सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 309, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 309
  • २९६ -
    ज्ञानाभावे स्वर्गसुखं लभते मूढमानसः।
    परं नियतलोकाख्यं वाक्यशेषेण गद्यते ॥ १७॥
    श्रद्धा चैव तथासूया दुःखानि विविधानि च।
    स्वर्गिणामपि जायन्ते तथान्येश्च पराभवः ॥ १८॥
    प्रवृत्तिमार्गनिष्ठा हि ध्रुवाधस्तात् स्थिता अमी।
    न ध्रुवोपरि वै तेषां स्वर्गिणां गतिरिष्यते ॥ १९॥
    न च स्वर्गेषु लोकेषु वाक्यशेषोदितं सुखम्।
    नित्यमात्मसुखं तद्धि सत्त्ववृद्ध्या प्रजायते ॥ २०॥
    शुद्धे सत्त्वगुणे चैव स्वर्गः सत्त्वभवो भवेत्।
    कामाभावेपि तन्मुख्यं फलमुक्तं न संशयः ॥ २१॥
    सार्वकामिकमेतद्धि फलं वेदे निगद्यते।
    यागस्य मत्स्वरूपत्वान्मुक्तिरेव फलं भवेत् ॥ २२॥
    परोक्षकथनद्वारा तदेवाह गिरां पतिः।
    अलसा अनुशास्यन्ते प्ररोचनगिरा मुहुः ॥ २३॥
    यजेत पशुबन्धेन स्वर्गलोकफलाशये।
    अक्षय्यं सुकृतं लब्धुं चातुर्मास्यैर्यजेन्नरः ॥ २४॥
    आत्मानन्दस्वरूपं तदक्षयं समुदीर्यते।
    तदेव सर्वलोकाख्यं वेदेषु च निगद्यते ॥ २५॥
    सर्वे लोकाः स्वयं ह्यात्मा सच्चिदानन्दलक्षणः।
    आदित्यानां च विश्वेषां वसूनां वरुणस्य च ॥ २६॥
    अग्नीनां तु चितानां च भास्वराणां दिवौकसाम्।
    मरुतां चैव साध्यानां रुद्राणां गणपां तथा ॥ २७॥
    कुबेरस्य ब्रह्मणश्च तथैवानन्तसंज्ञिनः।
    सर्पाणां देवजनानां देवानां च विशेषतः ॥ २८॥
    देवानां कर्मदेवानां ये ये लोकाः सनातनाः।
    सच्चिदानन्दरूपाश्च तत्तद्भोगभयास्तथा ।
    सर्वेपरिसमाप्यन्त आत्मन्येव न संशयः ॥ २९॥
    आत्मा स्वयं ज्योतिरजः सनातनः सच्चित्सदानन्दमयः स्वयं प्रभुः।
    अनन्यतन्त्रः कुशलैकभाजनं स्वभासकः सन् परभासकश्च सः ॥ ३०॥
    स्वर्गं एव फलं नित्यं नान्यत्क्वापि श्रुतेर्मतम्।
    पश्वादिकं तु विकृतौ फलमुक्तं मदात्मकम् ॥ ३१॥
    मदात्मकं तद्धि तथा मद्रूपं नियतं श्रुतौ।
    नित्यकर्माणि पोष्यन्ते काम्यकर्माद्युदीरणात् ॥ ३२॥