सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

मु ()
11: प (
)
12: त () -> 10, 11, 12 = ~ ~ ~ (N)!
13: नू (-) -> wait, in Y: laghu guru guru (
- -). If 13 is 'नू', that's guru!
Wait, look at the word: "शुभमुपतनूते" or "शुभमुत तनुते"?
Look at the image:
"शुभमुपतनूते" - wait, is that a 'त'?
Look at the letters:
शु
भ
मु
प
त
नु (or नू?)
ते
Wait, between प and नु/नू:
Is it 'त'? "पतनूते" or "यतनुते"?
Wait, "तनुते" (तान् विस्तारयति / कुरुते). "उपतनूते" - wait, उप + तनुते? तनु विस्तारे, उपतनुते.
Wait, in Sragdharā, 10, 11, 12 is N (~~~), 13, 14, 15 is Y (~--).
So:
10: शु (wait, no, शुभ: शु is 8, भ is 9! यं is 7!)
Let's re-verify:
7: यं (-)
8

'?
'सू' -> then 'र्यां' -> 'शु'.
Yes: सू + र् + या + ं = सूर्यां, then शु = सूर्यांशु.
Wait, look at "निस्यूतवह्नि-":
नि - स्यू - त - व - ह्नि -
Is it 'निस्यूत' or 'निस्स्यूत'?
It has only one 'स्': 'निस्यूतवह्नि-'.

Line 3:
र्जात्यः सोऽयं कथ्यते सूर्यकान्तः ॥ १३८ ॥
Wait, the hyphen at the end of L2 connects to L3:
सूर्यांशुस्पर्शान्निस्यूतवह्नि- + र्जात्यः = वह्निर्जात्यः!
Yes, exactly! "र्जात्यः सोऽयं कथ्यते सूर्यकान्तः ॥ १३८ ॥"

Line 4:
इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः ।
Let's check:
इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः ।
All correct.

Line 5:
शीतात्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ १३९ ॥
All correct.

Line 6:
चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापनुत् ।
All correct.

Line 7:
`शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मी

१३.] आयुर्वेदप्रकाशः । १८३
पुष्परागं च संधानैः कुलत्थक्वाथसंयुतैः ।
तन्दुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ १४९ ॥
रोचनाद्भिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
धृतान्येतेषु संस्विन्नान्याशु शुध्यन्ति दोलया ॥ १५० ॥
लकुचद्रावसंपिष्टैः शिलातालकगन्धकैः ।
वज्रं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ १५१ ॥
इति सर्वरत्नभस्मीकरणम् । अत्र कश्चिद्विशेषः—
रत्नादीनामलाभे तु ग्राह्यं तस्योपरत्नकम् ।
मौक्तिकस्याऽप्यभावे तु मुक्ताशुक्तिं प्रयोजयेत् ॥ १५२ ॥
अत्र गुरुचरणाः—
न हन्याद्धीरकादीनि नवरत्नानि बुद्धिमान् ।
महामौल्यानि तेषां तु वधे रौरवमृच्छति ॥ १५३ ॥
तर्हि ऋषिभिः कथं हननक्रियोक्तेति संदेहनिवृत्त्यर्थं परं-
परोपदेशप्राप्तं बीजमस्ति; तद्यथा—
वज्रादीनां तु संस्कारे क्रियमाणे पतन्ति ये ।
गात्रेभ्यः खण्डकाः स्वल्पास्तान् हन्याद्बुद्धिमान् भिषक् ॥
यद्वा तत्खनिजाता ये तज्जातीयाः सुलक्षणाः ।
स्वल्पमूल्यास्तु तेषां हि वधे नास्तीह पातकम् ॥ इति १५५
अन्यच्च—
गुणा यथैव रत्नानामुपरत्नेषु ते तथा ।
तेषु किंचित्ततो हीना विशेषोऽयमुदाहृतः ॥ १५६ ॥
अथोपरत्नेषु वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि ।
देव्या हते महादैत्ये महिषासुरसंज्ञके ।
तद्देहरुधिरोद्भूता विन्दवो यत्र यत्र हि ॥ १५७ ॥
पतिता विन्ध्यकाद्रेस्तु दक्षिणोत्तरतो रणे ।
वज्राकारास्तु ते जाता वैक्रान्ता इति विश्रुताः ॥ १५८ ॥

