भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
प्रथमपरिच्छेदः
जम्बूः कषायमधुरा श्रमपित्तदाह-
कण्ठार्तिदोषशमनी क्रिमिदोषहन्त्री ।
श्वासातिसारकफकासविनाशिनी च
विष्टम्भदा त्वपि च रोचनपाचनी च ॥
जांबूळ ।
विकण्टकः कषायः स्यात् कटुरूक्षो रुचिप्रदः ।
दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥
हंसीफल, वारतोंडे इति नामान्तरम् ।
स्वादुपाक्यार्द्रमरिचं वातहृत्कफकृद् गुरु ।
आर्द्रमरीच ।
करीरः कटुकस्तीक्ष्णः छेद्युष्णो भेदनो जयेत् ।
दुर्नामकफवातामगरशोफक्रिमिन्ब्रणान् ॥
तस्य पुष्पं तु तुवरं वातकृत्कफपित्तजित् ।
फलं तिक्तं कषायोष्णं कटुकं रसपाकयोः ॥
१ विकारि मधुरं रूक्षं संग्राहि कफपित्तजित् ।
नेपती ।
फांपटस्य फलं तिक्तं श्लेष्मलं क्रिमिनाशनम् ।
पित्तलं गुरु विष्टम्भि रुच्यं चोष्णं परं स्मृतम् ॥
फांवेंटं ।
जीवन्तीफलमत्यर्थं मधुरं बृंहणं गुरु ।
दोडी ।
एरण्डफलमत्युष्णं गुल्मशूलानिलापहम् ।
यकृत्प्लीहोदराशोघ्नं कटुकं दीपनं परम् ॥
एरण्डफल ।
१. T₂. omits this line.
भोज नकुतूहले
तूतं गुरु सरं चाम्लमामं तद्रक्तपित्तकृत्।
• उष्णं पक्वं तु मधुरं शीतपित्तानिलापहम् ॥
तूत ।
कर्कटं तुवरं साम्लं गुरुष्णं रक्तपित्तलम् ।
सरं वातहरं श्लेष्महृत्पक्वं नास्रपित्तलम् ॥
मृगलेण्डिक ।
अथ हरीतकीप्रकरणम् ।
तोदनं लघु संग्राहि साम्लोष्णं वह्निपित्तकृत् ।
स्निग्धं पक्वं तु मधुरं कषायं कफवातजित् ॥
तोरणे ।
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चैव नाम्ना सप्तविधा स्मृता ॥
