सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 142, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 142

प्रथमपरिच्छेदः । १३१
तदेव चाश्रुतं विद्याद् गुरु तर्पणबृंहणम् ॥
वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् '
धारोष्णममृतं क्षीरं विपरीतमथोच्यते ॥
अनिष्टगन्धमम्लं च विवर्णं विरसं च यत्
वर्ज्यं सलवणं क्षीरं यंच विग्रथितं भवेत् ॥
रात्रौ क्षीरं न भुञ्जीयाद् यदि भुञ्जीत न स्वपेत् ।
यदि स्वपेत् क्षयेदायुस्तस्मात् क्षीरं दिवा स्मृतम् ॥
धारोष्णममृतं पथ्यं धाराशीतं त्रिदोषजित् ।
शृतशीतं त्रिदोषघ्नं शीतोष्णं कफवातजित् ॥
अप्याविकं पथ्यतमं शृतोष्णमाजं पयो वै शृतशीतमेव ।
धारासुशीतं महिषीपयश्च धारोष्णमेवं हितमेव गव्यम् ॥
पित्तघ्नं माहिषं क्षीरं वातघ्नं चाविकं पयः ।
वातपित्तहरं गव्यं त्रिदोषघ्नमजापयः ॥
प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीतलम् ।
रात्रौ सौम्यगुणत्वाच्च व्यायामाभावतस्तथा ॥
दिवाकराभितप्तानां व्यायामानिलसेवनात् ।
वातपित्तहरं चैव चक्षुष्यं चापराहिकम् ॥
मुहूर्तं पचनादूर्ध्वं क्षीरं भजति विक्रियाम् ।
तदेव द्विगुणे काले विषवद्धन्ति मानवम् ॥
येषां न साम्यं क्षीरेण पीतं चाध्मानकारकम् ।
तेषामर्धजले दत्त्वा नागरं पिप्पलीयुतम् ॥
आवर्तयेत् क्षीरशेषं तत् पीत्वा सुखमेधते ।
स्निग्धत्वाद् गौरवाज्जाड्यात् त्रिकालं न पिबेत् पयः ॥

१. $T_2$. adds पचनात्पाकादूर्ध्वं मुहूर्तं स्थितं ।
२. $T_2$. adds द्विगुणे मुहूर्तद्वयम् ।
३. $P_1$. नांगारं $P_2$. नारंगम् ।