सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 114, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 114

प्रथमपरिच्छेदः ।
तालमज्जा तु तरुणः किञ्चिन्मदकरो लघुः ।
श्लेष्मलो वातपित्तघ्नः सस्नेहमधुरस्सरः ॥
तालजं तरुणतोयमतीव प्राणिनां मदविकारकरं तु ।
अम्लभावमुपयाति यदा तत्पित्तकृत्पवनदोषहरं च ॥
तालगुणाः ।
सीताफलं सुमधुरं शीतलं पित्तनाशनम् ।
सुपक्वं रुचिकृद्दान्ते हितं न कफकृत्परम् ॥
सीताफलम् ।
अथाम्रप्रकरणम् ।
आम्रः कषायाम्लरसः सुगन्धिः कण्ठामयघ्नोष्णकरश्च बालः
पित्तप्रकोपानिलरक्तदोषप्रदः कटुत्वादरुचिप्रदर्श¹ ॥
वाळाम्बा ।
अपिच —
बालं पित्तानिलकफहरं तच्च बद्धास्थि तादृक्
पक्वं दोषत्रितयशमनं सुष्ठु पुष्टिप्रदं च ।
दत्ते धातुप्रचयमधिकं तर्पणं कान्तिकारि
ख्यातं तृष्णाप्रशमनमथो साहकारं फलं स्यात् ॥
ते च त्रिविधाः । राजाम्रमहाराजाम्ररसाम्बभेदात् ।
राजास्राः कोमलास्सर्वे कट्वम्लाः पित्तदाहकाः ।
सुपक्कास्स्वादुमाधुर्यपुष्टिवीर्यबलप्रदाः ॥
तत्राग्रेषु त्रिषु प्रोक्तं साम्यमेव रसोच्चयात् ।
गुणाधिक्यं तु विज्ञेयं पर्यायादुत्तरोत्तरम् ॥
किञ्च —
बालं राजफलं कफास्रपवनश्वासातिपित्तप्रदं
मध्यं तादृशमेव दोषबहुलं भूयः कषायाम्लकम् ।
१. P₁- कटुत्वाच्च रुचिप्रदश्च । T₂, P₁, P₂. add उष्णकरः दाहकृत्० ।