥
इति त्वदाख्यातगिरां मुनीन्द्र सर्वस्वमेतन्मयका न्यबोधि ।
अतोऽहमग्रेतनयोगसंविदां परिशीलनादस्मि सुमन्थरादरः ॥ ८ ॥
विहाय कर्माणि च तत्त्वसंविदां परिश्रमोत्काश्च हिता उपासाः ।
श्री श्रितोऽस्मि सर्वस्य फलं स्वरूपतः प्रमाणमेकं सहजारामसंस्थम् ॥ ९ ॥
धन्यास्ते भक्तिभावैर्निजहृदि सहसा रामलीलानुभावे
हृष्यन्तो मुक्त्यतीते पथि परमतमानन्दपूर्णे प्रतिष्ठाः ।
रोमाञ्चस्वेदसंस्तम्भननयनजलोद्भावकम्पादियुक्ता
मुक्ताः संसारदुःखैरहमिह सततं दासदासोऽस्मि तेषाम् ॥ १० ॥
येषां रामे सहजासंगयुक्ते श्रीमत्प्रमोदाटविवासहृष्टे ।
नित्यं मनः प्रेमसमाधिमग्नं तेऽसि धन्या यूयमेते मुनीन्द्राः ॥ ११ ॥
इमां चिदानन्दकलां स्वयंभुवं स्वरूपतः श्रीसहजात्मिकामहम् ।
विज्ञाय पूर्णेश्वरतागुणाक्तां धियं किमु स्नेहपथे निवेशये ॥ १२ ॥
ऐश्वर्यमस्याः स्मरतः प्रतिक्षणं कथं नु वात्सल्यरसो भविष्यति ।
इत्यस्मि चिन्ताकुलितोऽधुना मुने त्वयोपदिष्टे निभृते प्रेममार्गे ॥ १३ ॥
३४

  • २६६ -
    श्रीशुक उवाच
    अस्याः काचित् परामाया या लीलाङ्गोपयोगिनी ।
    तयैव विस्मृतैश्वर्यवात्सल्येनु भविष्यसि ॥ १४ ॥
    पुत्रीस्नेहमयी बुद्धि प्राप्य ब्रह्मरसातिगाम् ।
    लीलानुभवानन्दः कृतकृत्यो भविष्यसि ॥ १५ ॥
    अनुग्रहो मयीशस्य रामस्य परमात्मनः ।
    यल्लीलानुभवं दातुमुद्यतोऽसौ भवादृशे ॥ १६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे श्रीशुकजनकसंवादेऽष्टषष्टितमोऽध्यायः ॥ ६८ ॥
    ✤
    एकोनसप्ततितमोऽध्यायः
    लक्ष्मण उवाच
    इत्युदीर्य शुको नाम योगीन्द्रः परमोहभित् ।
    द्योतयन् हरितः कान्त्या जगाम जनकालयात् ॥ १ ॥
    तमनुप्रययुः केचिन्मुनयस्तत्त्वदृष्टयः ।
    आसाकेतपरं धाम व्रजत्येष महामुनिः ।
    आ च शेषालयमधो जगत्कल्याणदायकः ॥ २ ॥
    तदान तात्परिज्ञाय रामतत्त्वं परात्परम् ।
    कृतकृत्योऽभवद्राजा नेमिचन्द्रः समात्मवित् ॥ ३ ॥
    भुवमप्सु समावेश्य तास्तेजसि मरुत्सु तत् ।
    मरुतो व्योमनि व्योम मनस्तत्त्वे प्रवेश्य च ॥ ४ ॥
    मनो बुद्धौ च बुद्धिन्तामहंकृतिगतां स्मरन् ।
    अहंकृतिं स्मरेच्चित्ते चित्तं विज्ञानगं स्मरन् ॥ ५ ॥
    विज्ञानं महति प्राप्य महत् प्रकृतिगं स्मरन् ।
    प्रकृतिं बहिरङ्गायां मायाशक्तौ प्रवेश्य च ॥ ६ ॥
    मायाशक्तिं च पुरुषे पुरुषं चाक्षरे परे ।
    अक्षरं चित्स्वरूपायां सहजायां परात्मनि ॥ ७ ॥
  • २६७ -
    सहजां भावयन् रामे पुरुषोत्तमशब्दिते ।
    परमे ब्रह्मणि सदा पूर्णानन्दे विपश्चिता ॥ ८ ॥
    तद्भावभाविताभावात्सदा तद्भावभावितः ।
    ततः सप्रमोदवनगुहायां निहितं च तत् ॥ ९ ॥
    भावयानः परं ब्रह्म भूयो न व्युदतिष्ठत ।
    गच्छञ्जल्पञ्जगत् पश्यन् बाधिताकारमात्मनि ॥ १० ॥
    कुर्वन् विविधकर्माणि लोकयात्रावहान्यपि ।
    जिघ्रंश्च रसयन्नश्नन् स्पृशन्निन्द्रियगोचरात् ॥ ११ ॥
    न व्यवच्छिद्यत ततो वस्तुनः परमार्थिकात् ।
    निर्दिष्टं यच्छुकेनास्मै सहजानन्दिनीपदम् ॥ १२ ॥
    ध्यानधारणयोगेन यज्ज्ञानेन स्थिरीकृतम् ।
    आत्मनीषच्चिदानन्दसम्पर्कानुमितं बलात् ॥ १३ ॥
    ईक्षाञ्चक्रे तदप्येष प्रकटं दिव्यचक्षुषा ।
    एकदा क्षुधिता बाला मातुस्तन्यपिपासया ॥ १४ ॥
    न गृहीता जवादेत्य मात्रा गौर्यर्चनस्थया ।
    तावज्जनक आगत्य स्वापत्यस्नेहकातरः ॥ १५ ॥
