सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 141, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 141

१६० भोजनकुतूहले
.प्रमेहकुष्ठपिटककृमिगुल्मान्त्रशूलनुत् ।
मृत्पात्रे तु शृतं क्षीरं पूर्वोक्तैरन्वितं गुणैः ॥
स्यान्निर्जलं शृतं यत्तुद्वित्रिषडष्टांशशेषितम् ।
यथा श्रुतसमं सारं गुरु बल्यतमं पयः ॥
अर्धावशिष्टं पानं स्यात् त्रिभागं लेखनं भवेत् ।
षड्भागं पिष्टतामेति शर्करा स्याद्यथाष्टमे ॥
तदेवातिशृतं सर्वं गुरु बृंहणमुच्यते ।
दीपनी तर्पणी वृष्या गुर्विणी प्राजलम्बिनी ॥
स्वादुपाकरसा स्निग्धा रुच्या सन्तानिका मता ।
द्रव्यान्तराविरोधित्वात् सरत्वाच्चानुपानतः ।
क्षीरं भक्तोत्तरं पथ्यं दीपनं मलशोधनम् ॥
रक्तपित्तानिलच्छर्दिमूर्च्छा हिक्कापहारि च ।
खण्डेन सहितं दुग्धं कफकृत् पवनापहम् ॥
सितासितोपलायुक्तं शुक्रलं त्रिमलापहम् ।
सगुडं मूत्रकृच्छ्रघ्नं पित्तश्लेष्मकरं स्मृतम् ॥
यथा—
क्षीरं साक्षाज्जीवनं जन्मदं स्यात्
तद्धारोष्णं गव्यमायुष्यमुष्णम् ।
प्रातस्सायं ग्राम्यधर्मावसाने
भुक्तेः पश्चादात्मसात्म्यं करोति ॥
तथा—
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्तितम् ।
१. P₂. शृततमं ।
२. P₂. वृष्यम् ।