भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 307, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 307
- २९४ -
वृक्षत्वेन न भेदोऽस्ति स्तम्भत्वादिकृता भिदा ।
एवं जगदिदं सर्वं ब्रह्मैवेति न संशयः ॥ २३ ॥
पञ्च भूतानिमात्राश्च चित्तं बुद्धिस्तथा मनः ।
अहंकृतिर्महत्तत्त्वं प्रकृतिश्च सनातनी ॥ २४ ॥
प्रत्येकं भेदनियतमभिन्नं ब्रह्मसर्वतः ।
अचलं चैव कूटस्थं भेदाभेदोपयोगि तत् ॥ २५ ॥
अवाच्यं सर्वतोऽतीतमुच्चैः स्थानं परं पदम् ।
तस्यविद्या च महती विद्या चापि तदात्मिका ॥ २६ ॥
अविद्यया न जानाति विद्यया वेत्ति तत्परम् ।
विद्याविद्ये अतिक्रम्य परमं सुखमश्नुते ॥ २७ ॥
न यत्र भेदसम्बन्धो नाभेदश्च परस्परम् ।
न बन्धो यत्र विषमो न मुक्तिश्च समात्मिका ॥ २८ ॥
यथा राजा भवेत्कश्चित् समस्ते भूमिमण्डले ।
स लोकैर्ज्ञायते राजा वाङ्मनोव्यवहारतः ॥ २९ ॥
स नित्यं नैव जानाति राजास्मीति निरन्तरम् ।
एवं स्वरूपं प्राप्तस्य ब्रह्मास्मीति मुहुर्मुहुः ॥ ३० ॥
चित्तवृत्तिर्नाशिमेति तदेव परमं पदम् ।
क्षीरनीरवदैक्यं स्याल्लवणोदकवत् पुनः ।
एकमेव च तज्ज्ञानं ज्ञातव्यं मुक्तिमिच्छता ॥ ३१ ॥
नानाज्ञानानि बालानां प्रबोधाय समंततः ।
निबन्धेषु निबध्यन्ते वस्तुतो नैव तत्र हि ॥ ३२ ॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे उत्तरखण्डे¹ श्रीरामात्रेयसंवादे
ऽष्टमोऽध्यायः ॥ ८ ॥
⁕
नवमोऽध्यायः
आत्रेय उवाच ,
यदिदं ज्ञानमाख्यात भवता रघुपुङ्गव ।
उपयोगी न बालानां क्षुद्राणामल्पचेतसाम् ॥ १ ॥
१. नास्ति बड़ौ० ।