अलाबुनामिविजया सुवृत्ता रोहिणी स्मृता ।
स्वल्पत्वक् पूतना ज्ञेया स्थूलान्या सामृता मता ।
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ॥
त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ।
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना
सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिष्ठानके ।
चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये
जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता ।
विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥
१. T₂, Bh, P₁, P₂. प्रतिष्ठानके ।
प्रथमपरिच्छेदः । १९
स्याच्चेतकी सर्वरुजापहारिका नेत्रामयघ्नीमभयां वदन्ति ।
इत्थं यथायोगमियं प्रयोजिता ज्ञेया गुणाढ्या न कदाचिदन्यथा ॥
चेतकी च धृता हस्ते यावत्तिष्ठति देहिनः ।
तावद्विरिच्यते वेगात्प्रभावान्नात्र संशयः ॥
सप्तानामपि जातीनां प्रधानं विजया स्मृता ।
सुखप्रयोगसुलभा सर्वव्याधिषु शस्यते ॥
क्षिप्ताप्सु निमज्जति या सा ज्ञेया गुणवती भिषग्वर्यैः ।
कालयोगात्स्वयं पक्त्वा निपतेद्या महीतले ।
नवा स्निग्धायता वृत्ता गुर्वी क्षिप्ता तथाम्भसि ।
निमज्जेद्या तथैकस्मिन् फले चैव द्विकर्षता ॥
सर्वदा गुणकृत्सा तु ततोऽन्या तु विवर्जिता ।
जन्तुदिग्धां दावदग्धां जले पङ्के स्थितां पुनः ॥
ऊखरे चास्थितां भिन्नां वर्जयेत्तु हरीतकीम् ।
स्वाद्वम्लभावात् पवनं कटुतिक्ततया कफम् ॥
कषायमधुरत्वाच्च पित्तं हन्ति हरीतकी ।
मज्जत्वक्स्नायुमांसास्थिस्थितः पञ्चामयोद्भवाः ॥
स्वादुऋट्वम्लतिक्ताख्याः कषायाः क्रमशो रसाः ।
पथ्यो मज्जा च चक्षुष्यो वातपित्तहरो गुरुः ॥
हरति प्रसभं व्याधीन् भूयस्तर्कति यद्वपुः ।
हरीतकीति सा प्रोक्ता वकर्तिर्दीसिवाचकः ॥
हरीतकी तु तृष्णायां हनुस्तम्भे गळग्रहे ।
शोषे नवज्वरे क्षीणे गुर्विण्यां नैव शस्यते ॥
१. P₁; P₂; T₂. दोषे नवज्वरे T₂. Gives another reading also, शोषे नवज्वरे इति केचित् ॥
हिमाद्रिजायाश्च हिमाद्रिजांया गुणान् समग्रान् यदि वेद वेदः।
धन्वन्तरिर्यत्र तरिनं देवो भवि भवेद् भूरिभवो भवोऽपि ॥
गुणान्तराणि ग्रन्थान्तरतोऽवधेयानि ।
इति हरीतकीप्रकरणम् ।
अक्षं कषायं मधुरं पाके पित्तकफापहम् ।
उष्णवीर्यं हिमस्पर्शं केश्यं वैस्वर्यजन्तुजित् ॥
चक्षुष्यं भेदनं रूक्षं लघु कासविनाशनम् ।
अक्षमज्जा मदकरः कफमारुतनाशनः ॥ व्याहडे ।
आक्षोटकं सरं स्निग्धं मधुरं रसपाकयोः ।
गुरुष्णं बृंहणं वृष्यं बल्यं विष्टम्भि रोचनम् ॥
हृद्यं क्षयास्रपवनदाहघ्नं रक्तपित्तनुत् । अकरोटें ।
वाताम उष्णस्सुस्निग्धो वातघ्नश्शुक्रकृद् गुरुः ।
वाताममज्जा मधुरो वृष्यः पित्तानिलापहः ॥
स्निग्धोऽम्लकफकृच्चेटो रक्तपित्तविकारिणाम् । बदाम ।
सेबं समीरापित्तघ्नं बृंहणं कफकृद् गुरु ।
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥ सेव ।
फलं तालस्य मधुरं गुरु स्निग्धं हिमं सरम् ।
विष्टम्भि बृंहणं वृष्यं तर्पणं कफमांसकृत् ॥
सरं विष्टम्भीति विशेषणद्वयं संग्रहणीकरत्वं बोधयति ।
बीजं स्वादु रसे पाके मूत्रलं वातपित्तजित् ॥