    उत्थाप्यैनां निजाङ्कस्थां कर्तुं समकरोन्मतिम् ।
    तावत्प्रदर्शयामास परमैश्वर्यमात्मनः ॥ १६ ॥
    यत्रानेकरवीन्दुमण्डलचयं वह्नित्रयं दृष्ट्वा
    निन्द्राद्यान्दशदिक्पतींश्च बहुधा ब्रह्मादिकांल्लोकपान् ।
    अन्यान् स्थावरजङ्गमस्थविषयग्रामान् जगच्चाखिलं-
    स्थूलं सूक्ष्ममथो परं च सकलं तस्याः शरीरस्थितम् ॥ १७ ॥
    अपश्यत्तामेव कचन पुरुषं पीतवसनं
    परं सुद्विभुजं धनुर्बाणधरं किरीटिनम् ।
    अलौकिक्या कान्त्या त्रिभुवनपरिव्याप्ततमया
    तपन्तं श्रीरामाह्वयमयमथो तां च महिषीम् ॥ १८ ॥
    कदाचित्पुरुषाकारं स्त्र्याकारं च कदाचन ।
    दृष्ट्वा महो विचित्रं तन्निश्चेतुं नाशकन्नृपः ॥ १९ ॥
    उज्ज्वलोज्ज्वलमत्यर्थं प्रसृत्वरमनन्तकम् ।
    विश्वव्यापकमात्मैकं महस्तदतिनिर्मलम् ॥ २० ॥
    त्रयस्त्रिंशत्कोटिसंख्यत्रिदशालयसंश्रयम् ।
    अपूर्वमपराबाह्यमनन्तरमनश्वरम् ॥ २१ ॥

-भhas a loop. Look at line 12:बभूवास्य-भhas a loop. Look at line 13:बहिःप्रत्ययभाङ्-भhas a loop. Now look at line 23: Does the letter in...र्त्रींhave a loop? Wait! Look atजगदेककर्त्रीं: कर्त्रींhas क, र्, त, ्, र, ी, ं. Then the next word: It isभर्त्रीं! Look at the left side: it is open at top, vertical stroke, loop, horizontal bar, vertical stroke! It looks EXACTLY like भ! Wait, why would it be भर्त्रीं? Because in Sanskrit: भर्त्री = fem. of भर्तृ (sustainer, maintainer, lord)! Vishnu is 'भर्ता' (भर्ता भोक्ता महेश्वरः). Devi is कर्त्री (creator), भर्त्री (sustainer), हर्त्री (destroyer)! "कर्त्री भर्त्री च हर्त्री" is a very standard Shakta/Vaishnava epithet for the Divine Mother! कर्त्री (creates), भर्त्री (nourishes/maintains), हर्त्री (withdraws/destroys). Yes! भर्त्री from भरण (nourishing, sustaining)! And look at the letter: it IS भर्त्रीं

  • २६९ -
    अथवैककृपामात्राद् दृश्यते मे दृशा महः।
    निःसाधनानां स्वीकारे हीदमेव निदर्शनम् ॥ ३७ ॥
    १लक्ष्मण उवाच
    इति स्तुवत एवास्य प्रणिपत्य मुहुर्मुहुः।
    तद्रूपमुपसंजह्रे सहजानुग्रहात्मकम् ॥ ३८ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    सीताजन्मोत्सवे एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
    ✤
    सप्ततितमोऽध्यायः
    लक्ष्मण उवाच
    ततस्तां बालवेशेन शोभयन्ती स्वमालयम् ।
    विलोक्य जनको राजा अपत्यस्नेहकातरः ॥ १ ॥
    तत्क्षणाद्विस्मृतैश्वर्यो बभूव प्रीतमानसः ।
    बाल्यक्रीडनकैः सा तु क्रीडमाना स्वमातृभिः ॥ २ ॥
    लाल्यमाना गृहे राज्ञा अङ्कभृशमभूषयत् ।
    शिक्यस्था दोल्यमाना सा तात तातेति भाषती२ ॥ ३ ॥
    उद्वर्तनेन संस्निग्धा साञ्जनाञ्जनबिन्दुभिः ।
    डाकिनीनां दृष्टिदोषादुत्तरारसवैभवात् ॥ ४ ॥
    डाकिनी पूतना या तु कूष्माण्डा भैरवादयः ।
    बालां तामुपसंयातास्तेजसागुः पराहताः ॥ ५ ॥
    इत्थमैश्वर्यकलिता गुणसंदोहभाविता ।
    तयोर्मनसि दम्पत्योः प्रेमपुष्टिं ततान सा ॥ ६ ॥
    तज्जन्मदिवसादेव राज्ञो जनकभूपतेः ।
    मन्दिरं सर्वशोभाढ्यमवर्तत रमालयम् ॥ ७ ॥
    वैकुण्ठमिव भूमिष्ठं जनकस्य पुरं बभौ ।
    भूरभूत् काञ्चनमयी तत्क्षणात् पश्यतां नृणाम् ॥ ८ ॥
