सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 111, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 111

भोज नकुतूहले
तूतं गुरु सरं चाम्लमामं तद्रक्तपित्तकृत्।
• उष्णं पक्वं तु मधुरं शीतपित्तानिलापहम् ॥
तूत ।
कर्कटं तुवरं साम्लं गुरुष्णं रक्तपित्तलम् ।
सरं वातहरं श्लेष्महृत्पक्वं नास्रपित्तलम् ॥
मृगलेण्डिक ।
अथ हरीतकीप्रकरणम् ।
तोदनं लघु संग्राहि साम्लोष्णं वह्निपित्तकृत् ।
स्निग्धं पक्वं तु मधुरं कषायं कफवातजित् ॥
तोरणे ।
विजया रोहिणी चैव पूतना चामृताभया ।
जीवन्ती चेतकी चैव नाम्ना सप्तविधा स्मृता ॥
अलाबुनामिविजया सुवृत्ता रोहिणी स्मृता ।
स्वल्पत्वक् पूतना ज्ञेया स्थूलान्या सामृता मता ।
पञ्चास्रा चाभया ज्ञेया जीवन्ती स्वर्णवर्णभाक् ॥
त्र्यस्रां तु चेतकीं विद्यादित्यासां रूपलक्षणम् ।
विन्ध्याद्रौ विजया हिमाचलभवा स्याच्चेतकी पूतना
सिन्धौ स्यादथ रोहिणी तु विजया जाता प्रतिष्ठानके ।
चम्पायाममृताभया च जनिता देशे सुराष्ट्राह्वये
जीवन्तीति हरीतकी निगदिता सप्तप्रभेदा बुधैः ॥
सर्वप्रयोगे विजया च रोहिणी क्षतेषु लेपेषु तु पूतनोदिता ।
विरेचने स्यादमृता गुणाधिका जीवन्तिका स्यादिह जीर्णरोगजित् ॥
१. T₂, Bh, P₁, P₂. प्रतिष्ठानके ।