सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

११८ भोजनकुतूहले
कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगनुत् ।
किलासकफदौर्गन्ध्यगन्धालक्ष्मीमलापहा ॥
'दौर्गन्ध्यगन्ध इत्येकं पदम् ।'
कस्तूरी ।
अत्रैव प्रसङ्गात् तद्भेदास्तल्लक्षणं, कृत्रिमस्वरूपं चोच्यते ॥
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
निपालेऽपि च काश्मीरे कामरूपेऽपि जायते ॥
साप्येका खरिका ततश्च तिलका ज्ञेया कुलत्थापरा
पिण्डान्यापि च नाभिकेति च परा या पञ्चभेदामिधा ।
सा शुद्धा मृगनाभितः क्रमवशाद्देशादितीक्ष्णोत्थिता
पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका श्रूयते ॥
धूम्राकृतिस्तु खरिका तिलका तिलाभा
कौलत्थबीजसदृशी च कुलत्थकीख्या ।
स्थूला ततः कियदिदं किल पिण्डका स्यात्
तस्याश्च किञ्चिदधिका यदि नाभिका सा ॥
तिक्ता स्वादे पिञ्जरा केतकीनां
गन्धं धत्ते लाघवं तोलने च
याप्सु न्यस्ता नैव वैवर्ण्यमीयात्
कस्तूरी सा राजभोग्या प्रशस्ता ॥
किञ्च,
या गन्धं केतकीनामपहरति मदं सिन्धुराणां च वर्णे
स्वादे तिक्ता कटुर्वा लघुरथ मृदिता मर्दिता चिकणा स्यात् ।
दाहं या नैति वह्नौ झिमिशिमिति चिरं चर्मगन्धा हुतान्ते
सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥
अपि च,
बाले जरति च हरिणे क्षीणे रोहिणि हि मन्दगन्धयुता ।
कामरते वा तरुणे कस्तूरी बहुपरिमला भवति ॥
१. T₂ छने हि ।

प्रथमपरिच्छेदः । ११९
तथां,
कस्तूरी धूपगन्धा वहति विनिहिता पीततां पाथसोऽन्त-
र्निःशेषं या निविष्टा भवति हुतवहे भस्मसादेव सद्यः ।
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च
ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥
इति कस्तूरीप्रकरणम् ।
गोरोचनातिशिशिरा विषदोषहन्त्री
रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री ।
भूतग्रहोपशमनी कुरुते च वश्यं
सर्वत्र मङ्गलकरी जनमोहिनी च ॥
गोरोचना ।
अथ कर्पूरः ।
पोतास्यो भीमसेनस्तदनु शितकरः शर्करावाससंज्ञः
१पांशुः पिण्डाब्जसारस्तदनु हिमयुतो बालुका जूटिका च ।
पश्चादास्या तुषारस्तदुपरि सहिमश्शीतलः पच्चिकान्या
कर्पूरश्वेति भेदा गुणरसमहसां चैव ३ह्रस्वेन दृश्याः ॥
इति कर्पूरभेदाः ।
कर्पूरश्शिशिरस्तिक्तः कटुः श्लेष्मास्रपित्तनुत् ।
तृष्णाविदाहकण्ठस्थदोषघ्नोऽक्षिरुजापहः ॥
किञ्च,
कर्पूरो नूतनस्तिक्तः स्निग्धश्चोष्णश्च दाहदः ।
चिरस्थो दाहशोषघ्नः सुधौतश्शुभकृत्परः ॥
शिरोमध्ये तलं चेति कर्पूरस्त्रिविधो मतः ।
शिरः स्तम्भाग्रसञ्जातं मध्यं पर्णे तले तलम् ।
शिरोमध्यतलानां च क्रमेण गुणगौरवम् ॥
१. P 1.; P 2. पांसुः ।
२. T 2. हित ।
३. T 2. P 2. दृश्येन ।

१२० भोजनकुतूहले
तथा .
स्तम्भमध्यस्थितश्श्रेष्ठः स्तम्भबाह्ये च मध्यमः ।
श्रेष्ठमीषददरिद्रामं शुभ्रं तन्मध्यमं स्मृतम् ॥
सुदृढं शुभ्ररूक्षं तु पुलकं बाह्यजं स्मृतम् ।
अपि च
स्वच्छं भृङ्गाभ्रपत्रद्युति लघु विशदं तोलने तिक्तकं चेन्
स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदि सौरभ्यदायि ।
निस्स्नेहं दीर्घपत्रं शुभतरमति चेद्राजयोग्यं प्रशस्तं
कर्पूरं चान्यथा चेद् बहुतरमशने स्फोटदोषप्रदायि ॥
चीनकः कटुतिक्तोष्ण ईषच्छ्वेतः कफापहः ।
कण्ठदोषहरो मेध्यः पाचनः कृमिनाशनः ॥
चीनकर्पूरः ; कृत्रिमः ।
जातीपत्री कटुस्तिक्ता सुरभिः कफनाशिनी ।
वक्त्रवैशद्यजननी जाड्यदोषनिकृन्तनी ॥
जायपत्री ।
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् ।
रक्तातिसारमेहघ्नं वृष्यं दीपनकं लघु ॥
जायफळ ।
कङ्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् ।
दीपनं पाचनं रुच्यं कफवातनिकृन्तनम् ॥
कापुरचिणी ।
लवङ्गं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् ।
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥
लवङ्ग ।
सौगन्धिकं जवादि स्यात् स्निग्धं चोष्णं सुखावहम् ।
वाते हितं तु राज्ञां च मेहनाह्लादकारकम् ॥
जवादि ।