पक्वं तालफलं पित्तं श्लेष्मरक्तविवर्धनम् ।
दुर्ज्जरं बहुमूत्रं च तन्त्रामिष्यन्दशुक्लम् ।
- J1, Bh. omit सरं ...... - बोधयति ।
प्रथमपरिच्छेदः ।
तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः ।
श्लेष्मलो वातपित्तघ्नः सस्नेहमधुरस्सरः ॥
तालजं तरुणतोयमतीव प्राणिनां मदविकारकरं तु ।
अम्लभावमुपयाति यदा तत्पित्तकृत्पवनदोषहरं च ॥
तालगुणाः ।
सीताफलं सुमधुरं शीतलं पित्तनाशनम् ।
सुपक्वं रुचिकृद्दान्ते हितं न कफकृत्परम् ॥
सीताफलम् ।
अथाम्रप्रकरणम् ।
आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नोष्णकरश्च बालः
पित्तप्रकोपानिलरक्तदोषप्रदः कटुत्वादरुचिप्रदर्श¹ ॥
वाळाम्बा ।
अपिच —
बालं पित्तानिलकफहरं तच्च बद्धास्थि तादृक्
पक्वं दोषत्रितयशमनं सुष्ठु पुष्टिप्रदं च ।
दत्ते धातुप्रचयमधिकं तर्पणं कान्तिकारि
ख्यातं तृष्णाप्रशमनमथो साहकारं फलं स्यात् ॥
ते च त्रिविधाः । राजाम्रमहाराजाम्ररसाम्बभेदात् ।
राजास्राः कोमलास्सर्वे कट्वम्लाः पित्तदाहकाः ।
सुपक्कास्स्वादुमाधुर्यपुष्टिवीर्यबलप्रदाः ॥
तत्राग्रेषु त्रिषु प्रोक्तं साम्यमेव रसोच्चयात् ।
गुणाधिक्यं तु विज्ञेयं पर्यायादुत्तरोत्तरम् ॥
किञ्च —
बालं राजफलं कफास्रपवनश्वासातिपित्तप्रदं
मध्यं तादृशमेव दोषबहुलं भूयः कषायाम्लकम् ।
१. P₁- कटुत्वाच्च रुचिप्रदश्च । T₂, P₁, P₂. add उष्णकरः दाहकृत्० ।
१०४ भोजनकुतूहले
पक्वं चेन्मधुरं त्रिदोषशमनं तृष्णाविदाहश्रमं-
श्वासारोचकमोचकं गुरु हिमं वृष्यं च चूताह्वयम् ॥
आम्रत्वचा कषाया च मूलं सौगन्धि तादृशम् ।
रुच्यं सङ्ग्राहि शिशिरं पुष्पं तु रुचिदीपनम् ॥
अतिसारहरं पित्तप्रमेहकफनुत् परम् ।
असृग्दुष्टिहरं शीतं रुचिकृद् ग्राहि शीतलम् ॥
आम्रामं त्वचाहीनमातपेऽतीव शोषितम् ।
अम्लं स्वादु कषायं स्याद् भेदनं कफवातजित् ॥
पक्वं तु मधुरं वृष्यं स्निग्धं गुरु बलप्रदम् ।
गुरु वातहरं हृद्यं वर्ण्यं शीतमपित्तलम् ॥
कषायानुरसं वह्निश्लेष्मशुक्रविवर्धनम् ।
तदेव वृक्षसंपक्वं गुरु वातहरं परम् ॥
मधुराम्लरसं किञ्चिद् भवेत्पित्तप्रकोपनम् ।
आम्रं कृत्रिमपक्वं यत् तद्भवोत्पित्तनाशनम् ॥
रसस्याम्लस्य हानेश्च माधुर्याच्च विशेषतः ।
चूषितं तत्परं रुच्यं बलवीर्यकरं लघु ॥
शीतलं शीघ्रपाकि स्याद् वातपित्तहरं परम् ।
तद्रसो गालितो बल्यो गुरुर्वातहरस्सरः ॥
अहृद्यस्तर्पणोऽतीव बृंहणः कफवर्धनः ।
तस्य खण्डं गुरु परं रोचनं चिरपाकि च ॥
मधुरं बृंहणं बल्यं शीतलं वातनाशनम् ।
तथा —
वातपित्तहरं रुच्यं बृंहणं बलवर्धनम् ।
वृष्यं वर्णकरं स्वादु दुग्धयुग्गुरु शीतलम् ॥
मन्दानलत्वं विषमज्वरं च रक्तामयं बद्धगुदोदरं च ।
आम्रातियोगो नयनामयं च करोति तस्मादति तानि नाद्यात् ॥
प्रथमपरिच्छेदः ।
पक्वस्य सहकारस्य कटविस्तारितो रसः ।
घर्मशुष्को मुहुर्दत्त आम्रातक इति स्मृतः ॥
आम्रावर्तस्तृषाच्छर्दिवांतपित्तहरस्मृतः । १
रुच्यस्सूर्यांशुभिः पाकाल्लघुश्च स हि कीर्तितः ॥
आम्रपोळं २
आम्रबीजं कषाय स्याल्लघ्वतीसारनाशनम् ।
ईषदम्लं च मधुरं तथा हृदयदाहनुत् ॥