    १. नास्ति-बड़ौ० । २. आर्षप्रयोगः ।

कमलेशो घोषवती साक्षादमृतवाहिनी ।
जातरूपमहाकूला जनकस्य पुरे वभौ ॥ ९ ॥
शिवलिङ्गानि दिव्यानि तत्र तत्र चकाशिरे ।
सद्यः पूजयतां नृणां मनसः कामदानि च ॥ १० ॥
श्रीमन्नारायणस्तत्र श्रीरामस्य कलांशकः ।
निवासं तत्र कृतवान् यथा वैकुण्ठगः स्वयम् ॥ ११ ॥
इतः प्रमोदविपिनं जनकस्य पुरं ततः ।
मध्ये ब्रह्मादिदेवानां वासस्थानं बभूव तत् ॥ १२ ॥
सर्वर्तुसुखशोभाढ्यं चन्दनानिलसेवितम् ।
जनकस्य पुरं रम्यमयोध्यासदृशं वभौ ॥ १३ ॥
निवासः सर्वसिद्धानां योगसिद्धेः सदैव तत् ।
जनकेन्द्रपुरं नित्यं तत्क्षणेन व्यरोचत ॥ १४ ॥
सरांसि फुल्लकमलानि नित्यं माद्यन्महाराजहंसीकुलानि ।
रत्नोपहेमोज्ज्वलक्लृप्तपुष्पनिःश्रेणिकाशोभितनिर्मलानि ॥ १५ ॥
वनानि वल्गुस्फुरितच्छदानि संफुल्लपुष्पाणि फलान्वितानि ।
गुञ्जत्प्रमत्तभ्रमरावलीभिर्मुहुः समास्वाद्य मधुश्रवाणि ॥ १६ ॥
देशः स तावन्मिथिलेति संज्ञो मिथः प्रमोदाः खलु यत्र लोकाः ।
नार्यश्च सर्वाः सुभगा रमाभा भास्वन्मणिद्योतितहेमभूषाः ॥ १७ ॥
सीताजनुर्भूरिमहोत्सवेन व्याप्तान्तरा याज्ञवल्क्यादयोऽपि ।
विस्मृत्य चित्तेषु समाधियोगं प्रेमैकमग्ना मुनयो बभूवुः ॥ १८ ॥
स्थले स्थलेऽभूत कमलाविलासो विलासिनीनां मतिविभ्रमेषु ।
वीथीषु यत्रस्फुटहेमयूथीसवर्णभासां प्रमदोत्तमानाम् ॥ १९ ॥
पर्यङ्कपुष्पास्तरणान्वितेषु शुद्धान्तसौधेषु सुमङ्गलानि ।
गीतानि वीणास्वरवादिनीनां स्त्रीणां महासौभगभूषितानाम् ॥ २० ॥
स्खलद्गतीनां मदमन्थराणां मधूत्तमास्वादसुविह्वलानाम् ।
कटाक्षनिक्षेपभुजोन्नतिश्रीवश्या बभूवुः १कमनाप्रियाणाम् ॥ २१ ॥
बाला युवानश्च तथैव वृद्धाः सर्वे जनाः सोत्सवपूर्णचित्ताः ।
सीताजनौ जातमुदो विरेजुर्यथैव साकेतपुराधिवासाः ॥ २२ ॥
कलाकलापाः सहसाऽविरासुर्विलासभूमौ जनकेन्द्रपुत्र्याः ।
दिने दिने शैशवमुत्तरन्ती कैशोरमेषा वयसा प्रपेदे ॥ २३ ॥
१. कमनाः=कामुकाः ।

  • २७१-
    कैशोरमारभ्य रघूत्तमस्य संशृण्वती साथ गुणान् मनोज्ञान् ।
    रोमाञ्चसंदोहचिताङ्गयष्टिः प्रकम्पमाना ददृशे सखीभिः ॥ २४ ॥
    नवं प्रमोदप्रचुरं वयः सा कैशोरमासाद्य विराजमाना ।
    अत्यर्थमादौ सुरभेर्बभूव सपल्लवा काञ्चनवल्लरीव ॥ २५ ॥
    अथास्याश्चरितं वक्ष्ये मुक्तिदानक्रियात्मकम् ।
    ये जीवा वेदशास्त्राणां निन्दका गुरुनिन्दकाः ॥ २६ ॥
    अभ्यागतार्चारहिताः शुद्धकायाश्च पुण्यतः ।
    ते जीवा जानकीजन्मत्युत्पन्नाः कर्मयोगतः ॥ २७ ॥
    वृक्षगुल्मलताुरूपाः पशुपक्ष्यादिरूपिणः ।
    तद्वीक्षणक्षणेनैव धूतपापकदम्बकाः ॥ २८ ॥
    जीवन्मुक्ता बभूवुर्वै येषां मुक्तिश्च नान्यतः ।
    ये जीवाः कामिकाश्चैव यज्ञकर्मपरायणाः ॥ २९ ॥
    शुद्धान्वयोद्भूवा दैवाद्योध्यारामनिन्दकाः ।
    सीमान्तः कर्मनिष्ठानां भक्तिनिष्ठाविदूषकाः ॥ ३० ॥
    सीतोपासननिन्दायां प्रसक्ता भवदूषकाः ।
    तेषामासुरनिष्ठानां जीवानां मूढचेतसाम् ॥ ३१ ॥
    सीताजन्मोद्भूवानां वै वृक्षगुल्मादिरूपिणाम् ।
    पशुपक्ष्यादिदेहानां विमुक्तिर्दर्शनात्तदा ॥ ३२ ॥
    रामेण मोचिता ये न ये न ज्ञानेन मोचिताः ।
    दृढपाशैः कर्मभिर्ये बद्धाः सांसारिकाः जनाः ॥ ३३ ॥
    सीता जन्मप्रसंगेन तांस्तारयति निश्चितम् ।
    इममर्थं पुरस्कृत्य प्रादुर्भूतेयमद्भुता ॥ ३४ ॥