प्रथमपरिच्छेदः । १२७
तल्लक्षणं च

  • जवादि नीरसं स्निग्धमीषत्पिङ्गं सुगन्धिदम् ।
    आतपे बहुलामोदं राज्ञां योग्यं च नान्यथा ॥
    इति ॥
    इति सम्भाराः ॥
    अथ हृतयः ।
    शिग्रुमूलस्य चूर्णेन मर्दितं पानसं फलम् ।
    हृतं स्यात्कादलं पक्वं फलमौदुम्बरत्वचा ॥
    वंशत्वचा वापि भवेदपि शालितुषेण वा ।
    तालमूलस्य चूर्णेन तत्फलं भवति हृतम् ॥
    इति हृतयः ॥
    अथ घृतप्रकरणम् ।
    शोणस्य नारिकेलस्य बालस्यान्तर्गतं जलम् ।
    सकल्कं भोदितं मेघनादमूलरजोन्वितम् ॥
    समेन सर्पिषा युक्तं यदि पक्वं घृतं भवेत् ।
    चूर्णं बकुलबीजस्य क्षिप्त्वा तैले पयस्समे ।
    पके तैलावशेषे तु तद्घृतं भवति ध्रुवम् ॥
    लशुनं षोडशांशं तु पुन्नागफलसंयुतम् ।
    शर्करां च पचेद्यस्तु तैलप्रस्थं घृतं भवेत् ॥
    मुद्गाभिधस्य खण्डेन सार्थांशेन युतं घृतम् ।
    साष्टरम्भाफलं सर्पिः प्रस्थं प्रस्थद्वयं भवेत् ।
    शृते तु माहिषे क्षीरे चतुर्थांशावशेषिते ।
    तुल्याज्ये कर्णिकारस्य पुष्पैः पक्वं घृतं भवेत् ।
    तुल्यान्यतैलं बकुलबीजं पक्वं घृतं भवेत् ॥
    इति कृत्रिमघृतानि ॥
    १ T 2. शालितुषेण.
    २ P₁ तज्जलं P₂ तडलं ।
    1081

भोजनकुतूहले ७२
. अथ शर्करा ॥
क्षीरं पुनर्नवाया मूलेनावर्तितं पक्वम् ।
भवति सितेव सिता सा क्षीरगुणैवेति पाकज्ञाः ॥
चक्रिकामूलेनापि भवति । कोमलानि शिवजटाग्राणि रविकरस्पृष्टानि
चूर्णयेत् । तच्चूर्णे क्षीरे सितं तथा भवति ।
इति शर्करा ॥
अथ पानकानि ।
जलेन शीतलेनैव घोलिता श्वेतशर्करा ।
एलालवङ्गकर्पूरमरीचैश्च समन्विता ॥
शर्करोदकमाख्यातं शुक्लं शिशिरं सरम् ।
बल्यं रुच्यं लघु स्वादु वातपित्तास्रनाशनम् ॥
मूर्च्छाच्छर्दितृषादाहज्वरशान्तिकरं परम् ।
शर्करोदकम् ।
आम्राम्रं जलस्विन्नं मर्दितं दृढपाणिना ।
सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम् ॥
प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् ।
सद्यो रुचिकरं बल्यं शीघ्रमनिन्द्रियतर्पणम् ॥
प्रपानकम्
अम्लिकाया फलं पक्वं मर्दितं वारिणा दृढम् ।
शर्करामरिचोन्मिश्रं लवङ्गेन्दुसुवासितम् ॥
अम्लिकाफलसम्भूतपानकं वातनाशनम् ।
पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधकम् ।
अम्लिकाफलपानकम् ।
भागैकं निम्बुजं तोयं षड्भागं शर्करोदकम् ।
लवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम् ॥
निम्बूफलभवं पानमत्यल्पं वातनाशनम् ।
१. P₁. वह्निवर्धनम्