१८४ आयुर्वेदौयग्रन्थमाला । [ अध्यायः
गौरीमते तु—
विकृता वज्रखण्डा ये वैक्रान्ताख्यां भजन्ति ते ।
जातयः शोधनं हिंसा गुणास्तेषां तु वज्रवत् ॥ १५९ ॥
अन्यच्च—
भैरवं गणनाथं च संपूज्य बलिपूर्वकम् ।
सुमुहूर्ते ततः कार्यं वैक्रान्तग्रहणं बुधैः ॥ १६० ॥
वैक्रान्तः श्वेतपीतादिभेदेनाष्टप्रकारकः ।
स्वर्णरूप्यादिकरणे स्वस्ववर्णः शुभो मतः ॥ १६१ ॥
वैक्रान्तः कृष्णवर्णो यः षट्कोणो वसुकोणकः ।
मसृणो गुरुतायुक्तो निर्मलः सर्वसिद्धिदः ॥ १६२ ॥
गुणाः—
वैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।
विषघ्नो रसराजस्य ज्वरकुष्ठक्षयप्रणुत् ॥ १६३ ॥
अन्यत्रापि—
वैक्रान्तस्तु त्रिदोषघ्नः षड्रसो देहदार्ढ्यकृत् ।
पाण्डूदरज्वरश्वासकासयक्ष्मप्रमेहनुत् ॥ १६४ ॥
अशुद्धौ वज्रवैक्रान्तौ किलासं दाहसंततिम् ।
पाण्डुरोगं पार्श्वपीडां कुरुतौ तौ विशोधयेत् ॥ १६५ ॥
शोधनमारणे—
वैक्रान्तो वज्रवच्छोध्यो ध्मातः सिक्तोऽश्वमूत्रके ।
वज्रवन्मृतिमापन्नो वज्रस्थाने प्रयोजयेत् ॥ १६६ ॥
प्रकारान्तरम्—
कुलित्थकाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥ १६७ ॥

ानि च नृणां भृशम् ॥ १७२ ॥"
Wait! Look at the words:
"घ्नन्ति" (ghnanti)
"पुण्ययशः" (puṇyayaśaḥ)
Wait, is it "क्रान्ति" or "कान्ति"?
Look at: 'का' with '्' or no '्'?
Let's look at 'क्रान्ति':
Is there a slant line across the vertical stem of 'क'?
Wait, compare 'कृच्छ्र' (line 17) with this 'क':
This 'क' has a slant line going down-left! Like 'क्र'!
Wait, look at 'क्र' in 'प्रकारस्तु' (line 1): 'प्र' has a slant. 'क्र' in 'वैक्रान्त' has a slant across the loop/stem.
Here: it has a slant across the vertical stem: 'क्रान्ति'!
Wait, "पुण्ययशःक्रान्ति"? Or "पुण्ययशःकान्ति"?
Wait, could it be "कान्ति"? In Sanskrit, it's usually "कान्ति" (lustre, beauty). But sometimes printers print "क्रान्ति" or "कान्ति". Let's look really closely at the letter:
The letter has:
The 'क' loop on the left and hook on the right.
There is a slant line on the stem!

ऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां
न्यसेदित्यर्थः । अथाशक्तस्य ग्रहप्रातिकूल्ये धारणदाने आह—
माणिक्यं द्युमणेर्बुधस्य गरुडोद्गारो गुरोः पुष्पकं
गोमेदं तमसः प्रवालमवनीसूनोर्विधौर्मौक्तिकम् ।
नीलं मन्दगतेः कवेस्तु कुलिशं केतोर्विडालाक्षकं
रत्नं रत्नविदो वदन्ति विहितं दानेऽथवा धारणे ॥ १७४
द्युमणेः सूर्यस्य, तमसः राहोः, अवनीसूनोर्मङ्गलस्य, मन्द-
गतेः शनैश्चरस्य, कवेः शुक्रस्य, विडालाक्षकं विदूरमणिः,
एषां प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ
मुक्ताफलानां द्रुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह—
मुक्ताफलानि सप्ताहं वेतसाऽम्लेन भावयेत् ।
जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥
पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ १७६ ॥
इति मुक्तादिरत्नद्रुतयः । अथ सौराष्ट्रीसत्त्वम्—
सिताऽसिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं¹ कोष्ठयन्त्रके ॥ १७७ ॥
अथ सस्यकसत्त्वम्—
सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः ।
स्त्रीमूत्रे वाऽथ यामैकं तत्पादांशां निशां क्षिपेत् ॥ १७८ ॥
मर्द्य करञ्जतैलेन यामैकं गोलकं च तत् ।
अन्धमूषागतं ध्मातं घटिकार्धं दृढाग्निना ।
इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ १७९ ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे त्रयोदशोऽध्यायः ॥ १३ ॥
१ ‘क्रामके’ ग. ।

