भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 144, कुल 358 में से
संदर्भ में पढ़ें१३३ ·
अथौष्ट्रस्य—
उष्ट्रीक्षीरं सुतिशोफोपहारि पित्तश्लेष्मात्यर्हंसां च प्रशस्तम् ।
आनाहघ्नं चोदराणां प्रशस्तं जन्तुघ्नं वै शस्यते सर्वकालम् ॥
इत्यौष्ट्रस्य ॥
• अथैकशफस्य—
उष्णमेकशफं बल्यं श्वासवातापहं पयः ।
मधुराम्लरसं रूक्षं लवणानुरसं लघु ॥
इति खराश्वीक्षीरयोः ॥
अथ मानुष्याः—
मानुष्या मधुरं स्तन्यं कषायानुरसं हिमम् ।
नस्याश्चोतनपथ्यं च जीवनं लघु दीपनम् ॥
इति मानुष्याः ॥
अथ हस्तिन्याः—
हस्तिन्या मधुरं वृष्यं कषायानुरसं गुरु ।
स्निग्धं धैर्यकरं शीतं चक्षुष्यं बलवर्धनम् ॥
इति हस्तिन्याः ॥
अथैडक्याः —
आविकं तु पयः स्निग्धं कफपित्तकरं गुरु ।
पथ्यं वातप्रकोपेषु कासे चानिलसम्भवे ॥
इत्येडक्याः ॥
अथ मेष्याः—
मेषीक्षीरं समधुरं गाढं स्निग्धं कफापहम् ।
वातामयकरं स्थौल्यं लोमशं गुरु वर्धनम् ॥
इति मेष्याः ॥
अजादिभेदानाह राजनिघण्टौ—
अजो बुकस्तु मेष्यः स्यात् लम्बकर्णः पशुश्च सः ।
अजा पयस्विनी भीरुः छागी मेध्या गलेस्तनी ॥
१. P1, P2. read, “अजो... ... विः स्यात् ॥” after “इत्येडक्याः”
and T1. omits this portion.