    नान्यथा मोचनं तेषां जानक्या दर्शनं विना ।
    अयमेवानुभावोऽस्या आनन्दिन्याश्चिदाकृतेः ॥ ३५ ॥
    स्वरूपेणैव सामर्थ्यान्मोचयति चेतनान् ।
    दर्शनात् स्पर्शनाल्लापात्पादनिक्षेपणातथा ॥ ३६ ॥
    अङ्गसंगिनो वातात्तारिता बहवस्तया ।
    एतद्धि शैशवं कर्म तस्याः सामर्थ्यसंयुक्तम् ॥ ३७ ॥
    मूढभावानुकरणे मर्यादात्रयलङ्घिता ।
    मूढभावं समुत्तीर्य कैशोरे सा व्यवस्थिता ॥ ३८ ॥
    मुनीनां ज्ञानिनां चित्ते योगिनां च विशेषतः ।
    निजदर्शनमात्रेण प्रेमाणं साव्यवर्घयत् ॥ ३९ ॥

ततः प्रेमप्रभावेण बभूवुर्भक्तिसंयुताः ।
एतत्कौशोरकं कर्म तस्या लीलानुभावनम् ॥ ४० ॥
श्रोतव्यं स्मरणीयं च रामलीलारसाधिकम् ।
अन्यच्चापि वयस्तस्या नित्यलीलाचिदाकृतेः ॥ ४१ ॥
अवस्थारूपनियतं चरित्रैर्जन्मतारकम् ।
लीला गुणाश्चरित्रं च तस्याः संसारतारकम् ॥ ४२ ॥
अस्या जनिस्त्वेतदर्थं विज्ञेयाखिलकोविदैः ।
तारयन्ती जनांस्तांस्तात् स्वलीलारसरञ्जिता ॥ ४३ ॥
ववृधे जानकी गेहे पितुरानन्दकारिणी ।
बाललीलारसं भूयः शीलयन्ती स्वभावतः ॥ ४४ ॥
कैशोरं जुषमाणापि ददृशे बाल्यशालिनी ।
रूपं तस्याः समुद्वीक्ष्य त्रैलोक्यवरयोषिताम् ॥ ४५ ॥
व्यगलत्सौन्दर्यमदः सद्य एव समंततः ।
तन्मायामोहिताः केचिच्चित्ते च कमिरे जनाः ॥ ४६ ॥
रावणस्तां समाकर्ण्य त्रैलोक्येऽनन्यसुन्दरीम् ।
वाञ्छापि महावीरश्चुक्षोभ हृदये स्वके ॥ ४७ ॥
अथो जनकराजेन पणीचक्रे स्वके हृदि ।
य इदं शाम्भवं चापं समाकृष्याधिरोपयेत् ॥ ४८ ॥
स मे कन्यां समुद्वाह्य पाणिग्रहविधानतः ।
लोकोत्तरगुणरामो यास्यते मम मान्यताम् ॥ ४९ ॥
सर्वे वितथसंरम्भा बभूवुश्चापरोपणे ।
[L2

  • २७३ -
    तत्र स्वयंवरे पूर्वं सगतौ बाणरावणौ ।
    भग्नमानौ ततौ भूत्वा हरचापाधिरोहणे ॥
    ययतुः स्वगृहे तौ च श्रीरामासूययान्वितौ ॥ ५५ ॥
    समासाद्य प्रियां रामः स्वयं श्रीपुरुषोत्तमः ।
    जनकस्य गृहे रम्ये मुमोद परया मुदा ॥ ५६ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
    श्रीशुकजनकसंवादे सीताजन्मोत्सवे सप्ततितमोऽध्यायः ॥ ७० ॥
    पश्चिमखण्डः समाप्तः ॥
    ३५

श्रीमदादिरामायणम्
( भुशुण्डरामायणम् )
उत्तरखण्डः
प्रथमोऽध्यायः
ब्रह्मोवाच
एकदा विबुधाः सर्वे सुखिता रावणे हते ।
मघवन्तं पुरस्कृत्य ब्रह्मलोकमुपाययुः ॥ १ ॥
तत्र गत्वा स्वयं देवं परमेष्ठिनमीश्वरम् ।
रावणस्य वधादेशादूचुः स्वकृतकृत्यताम् ॥ २ ॥
देवा ऊचुः
कृतकृत्याः स्म भगवान् स हतो राक्षसेश्वरः ।
रामेण देवदेवेन १रसिकेन लोकरञ्जिना ॥ ३ ॥
स्वर्गे वयं स्वस्वपदानि२ सर्वे लभेम दुःखं विनिवारितं ततः ।
स्वाहास्वधाकारकृतानि हव्यकव्यानि सस्थामगमन् स्वकीयाम् ॥ ४ ॥
एवं त्रिलोकस्य निवारितं तमस्तत्पापसंज्ञं हरचण्डीवरोत्थम् ।
लङ्काधिराज्ये चाभिषिक्तोः वरेण्यो विभीषणो वैष्णवः स्वस्य भक्तः ॥ ५ ॥
त्रयी च३ धर्मश्च चिरेण नष्टौ संस्थापितौ गोद्विजविप्रभक्तिः ।
स्वीया च भक्तिस्त्रिदशैरप्यलभ्या प्रसादनाम्नोर्महिमा वैष्णवानाम् ॥ ६ ॥
कृतानि कर्माणि तथा विचित्राण्यानन्ददानिस्वेषु दुःखं परेषु ।
तीर्थानि सीताचरणाङ्कितानि विनिर्मितानि स्वपदैरङ्कितानि ॥ ७ ॥
नामानि देवेन सुमङ्गलानि स्फुटीकृतान्यद्भुतपावनानि ।
चाण्डालहूँणोत्खसपुक्कसाद्यैः स्मृतानि सद्यो निजसायुज्यदानि ॥ ८ ॥
कृतानि रामेण नरोत्तमेन पुण्यस्थलानिस्वपदानिभूम्याम् ।