१४.] आयुर्वेदप्रकाशः । १८७
अथ चतुर्दशोऽध्यायः ।
अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्यायं व्याख्यास्यामः।
अथ विषोत्पत्तिः—
शृणु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् ।
भेदांस्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥
देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः ।
पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥
एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः ।
मन्थानं मन्दरं कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥
क्षीराब्धिमन्थनं तत्र प्रारब्धं सुरसुन्दरि ।
सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥
अतीव मन्थनाद्देवि मन्दराघातवेगतः ।
अहिराजश्रमादेव विषज्वाला विनिर्गता ॥ ५ ॥
ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे ।
(तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् ।
प्रलयानलसंकाशं क्रुद्धः काल इवोत्कटम् ॥)
तां दृष्ट्वा विबुधाः सर्वे दानवाश्च महावलाः ॥ ६ ॥
विषण्णवदनाः सद्यः प्राप्ताश्चैव मदन्तिकम् ।
ततस्तैः प्रार्थ्यमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥
ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् ।
पत्ररूपेण कुत्रापि मृत्तिकारूपतः क्वचित् ॥ ८ ॥
कन्दरूपेण कुत्रापि तेषां लक्षणमुच्यते ।
विषं तु गरलं क्ष्वेडं कालकूटं च नामतः ।
अष्टादशविधं ज्ञेयं विषं कन्दभवं बुधैः ॥ ९ ॥
तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् ।
दशोग्रभेदाः संस्पर्शादाघ्राणादपि मारकाः ॥ १० ॥

१८८ आयुर्वेदीयग्रन्थमाला । [अध्यायः
यथा—
सक्तुको मुस्तकः कौर्मो दार्वीकः सार्पपस्तथा ।
सैकतो वत्सनाभश्च श्वेतशृङ्गी तथैव च ॥ ११ ॥
एतानि भेषज्यकृते विषाण्यष्टौ समाहरेत् ।
जराव्याधिहराणि स्युर्विधिना शीलितानि हि ॥ १२ ॥
लक्षणानि—
चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् ।
सक्तुकं तं विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥
ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।
कूर्माकृति भवेत्कौर्मं दार्वीकं हि फणाकृति ॥ १४ ॥
ज्वरहत्सार्पपं रोमि सर्षपाभकणान्वितम् ।
स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्विरोमकः ॥ १५ ॥
ज्वरादिसर्वरोगघ्नः कन्दः सैकत उच्यते ।
यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ॥ १६ ॥
न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ।
आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥ १७ ॥
प्रयोज्यो रोगहरणे जारणायां रसायने ।
गोशृङ्गवद्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥ १८ ॥
एतानि सक्तुकादीनि वातरक्ते त्रिदोषके ।
मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥
वातरक्ते वातप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे
वा इति तत्त्वार्थः । अथ वर्ज्यानि—
कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा ।
हालाहलश्च कर्कोटो ग्रन्थिर्हारिद्रकस्तथा ॥ २० ॥
१ 'दीर्घरोगं' ग. । २ 'सर्षपाभकणाकृति' ग. ।

