सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 140, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 140

प्रथमपरिच्छेदः । १२९
कफकरं, क्षीणस्य कफस्य यथावस्थितकरं न तु चयादि-
कारकम् । 'भृतशीतं त्रिदोषघ्नमि'ति वचनात् । 'कफे क्षीणे अमृतोपम-
मि'त्युक्तत्वाच्च । एवं च त्रिदोषघ्नमिति वातादिविकारहारित्वं सिद्धं
भवति । पक्वमिति । तद् दुग्धं पक्वं ततश्चीतं तदेव पुनरुष्णं तदपि
पित्तन्नमित्यर्थः ॥
धारोष्णं त्वमृतं पयः श्रमहर निद्राकरं कान्तिदं
वृष्यं बृंहणमग्निवर्धनमतिस्वादु त्रिदोषापहम् ॥
क्षीरं न भुञ्जीत कदाप्यतप्तं भुञ्जीत चेन्नो लवणेन सार्धम् ।
पिष्टेन सन्धानकषायमुद्गकोशातकीकन्दफलादिकैश्च ॥
क्षीरं गवाजकादेर्मधुरं क्षीरं नवप्रसूतानाम् ।
रूक्षं च पित्तदाहं करोति रक्तामयं कुरुते ॥
मधुरं त्रिदोषशमनं क्षीरं मध्यप्रसूतानाम् ।
लवणं मधुरं क्षीरं विदाहजननं चिरप्रसूतानाम् ॥
गुणहीनं निःसारं क्षीरं प्रथमप्रसूतानाम् ।
मध्यवयसां रसायनमुक्तमिदं दुर्बलं तु वृद्धानाम् ॥
तासां मासत्रयादूर्ध्वं गुर्विणीनां तु यत् पयः ।
तदा हि लवणं क्षीरं मधुरं पित्तदोषकृत् ॥
क्षीरं कासश्वासकोपाच्च सर्व गुर्वामं स्यात् प्रायशो दोषदायि ।
तच्चेत् क्वाथ्यावार्तितं पथ्यमुक्तं नारीक्षीरं त्वाममेवामयघ्नम् ॥
केऽप्याविकं पथ्यतमं शृतोष्णं क्षीरं त्वजानां शृतशीतमाहुः ।
दोहातुशीतं महिषीपयश्च गव्यं तु धारोष्णमिदं प्रशस्तम् ॥
ताम्रे वातहरं पात्रे सौवर्णे पित्तनाशनम् ।
रौप्ये श्लेष्मपरीहारं कांस्ये रक्तप्रसादनम् ॥
आयसे तु शृतं क्षीरं क्रिमिपित्तकफप्रणुत् ।
कान्तसारमये श्रेष्ठं त्रिदोषघ्नं रसायनम् ॥
1081