सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 113, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 113

हिमाद्रिजायाश्च हिमाद्रिजांया गुणान् समग्रान् यदि वेद वेदः।
धन्वन्तरिर्यत्र तरिनं देवो भवि भवेद् भूरिभवो भवोऽपि ॥
गुणान्तराणि ग्रन्थान्तरतोऽवधेयानि ।
इति हरीतकीप्रकरणम् ।
अक्षं कषायं मधुरं पाके पित्तकफापहम् ।
उष्णवीर्यं हिमस्पर्शं केश्यं वैस्वर्यजन्तुजित् ॥
चक्षुष्यं भेदनं रूक्षं लघु कासविनाशनम् ।
अक्षमज्जा मदकरः कफमारुतनाशनः ॥ व्याहडे ।
आक्षोटकं सरं स्निग्धं मधुरं रसपाकयोः ।
गुरुष्णं बृंहणं वृष्यं बल्यं विष्टम्भि रोचनम् ॥
हृद्यं क्षयास्रपवनदाहघ्नं रक्तपित्तनुत् । अकरोटें ।
वाताम उष्णस्सुस्निग्धो वातघ्नश्शुक्रकृद् गुरुः ।
वाताममज्जा मधुरो वृष्यः पित्तानिलापहः ॥
स्निग्धोऽम्लकफकृच्चेटो रक्तपित्तविकारिणाम् । बदाम ।
सेबं समीरापित्तघ्नं बृंहणं कफकृद् गुरु ।
रसे पाके च मधुरं शिशिरं रुचिशुक्रकृत् ॥ सेव ।
फलं तालस्य मधुरं गुरु स्निग्धं हिमं सरम् ।
विष्टम्भि बृंहणं वृष्यं तर्पणं कफमांसकृत् ॥
सरं विष्टम्भीति विशेषणद्वयं संग्रहणीकरत्वं बोधयति ।
बीजं स्वादु रसे पाके मूत्रलं वातपित्तजित् ॥
पक्वं तालफलं पित्तं श्लेष्मरक्तविवर्धनम् ।
दुर्ज्जरं बहुमूत्रं च तन्त्रामिष्यन्दशुक्लम् ।

  1. J1, Bh. omit सरं ...... - बोधयति ।