प्रथमपरिच्छेदः ।
वह्निदीप्तिकरं रुच्यं समस्ताहारपाचनम् ॥
: निंबूफलपानकम् ।
शिलायां साधु संपिष्टं धान्यकं वस्त्रगालितम् ।
शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् ॥
नवीने मृन्मये पात्रे स्थितं पित्तहरं परम् ॥
धान्यपानकम् ।
तुर्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायो माहिषमंशुकेन विमले मृद्भाजने चालयेत् ।
भृष्टं हिङ्गु च जीरकं च लवणं राजीं च किञ्चिन्मितां
पिष्ट्वा तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् ? ॥
तक्रं रुचिकरं वह्निदीपनं पाचनं परम् ।
उदरे ये गदास्तेषां नाशनं तृप्तिकारकम् ॥
तक्रपानकम् ।
विदाहीन्यन्नपानानि यानि भुङ्क्ते हि मानवः ।
तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत् ॥
पयःपानम् ।
अथ काञ्जिकम् ।
संहितं धान्यमण्डादि काञ्जिकं कथ्यते जनैः ।
काञ्जिकं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम् ॥
भ्रमक्लमहरं रुच्यं दीपनं वस्तिशोधनम् ।
तथा —
काञ्जिकं भेदि तीक्ष्णोष्णं रोचनं पाचनं लघु ॥
दाहज्वरहरं स्पर्शात् पानाद्वातकफापहम् ।
माषादिवटकैर्यत्तु क्रियते तद् गुणाधिकम् ॥
P1. श्रम.

लघु वातहरं तत्तु रोचनं पाचनं परम् ।
शूलाजीर्णविबन्धाध्मेन्नाशनं वस्तिशोधनम् ॥
काञ्जी ।
न भवेत्काञ्जिकं यत्र तत्र ज्ञालिः प्रदीयते ।
सा च -
आममाम्रफलं पिष्टं राजिकालवणान्वितम् ।
भृष्टं हिङ्गुयुतं पूतं घोलितं ज्ञालिरुच्यते ॥
ज्ञालिर्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधिनी ।
मन्दं मन्दं निपीता सा रोचिनी वह्निबोधिनी ॥
झाली ।
तुषोदकं यवैरामैः सतुषैश्शकलीकृतैः ।
उदकैस्संहितैरम्लैस्सम्पन्नं स्यात्तुषोदकम् ॥
तुषाम्बु दीपनं हृद्यं पाण्डुकृमिगदापहम् ।
तीक्ष्णोष्णं पाचनं पित्तरक्तकृद्धस्तिशूलनुत् ॥
तुषोदकम् ।
सौवीरं तु यवैरामैः पक्वैर्वा निस्तुषैः कृतम् ।
गोधूमैरपि सौवीरमाचार्याः केचिदूचिरे ॥
सौवीरं तु ग्रहण्यार्शःकफघ्नं भेदि दीपनम् ।
उदावर्ताङ्गमर्दास्थिशूलानाहेषु शस्यते ॥
सौवीरम् ।
आरनालं तु गोधूमैरामैस्स्यान्निस्तुषीकृतैः ।
पक्वैर्वा संहितैस्तत्तु सौवीरसदृशं गुणैः ॥
आरनाळम् ।
. P1. P2. च्छर्दि.
. T1. gives a varient reading also :- बन्धानां नाशनम् ।
. P1. P2. सालि.

प्रथमपरिच्छेदः ।
धान्याम्लं शालिचूर्णाच्च कोद्रवादिकृतं भवेत् ।
धान्याम्लं धान्ययोनित्वात्प्रीणनं लघु दीपनम् ।
अरुचौ वातरोगेषु सर्वेष्वास्थापने हितम् ॥
धान्याम्लम् ।
शण्डाकी राजिकायुक्तैस्स्यान्मूलकदलद्रवैः ।
सर्षपस्वरसैर्वापि शालिपिष्टकसंयुतैः ॥
संहितैरिति शेषः ।
शुण्डाकी रोचनी गुर्वी पित्तश्लेष्मकरी स्मृता ॥
शण्डाकी ।
कन्दमूलफलादीनि सस्नेहलवणानि च ।
यत्र द्रवेऽभिषूयन्ते तत्सूक्तमभिधीयते ॥
सूक्तं कफघ्नं तीक्ष्णोष्णं रोचनं पाचनं लघु ।
पाण्डुकृमिहरं रूक्षं भेदनं रक्तपित्तकृत् ॥
आसुतम् ।
इति काञ्जिप्रकरणम् ।
अथ क्षीरप्रकरणम् ।
तत्र क्षीरसामान्यगुणाः -
सद्यःशुक्रकरं शीतं सात्म्यं सर्वशरीरिणाम् ।
जीवनं बृंहणं बल्यं मेध्यं वाजीकरं परम् ॥
वयःस्थापकमायुष्यं सन्धिकारि रसायनम् ।
विरेकवान्तिवस्तीनां तुल्यमोजोविवर्धनम् ॥
जीर्णज्वरे मनोरोगे शोफमूर्च्छाभ्रमेषु च ।
ग्रहण्यां पाण्डुरोगे च दाहे तृषि हृदामये ॥
शूलोदावर्तगुल्मेषु वस्तिरोगे गुदाङ्कुरे ।
रक्तपित्तेऽतिसारे च योनिरोगे श्रमे क्लमे ॥
१. P2. भ्रमेषु.

