भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 148, कुल 358 में से
संदर्भ में पढ़ेंतथा —
माहिषं दधि बलासकारकं वह्निमान्द्यकरणं गुरुत्वकृत् ।
तत्प्रयुज्य-कटुकैरवचूर्णं माहिषं च लघुतामुपयाति ॥
इति माहिषदधिगुंणः ॥
अथाजस्य —
दध्याजं कफवातघ्नं लघूष्णं नेत्रदोषनुत् ।
दुर्नामश्वासकासघ्नं रुच्यं दीपनपाचनम् ॥
इत्याजस्य ।
अथ मेष्याः —
मेषीघृतं१ तु दुर्गन्धि कफपित्तप्रकोपनम् ।
अरुच्यं सुकुमाराणां नराणां न हि तद्धितम् ॥
आविकं दधि सुस्निग्धं कफपित्तकरं गुरु ।
रक्ते च वातरक्ते च पथ्यं शोफव्रणापहम् ॥
इत्येडक्याः ॥
अथाश्विन्याः —
अश्वीदधि स्यान्मधुरं कषायं कफातिमूर्च्छामयहारि रूक्षम् ।
वातालपदं दीपनकारि नेत्रदोषापहं तत्कथितं पृथिव्याम् ॥
इत्यश्विन्याः ।
अथ गर्दभ्याः —
गर्दभीदधि रूक्षोष्णं लघु दीपनपाचनम् ।
मधुराम्लरसं रुच्यं वातदोषविनाशनम् ॥
इति गर्दभ्याः ।
अथौष्ट्रस्य—
औष्ट्रमर्शांसि कुष्ठानि क्रिमिशूलोदराणि च ।
निहन्ति कटुकं२ स्वादु किञ्चिदम्लं रसे दधि ॥
इत्युष्ट्र्याः ।
१. T2. omits मेषी... ...तद्धितम्.
२. P1. कुष्ठजं. P2. कुकुजं.