भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 138, कुल 358 में से
संदर्भ में पढ़ेंप्रथमपरिच्छेदः ।
अथ वयोविशेषेण ।
गृष्टिक्षीरं तु वातघ्नं मध्यमायास्तु पित्तहृत् ।
वृद्धायाः कफहृद् वृद्धवत्सायाश्च रसायनम् ॥
प्रसूतिदोषाद्यत्क्षीरं पाके विग्रथितं भवेत् ।
तत्पीयूषमिति ख्यातं सर्वदोषकरं गुरु ॥
विभेदि मूत्रलं वृष्यं मधुरं वह्निमान्द्यकृत् ।
खरोस ।
पयः प्रसूतेस्सप्ताहादूर्ध्वमर्वाक् च मासतः ।
तत्प्रमोरटकं विद्याद् दुष्टं गुरुतरं स्मृतम् ॥
प्रमोरटः ।
नष्टदुग्धभवं नीरं मोरटं जैर्जटोऽब्रवीत् ।
मोरटः ।
नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः ।
किलाटः ।
अपक्वमेव यन्नष्टं क्षीरशाकं हि तत्पयः ।
क्षीरशाकम् ।
दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा ।
द्रवभागेन हीनं यत् तक्रपिण्डस्स उच्यते ॥
तक्रपिण्डः ।
इममेवामिक्षेति याज्ञिकाः । एतन्नीरं वाजिनमिति ॥
पीयूषं च किलाटश्च क्षीरशाकं तथैव च ।
तक्रपिण्ड इमे वृष्या बृंहणा बलवर्धनाः ॥
गुरवश्श्लेष्मला हृद्या वातपित्तविनाशनाः ।
दीप्ताग्नीनां विनिद्राणां व्यवाये चातिपूजिताः ॥
इति पीयूषादिगुणः ।
१. T₂. adds विनिद्राणां विगतनिद्राणाम् ।