भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 299, कुल 423 में से
संदर्भ में पढ़ें- २८६ -
पुरुष उवाच
अहं रामस्य भक्तोऽस्मि प्रमोदवनरक्षकः ।
कोऽन्तःप्रवेष्टु मर्होऽस्ति व्रजभक्तजनं विना ॥ २२ ॥
ततः कालः पराभूतोन्ववर्तत दिवं प्रति ।
मध्येपथं तु सविधे वसिष्ठस्याश्रमे शुचौ ॥ २३ ॥
निर्वाणे गण्डकोगङ्गासंगमे ह्यतिपावने ।
तत्र दिव्यवने रामं ददर्श स किरातिनम् ॥ २४ ॥
मृगयाभिरतं वीरं सीतासंशोभिविग्रहम् ।
खेलन्तं मृगयूथेन मृगराजमिवोद्धुरम् ।
उपरिष्टाच्छ्वेतहये पर्यारूढं घनोपमम् ॥ २५ ॥
तं दृष्ट्वा प्रणनामैष प्रभुं त्रैलोक्यनायकम् ।
पपात पादयोः पश्चात्परिपूर्णदयानिधेः ॥ २६ ॥
पूर्वापराधशमनाय विधेर्नियोगात् तुष्टाव राघववरं करुणासमुद्रम् ।
उन्निद्रपुष्करदलायतलोचनान्तं दृष्ट्वामितामृतकृपारसभूरिधारम् ॥ २७ ॥
नमस्ते करुणासिन्धो नमस्ते भक्तवत्सल ।
नमस्ते दीनलोकाप्त क्षमस्व मम दुर्नयम् ॥ २८ ॥
नमस्ते राम राजीवनेत्र लालितविग्रह ।
भक्तौघनयनानन्द क्षमस्व मम दुर्नयम् ॥ २९ ॥
नमस्ते कालमायादिगुणवश्यैकवारक ।
स्ववश्य कमलाकान्त क्षमस्व मम दुर्नयम् ॥ ३० ॥
नमस्ते त्रिजगन्नाथ ब्रह्मरुद्रादिदैवत ।
मायाधीश हि सर्वेश क्षमस्व मम दुर्नयम् ॥ ३१ ॥
भीषणानां भीषणस्त्वं सुन्दराणां च सुन्दरः ।
सौम्यानां च तथा सौम्यः कठोराणां कठोरकः ॥ ३२ ॥
मृदूनां मृदुलश्चासि पृथूनां त्वं पृथुः प्रभो ।
नियन्तॄणां नियन्ता च लोकेशो लोकरक्षिणाम् ॥ ३३ ॥
प्रचण्डानां प्रचण्डस्त्वमुद्धतानां तथोद्धतः ।
यद्वस्तु यद्यादृशं च तस्य रूपं त्वमेव हि ॥ ३४ ॥
आधिदैविकमध्यात्ममधिभूतमथापि च ।
तस्यते नाथ मत्तोऽपि भीषणस्य मदीशितुः ॥ ३५ ॥
विभीषिकार्थं यदहं निजरूपमदर्शयम् ।
स एव मेऽपराधोऽभूत्प्रभो दुर्विनयात्मकः ॥ ३६ ॥