१२६ भोजनकुतूहल
गर्भस्रावे च सततं हितं मुनिवरैस्स्मृतम् ।
बालवृद्धक्षतक्षीणाः क्षुब्धवायुकृशाश्च ये ॥
तेभ्यस्तदातिशयितं हितमेतदुदाहृतम् ॥
इति पयस्सामान्यगुणाः ॥
अथ पयोविशेषगुणाः ।
तत्र गोक्षीरस्य यथा —
गव्यं क्षीरं पथ्यमत्यन्तरुच्यं स्वादु स्निग्धं पित्तवातामयघ्नम्
कान्तिं प्रज्ञां बुद्धिमेधाङ्गपुष्टिं धत्ते स्पष्टं वीर्यवृद्धिं विधत्ते ॥
तथा —
स्वादु पाकरसं स्निग्धमोजस्यं धातुवर्धनम् ।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् ॥
स्वादु पाकरसमित्यादि पयस्सामान्यानुवादः ।
प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम् ।
क्षतक्षीणहितं मेध्यं बल्यं स्तन्यकरं सदा ॥
श्रमभ्रममदालक्ष्मीकासश्वासादितृट्क्षुधः ।
जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत् ॥
इति वर्णसामान्येन गव्यगुणाः ॥
अथ वर्णविशेषेण
गवां सितानां वातघ्नं कृष्णानां पित्तनाशनम् ।
कफघ्नं रक्तवर्णानां कपिलानां त्रिदोषनुत्¹ ॥
गवां विविधवर्णानां वातपित्तहरं गुरु ।
पयः कर्पूरवर्णानां³ प्रायः पीनसकारणम् ॥
इति वर्णविशेषेण गुणाः ।
१. P₁. P₂. हृत् .
२. T₂. omits 'वात......कर्पूरवर्णानाम्'.
३. T₁. P₁. P₂. कर्बुरवर्णानाम् ।

प्रथमपरिच्छेदः ।
अथ वयोविशेषेण ।
गृष्टिक्षीरं तु वातघ्नं मध्यमायास्तु पित्तहृत् ।
वृद्धायाः कफहृद् वृद्धवत्सायाश्च रसायनम् ॥
प्रसूतिदोषाद्यत्क्षीरं पाके विग्रथितं भवेत् ।
तत्पीयूषमिति ख्यातं सर्वदोषकरं गुरु ॥
विभेदि मूत्रलं वृष्यं मधुरं वह्निमान्द्यकृत् ।
खरोस ।
पयः प्रसूतेस्सप्ताहादूर्ध्वमर्वाक् च मासतः ।
तत्प्रमोरटकं विद्याद् दुष्टं गुरुतरं स्मृतम् ॥
प्रमोरटः ।
नष्टदुग्धभवं नीरं मोरटं जैर्जटोऽब्रवीत् ।
मोरटः ।
नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः ।
किलाटः ।
अपक्वमेव यन्नष्टं क्षीरशाकं हि तत्पयः ।
क्षीरशाकम् ।
दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा ।
द्रवभागेन हीनं यत् तक्रपिण्डस्स उच्यते ॥
तक्रपिण्डः ।
इममेवामिक्षेति याज्ञिकाः । एतन्नीरं वाजिनमिति ॥
पीयूषं च किलाटश्च क्षीरशाकं तथैव च ।
तक्रपिण्ड इमे वृष्या बृंहणा बलवर्धनाः ॥
गुरवश्श्लेष्मला हृद्या वातपित्तविनाशनाः ।
दीप्ताग्नीनां विनिद्राणां व्यवाये चातिपूजिताः ॥
इति पीयूषादिगुणः ।
१. T₂. adds विनिद्राणां विगतनिद्राणाम् ।

