भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
DevanagariSanskritpublished358 पृष्ठ
पृष्ठ 132, कुल 358 में से
संदर्भ में पढ़ेंपृष्ठ 132
प्रथमपरिच्छेदः । १२७
तल्लक्षणं च
- जवादि नीरसं स्निग्धमीषत्पिङ्गं सुगन्धिदम् ।
आतपे बहुलामोदं राज्ञां योग्यं च नान्यथा ॥
इति ॥
इति सम्भाराः ॥
अथ हृतयः ।
शिग्रुमूलस्य चूर्णेन मर्दितं पानसं फलम् ।
हृतं स्यात्कादलं पक्वं फलमौदुम्बरत्वचा ॥
वंशत्वचा वापि भवेदपि शालितुषेण वा ।
तालमूलस्य चूर्णेन तत्फलं भवति हृतम् ॥
इति हृतयः ॥
अथ घृतप्रकरणम् ।
शोणस्य नारिकेलस्य बालस्यान्तर्गतं जलम् ।
सकल्कं भोदितं मेघनादमूलरजोन्वितम् ॥
समेन सर्पिषा युक्तं यदि पक्वं घृतं भवेत् ।
चूर्णं बकुलबीजस्य क्षिप्त्वा तैले पयस्समे ।
पके तैलावशेषे तु तद्घृतं भवति ध्रुवम् ॥
लशुनं षोडशांशं तु पुन्नागफलसंयुतम् ।
शर्करां च पचेद्यस्तु तैलप्रस्थं घृतं भवेत् ॥
मुद्गाभिधस्य खण्डेन सार्थांशेन युतं घृतम् ।
साष्टरम्भाफलं सर्पिः प्रस्थं प्रस्थद्वयं भवेत् ।
शृते तु माहिषे क्षीरे चतुर्थांशावशेषिते ।
तुल्याज्ये कर्णिकारस्य पुष्पैः पक्वं घृतं भवेत् ।
तुल्यान्यतैलं बकुलबीजं पक्वं घृतं भवेत् ॥
इति कृत्रिमघृतानि ॥
१ T 2. शालितुषेण.
२ P₁ तज्जलं P₂ तडलं ।
1081