सीतासुमित्रातनयाभ्यां हनूमता युक्तः स्वयं यत्र सदावतिष्ठते ॥ ९ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः ।
२. 'सर्वे' नास्ति-बड़ौ० ।
३. 'च' नास्ति-बड़ौ० ।

  • २७६ -
    विक्रीडितं प्रमुदकाननमध्यगेन माङ्गल्यकासुखितयोः सदने परेण ।
    आभीरबालवनितावधितन्निजस्य वैकुण्ठधाम नयता निशि सुप्तलोकम् ॥ १० ॥
    विक्रीडितं दशरथस्य गृहे तथोच्चैरीशेन दिव्यवपुषा पुरुषोत्तमेन ।
    स्वांशैः समं भरतलक्ष्मणशत्रुसूदैर्देव्या स्वयं कमलया च युतेन नित्यम् ॥ ११ ॥
    तच्चित्रकूटगिरिवर्यचरित्रमीशकः स्तोतुमीष्टइति किं भगवन्नवेत्सि ।
    यत्रार्यपादरजसाशतशः स्थलेषु भक्तिप्रदं प्रतिपदं खलु कोटितीर्थम् ॥ १२ ॥
    यद्दण्डकावनभुवि प्रभुणानुजेन विक्रान्तमेवमितरेषु च काननेषु ।
    तत्तत्र तत्र विपुलं स यशो दधार पुण्याश्रमेषु च महत्कुशलं मुनीनाम् ॥ १३ ॥
    शत्रुहंतश्च जगतां सगणः सवर्गः सद्यः प्रसादसुमुखेन विभीषणश्च ।
    राज्ये सुनिश्चिततरे वचसाभ्यषिञ्चद्दूरीकृतश्च दयिताविरहोऽविषह्यः ॥ १४ ॥
    भूर्यश्वमेधमखमङ्गलदीक्षितेन यूपाङ्किताः सरयुकूलभुवः कृताश्च ।
    अभ्युद्धताश्च भवसागरतो मनुष्या आपामरा अपिशठा अधिकारहीनाः ॥ १५ ॥
    रामेति नाम रसनेन सकृद्रमन्तः पक्ष्यन्त्यजा अपिजयन्त्युररीकृताश्च ।
    जाता वयं च कृतकार्यसमस्तकृत्या भूमिः सनाथमभवद्वहुलक्ष्यवल्लिः ॥ १६ ॥
    को वर्णयेदपि सहस्रमुखो गिरीशो नामानि तस्य चरितानि गुणांश्च भर्तुः ।
    नायं प्रभुः स्पृहयते भुवि राज्यलक्ष्मी वैकुण्ठनाथप्रतिपूजितपादपद्मः ॥ १७ ॥
    किं तु स्वभक्तजनदुःख निवारणाय सम्भूय भूरि वितनोति शुभं चरित्रम् ।
    सम्पन्नमद्य तदशेषमनन्तकीर्त्तेर्भूयोऽद्भुतैर्भुजबलेः प्रबलैर्निजांशैः ॥ १८ ॥
    स्वं धाम सर्वजनगुह्यमतोऽभ्युपैतु देवः परात्परवरः परमस्त्रधीशः ।
    जातं सदा भुवनमङ्गलमीशितुश्च ते तेंऽशकाः स्वनिलयेषु वहन्तु राज्यम् ॥
    ये येऽधुना समुदिताः पुरुषे परस्मिन् स्वयं भगवति स्पृहणीयमूर्त्तौ ॥ १९ ॥
    नारायणो हरो ब्रह्मा शक्राद्यास्त्रिदिवालयाः ।
    सहस्रशीर्षा भगवान् महानायणस्तथा ॥ २० ॥
    सर्वेषामंशव्यूहो रामे लीनोऽद्य तिष्ठति ।
    न च विद्योतितुं शक्तो दिवसे तेजसामिव ॥ २१ ॥
    तस्मात्स्वयं स भगवान् निजधामैतु सम्प्रति ॥
    अधर्षितप्रभावाश्च राजन्तु दिवि देवताः ॥ २२ ॥
    इत्थं निगद्य विरतेषु सुरेश्वरेषु देवोऽब्रवीदखिलधातृपतिः सुरौघान् ।
    स्वयं सुशीलाचरितो भगवांस्तदर्थमभ्यर्थनीय इव वेत्ति च सर्वमेषः ॥ २३ ॥
    कालात्मना कलयते सकलं सदीश एतस्य नाविदितमग्रविधेयकार्यम् ॥
    प्रार्थ्यस्तथापि भजनीयगुणः स एतत्कालेन कालकलनः किलकालकालः ॥ २४ ॥
    इत्युक्त्वा सकलान् देवान् विरंचिर्विससर्ज ह ।
    भगवन्तं कालमीशं सस्मार च महामतिः ॥ २५ ॥

भगवान् वेधाःRight:कालं भुवनभीषणम् ॥ १० ॥`

Footnotes at bottom:
Line 28:
१. कालदमने उत्तरखण्डे-बड़ौ।
Line 29:
२. आर्षप्रयोगः ।

Let's check line 3:
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे 'कालदमनोपाख्याने
Wait, look at footnote 1:
१. कालदमने उत्तरखण्डे-बड़ौ।
In line 3, before कालदमनोपाख्याने, there is a superscript mark: 'कालदमनोपाख्याने. That is footnote reference 1, printed as ' or १.
Let's transcribe it faithfully.