आम्रस्य पल्लवं रुच्यं कफपित्तविनाशनम् ।
इत्याम्रप्रकरणम् ॥
कोशाम्रमम्लमनिलापहरं कफार्ति-
पित्तप्रदं गुरु विदाहि विशोषकारि ।
पक्वं भवेन्मधुरमीषदपारमम्लं
कण्डूतियुक् च रुचिदीपनपुष्टिबल्यम् ॥
कोशाम्र, आंबसोल ।
पिण्डारं शीतलं बल्यं पित्तघ्नं रुचिकारकम् ।
पाके लघु विशेषेण विषशान्तिकरं स्मृतम् ॥
पिण्डारें ।
वातकुंभफलं ग्राहि कफवातप्रकोपनम् ।
तदेव पक्वं मधुरं पित्तघ्नं रोचनं गुरु ॥
पोपैया ।
अथ साधारण्येन फलगुणाः —
फलेषु परिपक्वं यद् गुणवत्तदुदाहृतम् ।
बिल्वादन्यत्र विज्ञेयमार्मं तद्धि गुणाधिकम् ॥ ३
१. T2. इत्यः शीतांशुभिः ।
२. T1., J1. omit this name, P1. P2. आम्मोल ।
३. J1. omits this verse.
1081
१०६ भोजनकुतूहलं
फलतुल्यगुणं सर्वं मज्जानमपि निर्दिशेत् ।
फलं हिमादिदुर्वातव्याळकीटादिदूषितम् ॥
अकालजं कृभूजं च पाकातीतं न भक्षयेत् ॥
इति फलवर्गः ॥
अथ काण्डीरः ।
काण्डीरः कटुतिक्तोष्णः सरो दृष्टिव्रणार्त्तिनुत् ।
लूतगुल्मोदरप्लीहशूलमन्दाग्निनाशनः ॥
काण्डवेळि ।
रुच्यं रूक्षं ग्राहि वृष्यं वातलं वह्निसादनम् ।
ईषत्कषायं स्वाद्वस्रपित्तप्रदरमेहजित् ॥
प्रोक्तं रम्भागर्भकाण्डं श्लेष्मलं वह्निसादनम् ।
बालदण्ड ।
तीक्ष्णोष्णं सार्षपं नाळं वातश्लेष्मव्रणापहम् ।
कटु क्रिमिहरं कण्डुकुष्ठघ्नं रुचिकारकम् ॥
सर्षपनाळ ।
सर्वे संस्वेदजाऽभ्रीताः दोषळाः पिच्छलाश्च ते ।
गुरवश्छर्द्यतीसारज्वरश्लेष्मामयप्रदाः ॥
भृङ्गच्छल्ली कटूष्णा च तिक्ता रोचनदीपनी ।
भोवरसालि ।
अथ पुष्पाणि ।
निहन्याद्विल्वजं पुष्पमतीसारं तृषां वमिम् ।
बिल्वपुष्पम् ।
१. P2. वातघ्नं ।
२. P1. पिच्छला ।
प्रथमपरिच्छेदः ।
श्रीपर्णीकुसुमं शीतं तिक्तं सङ्ग्राहि वातलम् ।
कषायं मधुरं पाके पित्तास्रासृग्दरापहम् ॥
श्रीपर्णीपुष्पम् ।
पाटलाकुसुमं हृद्यं कषायमधुरं हिमम् ।
हिध्माकफातिसारघ्नं शोषघ्नं वारिवासनम् ॥
पाटलीपुष्पे ।
निर्गुण्डिपुष्पं तिक्तोष्णं क्रिमिवातकफापहम् ।
गुल्मप्लीहारुचिं कुष्ठं कण्डूं शोफं जयेत्कटु ॥
निर्गुण्डीपुष्पे ।
पुष्पमाखुविषं हन्यात् कपित्थस्य विशेषतः ।
कावठफूल ।
माधूकं मधुरं शीतमहृद्यं बृंहणं गुरु ॥
माधूकपुष्प ।
शाल्मलीपुष्पशाकं तु घृतसैन्धवसाधितम् ।
प्रदरं नाशयत्याशु दुस्साध्यं च न संशयः ॥
रसे पाके च मधुरं कषायं शीतलं गुरु ।
कफपित्तास्रजिद् ग्राहि वातलं च प्रकीर्तितम् ॥
शाल्मलीपुष्प ।
इति पुष्पाणि ।
अथ कवकम् ।
भूस्फोटं कवकं छत्रं भूमिच्छत्रं शिलान्ध्रकम् ।
क्षितिगोमयकाष्ठेषु वृक्षादिषु च तद्भवेत् ॥
श्रेष्ठाश्शुचिस्थलीकाष्ठवंशगोव्रजसम्भवाः ।
नातिदोषकरास्ते स्युः शेषास्तेभ्यो विगर्हिताः ॥
भूकन्दस्त्वतिदोषल इति वाग्भटः । भूकन्दः भूस्फोटः कवकं इति
यावत् ।
इति कवकानि ॥
१. P1. P2. सृग्ज्वरापहम् ।
भोजनकुतूहले
अथ हारीतप्रकरणम् ।
तत्र —
रुच्यं चूतफलोद्भूतं हारीतं वातजित् गुरु ।
पित्तश्लेष्मकरं वह्निमान्द्यकारि विकारि च ॥
आम्रहरीतकम् ।
स्थौल्यकान्तिकरं बैम्बं हरितं वातपित्तजित् ।
तोण्डल्याचें ।
हरितं मूलकोद्भूतं लघूष्णं स्वादु पाकतः ॥