१२८ भोजनकुतूहले
[प]योऽभिष्यन्दि गुर्वामं युक्त्या शृतमतोऽन्यथा ।
भवेद्गरीयोऽतिशृतं धारोष्णममृतं पयः ॥
युक्त्यां शृतमिति
चतुर्थभागं सलिलं निधाय यत्नाद्यदावर्तितमुत्तमं तत् ।
सर्वामयघ्नं बलपुष्टिकारि वीर्यप्रदं क्षीरमतिप्रशस्तम् ॥
अन्ये तु —
क्षीरे समांशं पानीयं प्रक्षिप्य विपचेद् बुधः ।
क्षीरावशेषः कर्तव्यः क्षीरपाके त्वयं विधिः ॥
इत्यामादिगुणाः ।
वृष्यं बृंहणमग्निवर्धनकरं पूर्वाह्नपीतं पयो
मध्याह्ने बलदायकं रतिकरं कृच्छ्रस्य विच्छेदकम् ।
बाल्ये वह्निकरं ततो बलकरं वीर्यप्रदं वार्धके
रात्रौ क्षीरमनेकदोषशमनं सेव्यं ततस्सर्वदा ॥
तथा —
गव्यं पूर्वाह्नकाले स्यादपराह्ने तु माहिषम् ।
क्षीरं सशर्करं पथ्यं यावत्सात्म्यं तु सर्वदा ॥
इति कालविशेषेण पयःपाने गुणाः ।
क्षीरं मुहूर्तत्रितयोषितं यदतस्समेताद्विकृतिं प्रयाति ।
वर्मादिदोषं कुरुते तदूर्ध्वं विषोपमं स्यादुषितं जनानाम् ॥
इत्युषितपयःपाने दोषः ।
जीर्णज्वरे कफे क्षीणे क्षीरं स्यादमृतोपमम् ।
तदेव तरुणे पीतं विषवद्धन्ति मानवम् ॥
पित्तघ्नं शृतशीतलं कफकरं पक्वं तदुष्णं भवे-
च्छीतं तत्तु न पाचितं तदखिलं विष्टम्भदोषप्रदम् ।

प्रथमपरिच्छेदः । १२९
कफकरं, क्षीणस्य कफस्य यथावस्थितकरं न तु चयादि-
कारकम् । 'भृतशीतं त्रिदोषघ्नमि'ति वचनात् । 'कफे क्षीणे अमृतोपम-
मि'त्युक्तत्वाच्च । एवं च त्रिदोषघ्नमिति वातादिविकारहारित्वं सिद्धं
भवति । पक्वमिति । तद् दुग्धं पक्वं ततश्चीतं तदेव पुनरुष्णं तदपि
पित्तन्नमित्यर्थः ॥
धारोष्णं त्वमृतं पयः श्रमहर निद्राकरं कान्तिदं
वृष्यं बृंहणमग्निवर्धनमतिस्वादु त्रिदोषापहम् ॥
क्षीरं न भुञ्जीत कदाप्यतप्तं भुञ्जीत चेन्नो लवणेन सार्धम् ।
पिष्टेन सन्धानकषायमुद्गकोशातकीकन्दफलादिकैश्च ॥
क्षीरं गवाजकादेर्मधुरं क्षीरं नवप्रसूतानाम् ।
रूक्षं च पित्तदाहं करोति रक्तामयं कुरुते ॥
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।
लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् ।
मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥
तासां मासत्रयादूर्ध्वं गुर्विणीनां तु यत् पयः ।
तदा हि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥
क्षीरं कासश्वासकोपाच्च सर्व गुर्वामं स्यात् प्रायशो दोषदायि ।
तच्चेत् क्वाथ्यावार्तितं पथ्यमुक्तं नारीक्षीरं त्वाममेवामयघ्नम् ॥
केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीतमाहुः ।
दोहातुशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥
ताम्रे वातहरं पात्रे सौवर्णे पित्तनाशनम् ।
रौप्ये श्लेष्मपरीहारं कांस्ये रक्तप्रसादनम् ॥
आयसे तु शृतं क्षीरं क्रिमिपित्तकफप्रणुत् ।
कान्तसारमये श्रेष्ठं त्रिदोषघ्नं रसायनम् ॥
1081

तृतीय दुग्ध-वर्ग, दधि, तक्र, नवनीत एवं घृत-वर्ग रसायन

१६० भोजनकुतूहले
.प्रमेहकुष्ठपिटककृमिगुल्मान्त्रशूलनुत् ।
मृत्पात्रे तु शृतं क्षीरं पूर्वोक्तैरन्वितं गुणैः ॥
स्यान्निर्जलं शृतं यत्तुद्वित्रिषडष्टांशशेषितम् ।
यथा श्रुतसमं सारं गुरु बल्यतमं पयः ॥
अर्धावशिष्टं पानं स्यात् त्रिभागं लेखनं भवेत् ।
षड्भागं पिष्टतामेति शर्करा स्याद्यथाष्टमे ॥
तदेवातिशृतं सर्वं गुरु बृंहणमुच्यते ।
दीपनी तर्पणी वृष्या गुर्विणी प्राजलम्बिनी ॥
स्वादुपाकरसा स्निग्धा रुच्या सन्तानिका मता ।
द्रव्यान्तराविरोधित्वात् सरत्वाच्चानुपानतः ।
क्षीरं भक्तोत्तरं पथ्यं दीपनं मलशोधनम् ॥
रक्तपित्तानिलच्छर्दिमूर्च्छा हिक्कापहारि च ।
खण्डेन सहितं दुग्धं कफकृत् पवनापहम् ॥
सितासितोपलायुक्तं शुक्रलं त्रिमलापहम् ।
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं स्मृतम् ॥
यथा—
क्षीरं साक्षाज्जीवनं जन्मदं स्यात्
तद्धारोष्णं गव्यमायुष्यमुष्णम् ।
प्रातस्सायं ग्राम्यधर्मावसाने
भुक्तेः पश्चादात्मसात्म्यं करोति ॥
तथा—
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ।
१. P₂. शृततमं ।
२. P₂. वृष्यम् ।