Let's do a complete final review of every line:
स्वस्यापि यः कलयता मघोनः शङ्करस्य च। -> wait, is there a space before the danda? Yes: च ।
सृष्टिस्थितिलयाधारः स काल. समुपाययौ ॥ २६ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे 'कालदमनोपाख्याने
प्रथमोऽध्यायः ॥ १ ॥
✤ (or separator)
द्वितीयोऽध्यायः
[L

  • २७८ -
    विधिरुवाच
    गच्छ त्वं काल साकेतनगरे भुविभूषणे ।
    यत्र रामः स्वयं भाति सीतया भ्रातृभिः सह ॥ ११ ॥
    जानकीशः समस्तेशः परमात्मा स्वयं प्रभुः ।
    तवापि स नियन्तेति प्रार्थनीयस्त्वया विभुः ॥ १२ ॥
    अवतारचरित्राणि कृतानि भगवंस्त्वया ।
    अतः परं निजं धाम प्रमोदविपिनाभिधम् ॥ १३ ॥
    अभ्यायाहि महाराज न हिते व्यक्तिरन्यथा ।
    भृतस्त्वया त्रयीधर्मो रक्षिता द्विजदेवताः ॥ १४ ॥
    किमर्थमधुना देव स्थीयते भवता प्रभो ।
    न हिते समवस्थानं प्रकटं भुवि सर्वदा ॥ १५ ॥
    धर्मसंस्थापनार्थाय व्यक्तिस्तव युगे युगे ।
    कृतानि देवकृत्यानि समस्तानां हितानि च ॥ १६ ॥
    प्रमोदवनमागच्छ राम त्वमधुना प्रभो ।
    निवारय व्रजस्त्रीणां वेदनां विरहोद्भवाम् ॥ १७ ॥
    पुत्रस्नेहातिवश्या
  • २७९ -
    कोटिरुद्रभुजं कोटिवसिष्ठादिविनाशकम् ।
    कोटिदेवेन्द्रविलयं कोटिदेवभवं तथा ॥ २७ ॥
    आधिदैविकमध्यात्ममाधिभौतिकमेव च ।
    अक्षरं त्रिगुणातीतं त्रिभवं त्रिभवातिगम् ॥ २८ ॥
    त्रिविष्टपेशसम्पूज्यं ब्रह्मरुद्रादिभीषणम् ।
    एवंविधं प्रभुं रामं दृष्ट्वा कालो व्यकम्पत ॥ २९ ॥
    न्यमीलयद् दृशौ भीत्या द्रष्टुं नाशकदीश्वरम् ।
    स्थातुं च नाशकत् स्थानेऽपलायत दिशो दश ॥ ३० ॥
    नतः सौम्यतरो भूत्वा कथंचित्पुनराययौ ।
    धैर्यं बद्ध्वा दृढं धीरो निदेशं ब्रह्मणः स्मरन् ॥ ३१ ॥
    स्फुटीचकार सहजानात्मनः सकलान् गुणान् ।
    सिषेच पुरवीथींश्च शीतलैश्चन्दनोदकैः ॥ ३२ ॥
    प्रफुल्लकुमुदाम्भोजमकाण्डमभवत्सरः ।
    अकाले चाग्निहोत्राणि हव्यगन्धानि जज्वलुः ॥ ३३ ॥
    ववुर्वाताः सुखस्पर्शाः सुनक्षत्रमभून्नभः ।
    ऋतुराजः प्रादुरासीत्प्रोत्फुल्लकुमुदाकरः ॥ ३४ ॥
    केकीशुकपिकध्वानचकोरीध्वनिमञ्जुलः ।
    श्रियमाकालिकीं वीक्ष्य मेने कालकृतं विभुः ॥ ३५ ॥
    अद्य कालः समायास्यन् कुरुते मे प्ररोचनम् ।
    फलस्तावितदेहे च कर्मकाण्डेऽतिदुष्करे ॥ ३६ ॥
    ततः पार्श्वस्थितं शेषं लक्ष्मणं लोकमङ्गलम् ।
    प्रतिहारपदं दत्त्वा स्थापयद् द्वारि राघवः ॥ ३७ ॥
    तत एकान्तगं दूरे रामं भुवनभूषणम् ।
    आजगाम स्वयं कालः कालकालं कृपानिधिम् ॥ ३७ ॥
    अतिसौम्यं वपुः कृत्वा कोटिचन्द्रसुशीतलम् ।
    सुवेशं सुमुखं स्वक्षं सुरूपं सुन्दरोत्तमम् ॥ ३९ ॥
    सोऽपश्यन्मणिपीठस्थं रामचन्द्रं जगद्धितम् ।
    प्रावृषेण्यघनश्यामं सुधावर्षिणमद्भुतम् ॥ ४० ॥
    फुल्लेन्दीवरसंकाशं मनोज्ञकरणेक्षणम् ।
    कोटिकन्दर्पलावण्यं कौस्तुभोद्भासितं गले ॥ ४१ ॥
    पादाङ्गुलिनखद्योतपराभूतेन्दुमण्डलम् ।
    शृङ्गारमिव मूर्त्याढ्यं प्रेमाणमिव भासुरम् ॥ ४२ ॥
  • २८० -
    साक्षाच्छ्रीसहजाकान्तं पादपङ्कजकोमलम् ।
    दूरादेव प्रभुं दृष्ट्वा साष्टाङ्गं प्रणनाम ह ॥ ४३ ॥
    तुष्टाव चाञ्जलिं बद्ध्वा भक्त्या नमितमस्तकः ॥ ४४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    द्वितीयोऽध्यायः ॥ २ ॥
    ✤
    तृतीयोऽध्यायः
    काल उवाच
    त्वमादिकालः पुरुषः पुराणो ममापि कालः स्वजनैकबन्धो ।