गुल्मशूलक्षयहरं रुच्यं दोषहरं परम् ।
मूलकहरित ।
रुच्यमग्निकृत् क्रिमिश्लेष्मकुष्ठजित्कारवेल्लकम् ॥
कारल्यांचे ।
रम्भाकाण्डकृतं दाहपित्तास्रघ्नं कफप्रदम् ।
कषायकटुतिक्तोष्णं रूक्षं गुर्वग्निसदनम् ॥
वातघ्नं च .... ... ... ... ।
रम्भाकाण्डजम् ।
रुच्यं सुगन्धं कैडर्यपत्रजं सर्वदोषनुत् ।
कृष्णनिम्बस्य ।
शृङ्गवेरं सलवणं स्तम्भशोफानिलापहम् ।
जिह्वाजाड्यहरं वृष्यं रोचनं दीपनं लघु ॥
जम्बीराक्तं सलवणं हरितं शृङ्गवेरजम् ।
रुच्यं श्लेष्मानिलप्लीहकण्ठरोगहरं परम् ॥
आर्द्रकं सगुडं बल्यं वातश्लेष्मशमप्रिदम् ।
आर्द्रचिञ्चाफलैर्युक्तं दीपनं कफकोपनम् ॥
बालार्द्रकस्य ।
शृङ्गवेरं त्रिदोषघ्नं शोफगुल्मक्षयापहम् ।
शूलानाहार्शसां पथ्यं वृष्यं बल्यं रुचिप्रदम् ॥
प्रौढार्द्रकस्य ।
प्रथमपरिच्छेदः । १०९
गजकर्णीकन्दभवं तीक्ष्णोष्णं शीतिकापहम् ।
कटुकं कफवातघ्नं विषवीसर्पकुष्ठनुत् ।
प्रशस्यते पाण्डुशोफक्रिंम्यानाहव्रणार्शसाम् ।
गजकर्णीभवम् ।
[कू]ष्माण्डखण्डसम्भूतं सूक्ष्मं हरितकं जयेत् ।
[वा]तपित्तामयान् सर्वान् पीनसघ्नं रुचिप्रदम् ॥
कूष्माण्डजम् ।
[ख]राशिशिम्बेश फलकं कोमलं सूक्ष्मखण्डितम् ।
अग्निमान्द्यकरं किञ्चिद् वातघ्नं हरितं कृतम् ॥
खराशीबीकृतम् ।
वृन्ताकं खण्डितं सूक्ष्मं शृङ्गबेराम्लमिश्रितम् ।
भावितं हिङ्गुमरिचैः पटुयुग्वातदोषनुत् ॥
वृन्ताकस्य ।
कफहदरमरुचिघ्नं बालवृन्ताकजातं
क्षयभत्रविकृतिघ्नं पित्तजिच्छर्कराढ्यम् ।
बालवृन्ताकस्य ।
माकन्दिकायाश्शकलैस्सुसूक्ष्मै-
श्लक्ष्णैस्सुसम्भारसुसंयुतैश्च ।
जयेदवश्यं कफजान् विकारान्
मान्द्यं कृशानोरतिमारुतं च ॥
माइणीमूलजम् ।
पारेवतफलैः पक्वैः कृतं हरितकं बलम् ।
करोति दीपयत्यग्निं सुसम्भारं रुचिप्रदम् ॥
उत्ततीभवम् ।
तोयमागधिकोद्भूतं हरितं नीरसं कटु ।
तृष्णाभिजननं सातिसारश्लेष्माविनाशनम् ॥
जलपिंपलीभवम् ।
११९ भोजनकुतूहले
कद्लीफलसम्भूतच्छल्लिभिः खण्डशः कृतैः ।
सूक्ष्मं हरितकं सर्वसम्भारैर्वातपित्तजित् ॥
'कादळकळीजम् ।
सार्निाहरितमूलखण्डितै-
र्निर्मितं हरितकं समीरणम् ।
हन्ति सर्वकफजान् महागदान्
पीतमत्यनिलवृद्धिकारणम् ॥
वनमाइणमूलजम् ।
त्रपुसाज्जातहरितं नानाविधकफामयान् ।
करोति कृच्छ्रदोषार्तिं सम्भारसहितं जयेत् ॥
सर्ववालुकानाम् ।
महाबदरसम्भूतं साम्लं हरितकं जयेत् ।
मन्दाग्निं वातरोगं च शिरोरोगैककारणम् ॥
महाबदरजम् ।
हरीतकं परं हृद्यं स्वादु कोशातकीभवम् ।
फलोर्ध्वदंष्ट्रसम्भूतनिःशेषव्याधिदोषजित् ॥
दोडक्याचें ।
पथ्यं पटोलहरितं क्षाराम्ललवणान्वितम् ।
कफपित्तहरं रुच्यं किञ्चिद्गुरु समीरजित् ॥
पटोलभवम् ।
इति हरितप्रकरणम् ॥
अथोपंदंशाः ।
तत्र
स्वाद्वम्लं विशदं हृद्यं तीक्ष्णोष्णं भक्तरोचनम् ।
स्निग्धं सुगन्धं नारङ्गं बल्यं श्लेष्मानि-
न् ।
(Wait, in line 20: कासश्वासहिध्मामदात्ययान् । -> look at हिध्मा: हि + ध्मा! Yes, हिध्मा = hiccup).
हन्ति शोफानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥
(Wait, शोफानिलश्लेष्मविबन्धच्छर्द्यरोचकान् ॥ -> शोफानिल...).