प्रथमपरिच्छेदः । १३१
तदेव चाश्रुतं विद्याद् गुरु तर्पणबृंहणम् ॥
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् '
धारोष्णममृतं क्षीरं विपरीतमथोच्यते ॥
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत्
वर्ज्यं सलवणं क्षीरं यंच विग्रथितं भवेत् ॥
रात्रौ क्षीरं न भुञ्जीयाद् यदि भुञ्जीत न स्वपेत् ।
यदि स्वपेत् क्षयेदायुस्तस्मात् क्षीरं दिवा स्मृतम् ॥
धारोष्णममृतं पथ्यं धाराशीतं त्रिदोषजित् ।
शृतशीतं त्रिदोषघ्नं शीतोष्णं कफवातजित् ॥
अप्याविकं पथ्यतमं शृतोष्णमाजं पयो वै शृतशीतमेव ।
धारासुशीतं महिषीपयश्च धारोष्णमेवं हितमेव गव्यम् ॥
पित्तघ्नं माहिषं क्षीरं वातघ्नं चाविकं पयः ।
वातपित्तहरं गव्यं त्रिदोषघ्नमजापयः ॥
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ।
रात्रौ सौम्यगुणत्वाच्च व्यायामाभावतस्तथा ॥
दिवाकराभितप्तानां व्यायामानिलसेवनात् ।
वातपित्तहरं चैव चक्षुष्यं चापराहिकम् ॥
मुहूर्तं पचनादूर्ध्वं क्षीरं भजति विक्रियाम् ।
तदेव द्विगुणे काले विषवद्धन्ति मानवम् ॥
येषां न साम्यं क्षीरेण पीतं चाध्मानकारकम् ।
तेषामर्धजले दत्त्वा नागरं पिप्पलीयुतम् ॥
आवर्तयेत् क्षीरशेषं तत् पीत्वा सुखमेधते ।
स्निग्धत्वाद् गौरवाज्जाड्यात् त्रिकालं न पिबेत् पयः ॥

१. $T_2$. adds पचनात्पाकादूर्ध्वं मुहूर्तं स्थितं ।
२. $T_2$. adds द्विगुणे मुहूर्तद्वयम् ।
३. $P_1$. नांगारं $P_2$. नारंगम् ।

११२ भोजनकुतूहले
, समाग्निरपि किञ्चान्यो मन्दाग्निर्विषमोऽपि वा ।
तीक्ष्णाग्निना तु पातव्यं त्रिकालमपि माहिषम् ॥
तस्य धातून् पचेदग्निर्यदा तेन न सिञ्चति ।
इति गव्यस्य सामान्यतस्तदितरस्य च गुणाः । अथेतरस्य विशेषगुणाः ।
. तत्र माहिषस्य—
माहिषं बलवर्ष्मोजोनिद्राशुक्लबलप्रदम् ।
तीक्ष्णाग्निशमनं स्वादु रसपाके च पुष्टिदम् ॥
व्यायामश्रान्तदेहस्य श्रमघ्नमनिलापहम् ।
निष्कामस्यापि वृद्धस्य स्त्रीषु कामप्रदायकम् ॥
बलिनस्तरुणस्यापि विशेषात् कामदायकम् ॥
इति माहिषक्षीरगुणाः ।
अथाजस्य—
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ।
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः ॥
तथा —
आजमग्निबलकृत् क्षयकासश्वासहृत् कफहरं परमं तत् ।
रक्तपित्तहरमाश्वतिसारे रक्तजे च कथितं हितमेतत् ॥
तथा—
गोदुग्धतः स्यादधिकं गुणेषु सुतीक्ष्णदेहेषु च पथ्यमुक्तम् ।
स्थूलाजदुग्धं कथितं पयोशैः सूक्ष्माजदुग्धं त्विह किञ्चिदूनम् ॥
इत्याजस्य ॥
१. T₂. omits बलिन— — -यकम् ।
२. P₁. P₂. सुक्षीण ।
३. P₁, P₂. ष्टलाजदुग्धं ।
४. P₁. किञ्चिदुष्णम् ।