    अहं ग्रसामि त्रिजगत्समस्तं त्वां यः प्रपन्नस्तमृते विचक्षणम् ॥ १ ॥
    नतोऽस्मि ते नाथ पदारविन्दं न यत्प्रपद्याश्वशुभं लभन्ते ।
    भयं मदीयं विषहं दुरन्तं पादावधिस्तम्बमुपात्तविक्रयम् ॥ २ ॥
    तवाज्ञया नाथ शशिनं कुवेरं ब्रह्माणमुच्चैरधरेऽप्यनन्तम् ।
    हरामि वेगेन निजेन दुर्धरो महानदीपूरजवातिगामी ॥ ३ ॥
    कृत्यं ममैतद्विहितं त्वयैव यद्भूतमात्रग्रसनं जवेन ।
    न मां निरोद्धुं प्रभवन्ति केचिन्महामुनीन्द्रा अपि योगसिद्धाः ॥ ४ ॥
    दुर्वारवेगोऽस्मि तवाज्ञया प्रभो त्वदीहितं संघटयामि नित्यम् ।
    भिन्दामि शैलान् प्रहरामि वज्रं हरामि लोहालयमध्यगानपि ॥ ५ ॥
    भवत्कृपा यत्र च राम तं जनं विहाय दूरे विचरामि भीतवत् ।
    न यत्र माया प्रभवेद् दुरत्यया कथं नु तत्र प्रभवामि वर्तितुम् ॥ ६ ॥
    त्वमेक ईशोऽसि ममाप्यधीश्वर ब्रह्मादयो मद्बशगाः समंततः ।
    तमीशितारं मम विष्टपानां गच्छामि त्वां नाथ शरणं शरण्यम् ॥ ७ ॥
    किं तु प्रभो ब्रह्मशक्रादिभिः कृतां विज्ञप्तिमेकां विनिवेदयामि ।
    स्वेच्छा समग्रैकवशो भवांस्तथाप्यवितुमहौसि विभो रघूद्वह ॥ ८ ॥
    त्वं भूमिभारसंहृत्यै सम्प्राप्तोऽसि रघोः कुले ।
    रचितानि चरित्राणि लौकिकालौकिकानि च ॥ ९ ॥
    उद्धृताश्च निजा भक्ताः पादच्छायावलम्बिनः ।
    विपदो नाशितास्तेषां दृष्टराक्षसनाशनात् ॥ १० ॥
    देवानां च हितं यच्च यच्च वै मानुषं हितम् ।
    त्रैलोक्यस्य हितं यच्च तत्त्वया रचितं प्रभो ॥ ११ ॥
  • २८१ -
    ज्यास्फालनेन धनुषो वीरेन्द्रेण त्वया जिताः ।
    सुबाहुमारीचमुखा राक्षसा अतिमायिनः ॥ १२ ॥
    बहुबाहुप्रहरणा बहुयुद्धविशारदाः ।
    बहुमायाविनो धूर्ता रात्रियुद्धेषु कोविदाः ॥ १३ ॥
    उल्कामुखा अग्निमुखा विकटाङ्गा विलोचनाः ।
    करालदर्शना घोरा भूतसैन्यसहायकाः ॥ १४ ॥
    रुद्रदत्तवरास्तीव्रास्तीव्रप्रहरणास्तथा ।
    ईदृग्विधाः सुसंरब्धास्त्वया दैत्या निवारिताः ॥ १५ ॥
    ते चापि रिपवो राम त्वया स्वात्मनि वेशिताः ।
    मोचिता घोरसंसारक्लेशाद्द्रुक्तपदं गताः ॥ १६ ॥
    इदमद्भुतमाहात्म्यं तव राम निशामय ।
    राक्षसा अपि यन्मुक्तिं गमिताः स्वपदाङ्किताम् ॥ १७ ॥
    किं तु भक्ताः स्वपादाब्जसेवकाः साधुवर्त्मगाः ।
    मोचिता भवदुःखेभ्यो नाथेनामिततेजसा ॥ १८ ॥
    अतः परं प्रभो श्रीमन् विश्वस्याभ्युदयोऽभवत् ।
    तवैव कृपया नाथ राम सुभगवर्मणः ॥ १९ ॥
    न ते योनिं विदुर्देवा न मर्त्या नापि ये परे ।
    त्वमेकान्तस्वधाम्न्येव रममाणोऽसि नित्यशः ॥ २० ॥
    न ते गुणांस्तथा कर्माण्यन्याचरितान्यपि ।
    विदन्ति ते सूक्ष्मदृशो ये मायां कालमत्यगुः ॥ २१ ॥
    त्वमेव स्वात्मनः स्थानं जानासि रघुनन्दन ।
    न ते व्यक्तिः कापि भवे दृश्यते भूतलेऽपि वा ॥ २२ ॥
    त्वं सूर्यस्त्वं शशाङ्कश्च त्वं सर्वे ग्रहतारकाः ।
    जङ्गमं स्थावरं चापि त्वमेव रघुपुङ्गव ॥ २३ ॥
    स्वच्छन्दं क्रीडतो नाथ तव लीलारसात्मनः ।
    बहूनि कोटिवर्षाणि व्यतीतानि रमापते ॥ २४ ॥
    रुद्धो यमपुरीमार्गस्त्वयि जाग्रति भूतले ।
    विधेश्च सृष्टिवैषम्यसामर्थ्यं प्रविलोपितम् ॥ २५ ॥
    सर्वे मनुष्याः सुखिनः सर्वे भाग्येन पूरिताः ।
    सर्वे पूर्णायुषो राम सर्वे स्वेच्छैकमृत्यवः ॥ २६ ॥
    यत्र यत्र पदाम्भोजस्पर्शो जातस्तव प्रभो ।
    तत्र तत्र न पश्यामि दौर्भाग्यमपि दुर्गतिम् ॥ २७ ॥
    ३६
  • २८२ -
    एते त्वयैवाधिकृताः सुरेश्वरा व्यर्थाधिकारा अभवन् समस्ताः ।
