सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 119, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 119

भोजनकुतूहले
अथ हारीतप्रकरणम् ।
तत्र —
रुच्यं चूतफलोद्भूतं हारीतं वातजित् गुरु ।
पित्तश्लेष्मकरं वह्निमान्द्यकारि विकारि च ॥
आम्रहरीतकम् ।
स्थौल्यकान्तिकरं बैम्बं हरितं वातपित्तजित् ।
तोण्डल्याचें ।
हरितं मूलकोद्भूतं लघूष्णं स्वादु पाकतः ॥
गुल्मशूलक्षयहरं रुच्यं दोषहरं परम् ।
मूलकहरित ।
रुच्यमग्निकृत् क्रिमिश्लेष्मकुष्ठजित्कारवेल्लकम् ॥
कारल्यांचे ।
रम्भाकाण्डकृतं दाहपित्तास्रघ्नं कफप्रदम् ।
कषायकटुतिक्तोष्णं रूक्षं गुर्वग्निसदनम् ॥
वातघ्नं च .... ... ... ... ।
रम्भाकाण्डजम् ।
रुच्यं सुगन्धं कैडर्यपत्रजं सर्वदोषनुत् ।
कृष्णनिम्बस्य ।
शृङ्गवेरं सलवणं स्तम्भशोफानिलापहम् ।
जिह्वाजाड्यहरं वृष्यं रोचनं दीपनं लघु ॥
जम्बीराक्तं सलवणं हरितं शृङ्गवेरजम् ।
रुच्यं श्लेष्मानिलप्लीहकण्ठरोगहरं परम् ॥
आर्द्रकं सगुडं बल्यं वातश्लेष्मशमप्रिदम् ।
आर्द्रचिञ्चाफलैर्युक्तं दीपनं कफकोपनम् ॥
बालार्द्रकस्य ।
शृङ्गवेरं त्रिदोषघ्नं शोफगुल्मक्षयापहम् ।
शूलानाहार्शसां पथ्यं वृष्यं बल्यं रुचिप्रदम् ॥
प्रौढार्द्रकस्य ।