गुल्मोदराशँशूलानि मन्दाग्नित्वं च नाशयेत् ।
(Wait, गुल्मोदरार्शःशूलानि -> in the print: गुल्मोदरार्शश्शूलानि or गुल्मोदरार्शःशूलानि? Look at it: गुल्मोदरार्शशूलानि? It has श with a repha: र्श, then another श? It has र्शन? No, र्शः or र्शश्? It has र्श with a loop or र्शः? It looks like गुल्मोदरार्शःशूलानि or गुल्मोदरार्शश्शूलानि -> wait, it's गुल्मोदरार्शश्शूलानि! There is र् over the first श, then a second श with ू matra: शू! So `
१२ भोजनकुतूहले
क्षुद्राम्रं बालमम्लोष्णं कटु पाके समीरजित् ।
कफपित्तहरं रुच्यं कटूष्णं रक्तशोषणम् ॥
क्षुद्राम्रम् ।
लवणाम्रफलं रुच्यं दीपनं वातनाशनम् ।
भ्रमक्लमहरं हृद्यं मदमूर्च्छाप्रलापजित् ॥
लवणाम्रफलम् ।
भाविकाऽम्ला कषायोष्णा कण्ठ्या वातबलासजित् ।
रुच्याग्निदीपनी वर्ण्या व्रणे कण्ठामये हिता ॥
आवाडें ।
हृद्यं तिक्तं ज्वरश्वासकासकण्डूतिकुष्ठजित् ।
कफपित्तारुचीन् हन्ति वातलं कटुकीफलम् ॥
सोंडेकाई ।
पिच्छलं गुरु विष्टम्भि पक्वं कटुकिकाफलम् ।
पक्वसोंडेकाई ।
अलर्कस्तिक्ततीक्ष्णोष्णः शोफानिलकफक्रिमीन् ।
प्लीहगुल्मश्वासकासकण्डूदुर्नामपीनसान् ॥
हिक्काऽरुच्यान्त्रशूलाशोमदोल्बणविषान् जयेत् ।
अलर्क; मूलसोंडेकाई । गोरखिरिंगणीति महाराष्ट्रः ।
अक्षीयस्य फलं तिक्तं कषायं कफवातजित् ।
वीसर्पव्रणगुल्मामरक्तातीसारमेहजित् ॥
व्याहडे ।
कषायतिक्तं कतकं फलं शीतं सरं लघु ।
पित्तास्रमेहतृट्शोषविषवाताक्षिरोगजित् ॥
पक्वं तु कतकं तिक्तकषायं स्वादु पिच्छलम् ।
चक्षुष्यं दीपनं श्लेष्मपित्ततृड्विषमेहजित् ॥
चिलबीज ।
१. P1, P2. अक्षीर.
बालं बैल्वं लघु ग्राहि स्निग्धं तिक्तं कषायकम् ।
वातश्लेष्मज्वरच्छर्द्दिहिध्मातीसारगुल्मजित् ॥
तीक्ष्णं पित्तकरं तत्र पक्वं तत् स्वादु पिच्छलम् ।
दुर्ज्जरं दोषलं ग्राहि स्निग्धोष्णं पूतिमारुतम् ।
बिल्वफळ ।
धात्री बध्या समगुणा कषायाम्ला रसायनम् ।
मधुरानुरसा शीता केश्या वृष्या त्रिदोषहा ॥
रक्तास्रपित्तहृद्दाहहृत्कण्ठ्या त्वक्प्रसादिनी ।
विबन्धाध्मानविष्टम्भवान्तिभ्रमहरा सरा ॥
निहन्याद् वातमम्लत्वात् पित्तं मधुरपाकतः ।
कफं रूक्षकषायत्वात् सर्वेभ्योऽप्यधिका च सा ॥
आंवळें ।
कषायतिक्तं रोचिष्णु सुगन्धि गुरु शीतलम् ।
श्लेष्मघ्नं पित्तहृद्रुच्यं कोमलं सल्लकीफलम् ॥
साळफळें ।
तिक्तं कटूष्णं पैफणं दीपनं कफवातजित् ।
हन्ति गुल्मं क्रिमीन् शूलमर्शः कोष्ठामयव्रणान् ॥
फांपटें ।
श्लेष्मातकफलं स्वादु कटुकं गुरु पिच्छलम् ।
वातघ्नं श्लेष्मलं कण्ठ्यं केश्यं वर्ण्य विषापहम् ॥
महाशेल्लुफलं तद्वद् दीपनं श्लेष्मवातजित् ।
पित्तकृच्छ्लेष्मलं रुच्यं वृष्यं कोष्ठक्रिमिप्रणुत् ॥
भोंकरें ।
.१. T2. तत्साधु पिच्छलम् .