१३३ ·
अथौष्ट्रस्य—
उष्ट्रीक्षीरं सुतिशोफोपहारि पित्तश्लेष्मात्यर्हंसां च प्रशस्तम् ।
आनाहघ्नं चोदराणां प्रशस्तं जन्तुघ्नं वै शस्यते सर्वकालम् ॥
इत्यौष्ट्रस्य ॥
• अथैकशफस्य—
उष्णमेकशफं बल्यं श्वासवातापहं पयः ।
मधुराम्लरसं रूक्षं लवणानुरसं लघु ॥
इति खराश्वीक्षीरयोः ॥
अथ मानुष्याः—
मानुष्या मधुरं स्तन्यं कषायानुरसं हिमम् ।
नस्याश्चोतनपथ्यं च जीवनं लघु दीपनम् ॥
इति मानुष्याः ॥
अथ हस्तिन्याः—
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ।
स्निग्धं धैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ॥
इति हस्तिन्याः ॥
अथैडक्याः —
आविकं तु पयः स्निग्धं कफपित्तकरं गुरु ।
पथ्यं वातप्रकोपेषु कासे चानिलसम्भवे ॥
इत्येडक्याः ॥
अथ मेष्याः—
मेषीक्षीरं समधुरं गाढं स्निग्धं कफापहम् ।
वातामयकरं स्थौल्यं लोमशं गुरु वर्धनम् ॥
इति मेष्याः ॥
अजादिभेदानाह राजनिघण्टौ—
अजो बुकस्तु मेष्यः स्यात् लम्बकर्णः पशुश्च सः ।
अजा पयस्विनी भीरुः छागी मेध्या गलेस्तनी ॥
१. P1, P2. read, “अजो... ... विः स्यात् ॥” after “इत्येडक्याः”
and T1. omits this portion.

१६४ भोजनकुतूहले
मेषो मेढो हुडो मेन्द्र ऊर्णाधुरुरस्तथा ।
एडकः शृङ्गिणोऽपि स्यात् ॥ इति ॥
अथ मथितक्षीरगुणाः
क्षीरं गव्यमथाजं वा कोष्णं दण्डाहतं भवेत् ।
लघु वृष्यं ज्वरहरं वातपित्तकफापहम् ॥
अथ क्षीरफेनगुणाः—
गोदुग्धप्रभवं किं वा छागीदुग्धसमुद्भवम् ।
भवेत्फेनं त्रिदोषघ्नं रोचनं बलवर्धनम् ॥
वह्निवृद्धिकरं पथ्यं सद्यस्तृप्तिकरं लघु ।
अतिसारेऽग्निमान्द्ये च ज्वरे जीर्णे प्रशस्यते ।
विवर्णं विरसं चाम्लं दुर्गन्धं ग्रथितं पयः ।
वर्जयेदम्ललवणयुक्तं कुष्ठादिकृद्यतः ॥
अथ क्षीरमित्राणि—
सहकारफलं चैव गोस्तनी माक्षिकं घृतम् ॥
नवनीतं शृङ्गवेरं पिप्पली मरिचानि च ॥
सिता पृथुकसिन्धूत्थपटोला नागराभया ।
क्षीरेण सह शस्यन्ते वर्गेषु मधुरादिषु ॥
तथा—
अम्लेष्वामलकं पथ्यं शर्करा मधुरेपु च ।
पटोलः शाकवर्गेषु कटुकेष्वार्द्रकं भवेत् ।
कषायेषु यवाश्चैव लवणेषु च सैन्धवम् ॥
अम्लेष्वामलकमित्यनुभवविरोधात् उपेक्ष्यम् आमलकान्तराभिप्रायं वा।
इति क्षीरमित्राणि ॥
अथामित्राणि —
मत्स्यमांसगुडयुङ्मूलकैः कुष्ठमावहति सेवितं पयः ।
शाकजाम्बवसुरादिसेवितं मारयत्यनुघयान्न संशयः ॥

