सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 143, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 143

११२ भोजनकुतूहले
, समाग्निरपि किञ्चान्यो मन्दाग्निर्विषमोऽपि वा ।
तीक्ष्णाग्निना तु पातव्यं त्रिकालमपि माहिषम् ॥
तस्य धातून् पचेदग्निर्यदा तेन न सिञ्चति ।
इति गव्यस्य सामान्यतस्तदितरस्य च गुणाः । अथेतरस्य विशेषगुणाः ।
. तत्र माहिषस्य—
माहिषं बलवर्ष्मोजोनिद्राशुक्लबलप्रदम् ।
तीक्ष्णाग्निशमनं स्वादु रसपाके च पुष्टिदम् ॥
व्यायामश्रान्तदेहस्य श्रमघ्नमनिलापहम् ।
निष्कामस्यापि वृद्धस्य स्त्रीषु कामप्रदायकम् ॥
बलिनस्तरुणस्यापि विशेषात् कामदायकम् ॥
इति माहिषक्षीरगुणाः ।
अथाजस्य—
अजानामल्पकायत्वात् कटुतिक्तनिषेवणात् ।
नात्यम्बुपानाद्व्यायामात् सर्वव्याधिहरं पयः ॥
तथा —
आजमग्निबलकृत् क्षयकासश्वासहृत् कफहरं परमं तत् ।
रक्तपित्तहरमाश्वतिसारे रक्तजे च कथितं हितमेतत् ॥
तथा—
गोदुग्धतः स्यादधिकं गुणेषु सुतीक्ष्णदेहेषु च पथ्यमुक्तम् ।
स्थूलाजदुग्धं कथितं पयोशैः सूक्ष्माजदुग्धं त्विह किञ्चिदूनम् ॥
इत्याजस्य ॥
१. T₂. omits बलिन— — -यकम् ।
२. P₁. P₂. सुक्षीण ।
३. P₁, P₂. ष्टलाजदुग्धं ।
४. P₁. किञ्चिदुष्णम् ।