२. P1. श्रम.
३. P1: कफणं. T2. यफणं.
१४४ भोजनकुतूहलम्
पाके रसे कटुस्तिक्तः कषायो रक्तदूषणः ।
रूक्षो रुच्यः श्लेष्मकृमीन् हन्ति वंशकरीरकः ॥
बंशांकुर ।
शीता तिक्ता कटुस्वाद्वी रुच्या ग्राहल्पवातकृत् ।
माकन्द्यग्न्याग्निकृद्वै बल्या रक्तपित्तविसर्पजित् ॥
तृट्कफारुचिपिच्छघ्नी शीता त्वेषा गुणाधिका ।
मायणीमूल ।
तिक्ता कटूष्णा भ्रमरीं रोचनी दीपनी लघुः ॥
भोंवरिसालि ।
इत्युपदंशाः ।
अथ कर्षयः ।
चिर्भटस्य फलं शुष्कं स्नेहभृष्टं कटूत्कटम् ।
अत्यम्बुपानदोषघ्नं सुगन्धि रुचिकृल्लघु ॥
चिभट ।
कासराख्यफलं शुष्कं भृष्टं वा पक्वमेव वा ।
दीपनं रोचनं तिक्तं कैटवम्लं पित्तलं विदुः ॥
कढोंची ।
कारवल्लीशुष्कफलं कासघ्नं वेधमवर्त्मजित् ।
कारवल्ली ।
बृहतीद्वयसम्भूतं फलं शुष्कं सुपाचितम् ।
भृष्टं वाग्निकरं वातपित्तकृं कफवातजित् ॥
डोरली । रिङ्गणी
शुष्कवार्ताकफलजा तैलभृष्टा रुचिप्रदा ।
वार्ताकफलजा ।
१. P1, P2. कटूष्णं.
२. T1 वर्त्मवादिजित् ।
मपरिच्छेदः । १५
शमीफलं तु संशुष्कं वातघ्नं शूलगुल्मजित् ॥
शमीच्यासेंगा !
श्वेतारिमेदसम्भूतं फलं शुष्कं प्रमेहजित् ।
हिंवराच्य, सेंगां ।
परिशुष्कं सर्वशाकं कार्श्यविष्टम्भवातकृत् ।
सर्वशुष्कशाकगुणाः ।
इति कर्चरीप्रकरणम् ।
अथ सम्भाराः ।
तत्र सर्षपगुणाः शिम्बीधान्येषूक्ताः ।
एला तिक्तोष्णकटुका लघ्वी वातकफापहा ।
श्वासाङ्गमर्दहृल्लासमूत्रकृच्छ्रविषप्रणुत् ॥
मुखवैरस्यजित् वृष्या हृद्या गर्भविरोधिनी ।
दीपनी पाचनी मेध्या व्रणार्शःकण्डुकासजित् ॥
एला ।
यवनी कटुतिक्तोष्णा वातश्लेष्मद्विजामयान् ।
हन्ति गुल्मारुची शूलं दीपयत्याशु चानलम् ॥
वोंवा ।
जीरकं कटुकं रुच्यं दीपनं पाचनं लघु ।
सुगन्धि मेध्यं श्लेष्मघ्नमुष्णं छर्द्यतिसारजित् ॥
गुल्मशूलोदराध्मानक्रिमदन्तामयापहम् ।
जीरें ।
हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम् ।
कटुपाकं सरं रूक्षं प्लीहानाहान्त्रवृद्धिजित् ॥
हिङ्गु ।
शताव्हा कटुका स्निग्धा तिक्ता श्लेष्मातिसारनुत् ।
ज्वरनेत्रव्रणघ्नी च वस्तिकर्माणि शस्यते ॥
थोरसेउवा
६ भोजनकुतूहले
शुण्ठिः कटूष्णा तिक्ता च कफशोफानिलापहा ।
शैलबन्धोदरानहाश्वासश्लीपदहारिणी ॥
शुण्ठी
मरीचं कटुतिक्तोष्णं लघु श्लेष्मविनाशनम् ।
समीरकृमिहृद्रोगहरं च रुचिकारकम् ॥
मरीच ।
मरीचं क्षुपजं रुच्यं दोषलं सर्वरोगकृत् ।
विशेषतः प्रमेहार्शोविकारेषु न शस्यते ॥
बृहन्मरीचं क्षुपजं ततोऽप्यल्पान्तरं गुणैः ।
मिरसेङ्गा
श्लेष्मला स्वादुशीतार्द्रा गुर्वी स्निग्धा च पिप्पली ।
सा शुष्का विपरीतातः स्निग्धा वृष्या रसे कटुः ॥
स्वादुपाकानिलश्लेष्मकासश्वासापहा परा ॥
पिंपळी
सैन्धवं लवणं वृष्यं चक्षुष्यं वह्निदीपनम् ।
त्रिदोषशमनं पूतं व्रणदोषविकारनुत् ॥
सैन्धवं द्विविधं प्रोक्तं सितरक्तविभेदतः ।