प्रथमपरिच्छेदः । १३५
तथा —
नैकध्यं पयसाश्नीयात् सर्वं चोष्णं द्रवाद्रवम् ॥
मूलकाद्या हरितकाः तैलपिण्याकसर्षपाः ॥
कापित्थजम्बुजम्बीरं पनसं मातुलुङ्गकम् ।
वांशं करीरं बदरं कदली चाम्लदाडिमम् ॥
फलमीदृग्विधं चान्यत् वदद्भि स्त्वक्फलान्यपि ॥
क्षीरे विरुद्धान्यैकध्यं सह वै भुज्यते यदि ।
बाधिर्यमान्ध्यं वैवर्ण्यं मूकत्वं वाथ मारणम् ॥
इति क्षीरामित्राणि ॥
इति दुग्धप्रकरणम् ॥
अथ दधि । तच्चावस्थाभेदेन पञ्चविधम् ।
आदौ मन्दं ततः स्वादु स्वादम्लं च ततः परम् ।
अम्लं चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा ॥
अथ क्रमेण तल्लक्षणानि तद्गुणाश्च —
मन्दं दुग्धवदव्यक्तरसं किञ्चिद्धनं भवेत् ।
मन्दं स्यात् सृष्टविण्मूत्रं दोषत्रयविदाहकृत् ॥
यत् सम्यग् घनतां याति व्यक्तस्वादुरसं भवेत् ।
अव्यक्ताम्लरसं तच्च स्वादु विज्ञैरुदाहृतम् ॥
स्वादु स्यादत्यभिष्यन्दि वृष्यं मेदःकफापहम् ।
वातघ्नं मधुरं पाके रक्तपित्तप्रसादनम् ॥
स्वादम्लं सान्द्रमधुरं कषायानुरसं भवेत् ।
स्वादम्लस्य गुणा ज्ञेयाः सामान्यदधिवज्जनैः ॥
यत्तिरोहितमाधुर्यं व्यक्ताम्लत्वे तदम्लकम् ।
अम्लं तु दीपनं पित्तरक्तश्लेष्मविवर्धनम् ॥

११६ भोजनकुतूहले
तदत्यम्लं दन्तरोमहर्षकण्ठा(वि ? दि)दाहकृत् ।
अत्यम्लं दीपनं रक्तपित्तकुष्ठिकरं परम् ॥
अन्यत्र—
दध्यवस्थामसम्प्राप्य दुग्धावस्थामतीत्य च ।
अन्तरावर्ति यत् प्रोक्तं मन्दं तच्च त्रिदोषकृत् ॥
• विदाहि सृष्टविण्मूत्रमपथ्यं मेहकृच्छ्रकृत् ।
मन्दम् ।
अव्यक्ताम्लं घनीभूतं दधित्त्वं प्राप्यते च यत् ।
तज्जातं मधुरं बल्यं वातघ्नं गुरु शुक्रलम् ।
अमन्दम् ।
इति पञ्चविधदधिसामान्यगुणाः ॥
अथ गव्यस्य—
तत्रापि चातिशीतं च दीपनं बलवर्धनम् ।
वातघ्नं मधुरं रूक्षं दधि गव्यं मनोहरम् ॥
अरोचके पीनसमूत्रकृच्छ्रे शीतज्वरे तद्विषमज्वरे च ।
दुर्नामरोगग्रहणीगदे च गव्यं प्रशस्तं दधि सर्वदैव ॥
इति गव्यस्य ॥
अथ ऋतुविशेषे सामान्यतो दधिगुणाः—
शरद्ग्रीष्मवसन्तेषु निन्दितं दधि दोषकृत् ।
हेमन्ते शिशिरे तच्च वर्षाकाले बलप्रदम् ॥
अथ महिषस्य—
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ।
बलसंवर्धनं चैव विशेषान्माहिषं दधि ॥
स्निग्धं मधुरशीतं च बलवर्णकरं परम् ।
वृष्यं मेदःकरं स्वादु श्रमघ्नं वातनाशनम् ॥
१. All Mss. other than T₂, omit this line.

तथा —
माहिषं दधि बलासकारकं वह्निमान्द्यकरणं गुरुत्वकृत् ।
तत्प्रयुज्य-कटुकैरवचूर्णं माहिषं च लघुतामुपयाति ॥
इति माहिषदधिगुंणः ॥
अथाजस्य —
दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् ।
दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनम् ॥
इत्याजस्य ।
अथ मेष्याः —
मेषीघृतं१ तु दुर्गन्धि कफपित्तप्रकोपनम् ।
अरुच्यं सुकुमाराणां नराणां न हि तद्धितम् ॥
आविकं दधि सुस्निग्धं कफपित्तकरं गुरु ।
रक्ते च वातरक्ते च पथ्यं शोफव्रणापहम् ॥
इत्येडक्याः ॥
अथाश्विन्याः —
अश्वीदधि स्यान्मधुरं कषायं कफातिमूर्च्छामयहारि रूक्षम् ।
वातालपदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥
इत्यश्विन्याः ।
अथ गर्दभ्याः —
गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् ।
मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥
इति गर्दभ्याः ।
अथौष्ट्रस्य—
औष्ट्रमर्शांसि कुष्ठानि क्रिमिशूलोदराणि च ।
निहन्ति कटुकं२ स्वादु किञ्चिदम्लं रसे दधि ॥
इत्युष्ट्र्याः ।
१. T2. omits मेषी... ...तद्धितम्.
२. P1. कुष्ठजं. P2. कुकुजं.