    सर्वं जगद् राम त्वयाभिपाल्यमानं सुखाम्भोनिधिमग्नमस्ति ॥ २८ ॥
    नित्योत्सवो नित्यमहोदयश्च नित्यं शुभं नित्यसुखं गृहे गृहे ।
    राज्यं भवे कुर्वति राघवेन्द्र त्वयि गृहाः सर्वसुखाय चाभवन् ॥ २९ ॥
    एवं कृत्वा जगत्सर्वं मङ्गलायतनं प्रभो ।
    अभ्युपेहि परं दिव्यं स्वंधाम त्रिगुणातिगम् ॥ ३० ॥
    न यत्र वाङ् नैव मनःप्रसारो न कालमायादिगुणप्रवेशः ।
    तदेव ते धाम प्रमुद्धनं हि लीलालयं दिव्यदिव्यं परात्परम् ॥ ३१ ॥
    नित्यरासविलासाय सरयूपुलिनस्थितम् ।
    ब्रह्मशक्रादयो देवा ईक्षन्ते बहुभाग्यतः ॥ ३२ ॥
    इति विज्ञापितो नाथ ब्रह्मणा लोकभर्त्तृणा ।
    तन्निशम्य यथा स्वेच्छं क्रियतां कोविदेश्वर ॥ ३३ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे कालदमनोपाख्याने
    तृतीयोऽध्यायः ॥ ३ ॥
    🞽
    चतुर्थोऽध्यायः
    श्रीराम उवाच
    एवमेतत्त्वया काल यथोक्तं ब्रह्मणो वचः ।
    सम्पादितं मया कार्यं देवानां च तथा नृणाम् ॥ १ ॥
    नाधुना मम कर्त्तव्यं त्रिषु लोकेषु विद्यते ।
    उज्जासिता यद्रिपवो महान्तो राक्षसाधिपाः ॥ २ ॥
    तथापि ब्रह्मणो वाच्यं त्वया मद्वचनादिदम् ।
    कालमायातिगां लीलां कथं तौ वर्जयिष्यतः ॥ ३ ॥
    किं चतुर्दश लक्ष्याणि किमायुर्ब्रह्मणोऽपि च ।
    किं कल्पाः कोटिकल्पाश्च पुरुषश्चायुरेव च ॥ ४ ॥
    किं कार्त्स्न्य च माहात्म्यं किं कालकलनापि च ।
    न मे भवेत्परिच्छेदो ब्रह्मकल्पशतैरपि ॥ ५ ॥
    कथं त्वया ज्ञातमिदं विरञ्चे चतुर्दश प्रययुर्वर्षपूगाः ।
    भवादृशाः कोटिविरञ्चयोगता विक्रीडतो मे सहजं प्रमुद्धने ॥ ६ ॥
  • २८३ -
    वर्षाण्यतीतानि चतुर्दशेति त्वयोदितं नोभयथापि संगतम् ।
    निमेषमात्रं मम तु प्रयातं स्वच्छन्दलीलस्य सलक्ष्मणस्य ॥ ७ ॥
    निजवर्षप्रमाणेन न मे वर्षाणि वै विधे ।
    नाहं पर्यनुयोगाहंस्तव वान्यस्य कस्यचित् ॥ ८ ॥
    इति वक्तव्यमसकृद्ब्रह्मणे मूढबुद्धये ।
    उक्त्वा च पुनरागच्छ मन्त्रः कार्यस्त्वया सह ॥ ९ ॥
    तथेत्युक्त्वा विभु भक्त्या प्रणम्य च मुहुर्मुहुः ।
    ब्रह्मलोकेऽगमत्कालः साष्टाङ्गं च प्रणम्य तम् ।
    उवाच तत्समस्तं यत् प्रभूराह रघूद्वहः ॥ १० ॥
    ब्रह्मोवाच
    एवमेव स वै नाथः कालमायागुणेश्वरः ।
    स्वच्छन्दलीलः स्वच्छन्दः सच्चिदानन्दविग्रहः ॥ ११ ॥
    श्रीमान् सहजशोभाढ्यो गुणी च गुणनायकः ।
    कस्तं निरोद्धुं प्रभवेद्भगवन्तं सनातनम् ॥ १२ ॥
    स्वयं लक्ष्मीपतिं वीरं स्वयं सर्वशुभाकरम् ।
    यथा तस्य प्रभोरिच्छा तथा कार्यं करोतु च ।
    वयं सर्वे वशे तस्य न तस्येशश्च कश्चन ॥ १३ ॥
    काल उवाच
    मया प्रदर्शितं घोरं स्वरूपं कालमेधसे ।
    साधारणं नरं ज्ञात्वा पुरुषं पुरुषोत्तमम् ॥ १४ ॥
    तस्य रूपं च परमं मत्तोऽप्यतिभयानकम् ।
    घोरघोरतरं दृष्ट्वा पलायनपरोऽभवम् ॥ १५ ॥
    भयेन प्रस्खलत्पादः प्रस्खलन्मूर्द्धजावलिः ।
    पदे पदे कम्पमानो नाहं धैर्यधरोऽभवम् ॥ १६ ॥
    ततः सौम्यं वपुः कृत्वा गतोऽहं प्रभु संनिधौ ।
    गृहीत्वा तस्य पादौ तु तूष्णीमास भयानतः ॥ १७ ॥
    ततोऽतिकृपया पूर्णः प्रभुर्मा स ददर्श ह ।
    कृपया मां स विज्ञाप्यं त्वदुक्तं च न्यवेदयम् ॥ १८ ॥
    तच्छ्रुत्वा भगवान् राम इदमूचे कृपानिधिः ।
    न मे लीला परिच्छेद्या ब्रह्मणा च त्वयापि च ॥ १९ ॥
    ब्रह्मोवाच
    महान्विनयो जातो यद् रामस्य विभीषिकाम् ।
    कर्तुं प्रदर्शयामास स्वस्वरूपं भवान् प्रभोः ॥ २० ॥