रसवीर्यविपाकेषु गुणाढ्यं तु सितं शिवम् ॥
सैन्धव ।
गाढादिलवणं शुभ्रं पृथ्वीजं गढदेशजम् ॥
गढोत्थं च महारम्भं सांभरं सांभरोद्भवम् ।
गाढोत्थं लवणं तूष्णमीषदम्लं मलापहम् ।
दीपनं कफवातघ्नमर्शोघ्नं कोष्ठशोधनम् ॥
सांभरं संभरदेशे प्रसिद्धम् ।
गाढलवणं
सामुद्रं लघु हृद्यं च पलितालाशुपित्तदम् ।
विदाहि कफवातघ्नं दीपनं रुचिकृत् परम् ॥
सामुद्रलवणम् ।
प्रथमपरिच्छेदः । ११७
द्रोणेयं लवणं पाके नात्युष्णमविदाहि च ।
भेदनं स्निग्धमीषच्च शूलघ्नं चाम्लपित्तलम् ॥
डोणींचे लवण ।
औखरं च कटु क्षारं तिक्तं वातकफापहम् ।
विदाहि पित्तकृद्ग्राहि मूत्रसंशोषकारि च ॥
आटुकळवण ।
रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् ।
दाहशोषकरं ग्राहि पित्तकोपकरं परम् ॥
वाफे सुकेल लवण ।
इति लवणानि ।
१त्वचं तु कटुकं शीतकफकासविनाशनम् ।
शूलामशमनं चैव कण्ठशुद्धिकरं लघु ॥
तज ।
पत्रकं लघु शीतोष्णं कफवातविषापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥
पत्रज ।
नागकेसरमल्पोष्णं लघु तिक्तं कफापहम् ।
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥
नागकेसर ।
अलक्तो रक्ततीक्ष्णोष्णः कफवातामयापहः ।
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥
अलिता ।
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् ।
मूर्धशूलविषदोषविमोचं रोचनं च तनुकान्तिकरं च ॥
कुङ्कुमकेसर ।
• १. P₁ चत्वं. P₂; वचं.
२. P₁; P₂; 1. तीक्ष्णोष्णं T
११८ भोजनकुतूहले
कस्तूरी सुरभिस्तिक्ता चक्षुष्या मुखरोगनुत् ।
किलासकफदौर्गन्ध्यगन्धालक्ष्मीमलापहा ॥
'दौर्गन्ध्यगन्ध इत्येकं पदम् ।'
कस्तूरी ।
अत्रैव प्रसङ्गात् तद्भेदास्तल्लक्षणं, कृत्रिमस्वरूपं चोच्यते ॥
कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् ।
निपालेऽपि च काश्मीरे कामरूपेऽपि जायते ॥
साप्येका खरिका ततश्च तिलका ज्ञेया कुलत्थापरा
पिण्डान्यापि च नाभिकेति च परा या पञ्चभेदामिधा ।
सा शुद्धा मृगनाभितः क्रमवशाद्देशादितीक्ष्णोत्थिता
पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका श्रूयते ॥
धूम्राकृतिस्तु खरिका तिलका तिलाभा
कौलत्थबीजसदृशी च कुलत्थकीख्या ।
स्थूला ततः कियदिदं किल पिण्डका स्यात्
तस्याश्च किञ्चिदधिका यदि नाभिका सा ॥
तिक्ता स्वादे पिञ्जरा केतकीनां
गन्धं धत्ते लाघवं तोलने च
याप्सु न्यस्ता नैव वैवर्ण्यमीयात्
कस्तूरी सा राजभोग्या प्रशस्ता ॥
किञ्च,
या गन्धं केतकीनामपहरति मदं सिन्धुराणां च वर्णे
स्वादे तिक्ता कटुर्वा लघुरथ मृदिता मर्दिता चिकणा स्यात् ।
दाहं या नैति वह्नौ झिमिशिमिति चिरं चर्मगन्धा हुतान्ते
सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥
अपि च,
बाले जरति च हरिणे क्षीणे रोहिणि हि मन्दगन्धयुता ।
कामरते वा तरुणे कस्तूरी बहुपरिमला भवति ॥
१. T₂ छने हि ।