१४.] आयुर्वेदप्रकाशः । १८९
रक्तशृङ्गी केसरश्च यमदंष्ट्रा च पण्डितैः ।
त्याज्यानीमानि योगेषु विषाणि दश तत्त्वतः ॥ २१ ॥
लक्षणानि—
देवासुररणे देवैर्हतस्य पृथुमालिनः १ ।
दैत्यस्य रुधिराञ्जातस्तरुराश्वत्थसंनिभः ॥ २२ ॥
निर्यासः कालकूतोऽस्य मुनिभिः परिकीर्तितः ।
सोऽहिच्छत्रे शृङ्गवेरे कोङ्कणे मलये भवेत् ॥ २३ ॥
शृङ्गवेरः पर्वतविशेषः ॥
घनं रूक्षं सुकठिनं भिन्नाञ्जनसमप्रभम् ।
कन्दाकारं समाख्यातं कालकूटं महाविषम् ॥ २४ ॥
लक्षणान्तरम्—
वृत्तः कन्दो भवेच्छुष्को जम्बीरफलवच्च यः ।
तत्कालकूटं जानीयाद्घ्राणमात्रान्मृतिप्रदम् ॥ २५ ॥
मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते ।
दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥ २६ ॥
गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।
तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥ २७ ॥
असौ हालाहलो ज्ञेयः किष्किन्धायां हिमालये ।
दक्षिणाब्धितटे देशे कोङ्कणेऽपि च जायते ॥ २८ ॥
अन्तर्नीलो बहिः श्वेतो हालाहल उदाहृतः ।
कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥ २९ ॥
हरिद्राग्रन्थिवद्ग्रन्थिः सः स्यात्कृष्णोऽतिभीषणः ।
मूलाग्रयोस्तु वृत्तः स्यादायतः पीतगर्भकः ॥ ३० ॥
कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स तु कन्दकः ।
गोशृङ्गेऽग्रे च निक्षिप्ते नास्याऽसृक्प्रवर्तते ॥ ३१ ॥
१ 'वृषुमालिनः' ग. । २ 'भवेत्कृष्णो' ग. ।

१९० आयुर्वेदग्रन्थमाला । [अध्यायः
कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् ।
शुष्कार्द्रवत्सकिञ्जल्कं मध्ये तत्केसरं विदुः ॥ ३२ ॥
श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ।
रसायने धातुवादे विषवादे क्वचित्क्वचित् ।
दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ ३३ ॥
अथ कैश्चिन्नव भेदा उक्तास्ते यथा—
वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः ।
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ॥ ३४ ॥
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव ।
पलाशपत्रवत्पत्रैस्तद्वीजसदृशैः फलैः ॥ ३५ ॥
स्थूलः कन्दो भवेत्तस्य प्रभावस्तु महान् स्मृतः ।
सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ॥ ३६ ॥
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः ।
वर्णतो लोहितो यः स्याद्वर्हिमान् दहनप्रभः ॥ ३७ ॥
महादाहकरो घ्राणात्कथितः स प्रदीपनः ।
वर्णतः कपिलो यत्स्यात्तथा भवति सारकः ।
ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ ३८ ॥
शेषाः पूर्वमुक्ता एव । अथैषामुत्पत्तिस्थानानि—वत्सनाभः
पर्वतक्षोणीषूत्पद्यते, हारिद्रो हरिद्राकक्षेषु, सक्तुकः पर्वतदेशे,
प्रदीपनः समकक्षेषु, सौराष्ट्रिकः सुराष्ट्रदेशे, शृङ्गिकः कपि-
लेषु नदीकक्षेषु, कालकूटोऽहिच्छत्रादौ, हालाहलः किष्कि-
न्धादौ, ब्रह्मपुत्रैः ब्रह्मनाम कश्चन पर्वतप्रदेशस्तस्य कक्षेषु ॥
अथैषां वर्णाः—
ब्राह्मणं पाण्डुरविषं क्षत्रियं रक्तवर्णकम् ।
वैश्यं पीतप्रभं शूद्रं कृष्णवर्णं विनिन्दितम् ॥ ३९ ॥

१४.] आयुर्वेदप्रकाशः । १९१
ब्राह्मणं दीयते रोगे क्षत्रियं विषभक्षणे ।
वैश्यं व्याधिषु सर्वेषु सर्पदष्टाय शूद्रकम् ॥ ४० ॥
अथ विषगुणाः—
विषं रसायनं वल्यं वातश्लेष्मविकारनुत् ।
कटुतिक्तकषायं च मदकारि सुखप्रदम् ॥ ४१ ॥
व्यवायि शीतनुद्ग्राहि कुष्ठवातास्रनाशनम् ।
अग्निमान्द्यं श्वासकासं प्लीहोदरभगन्दरान् ।
गुल्मपाण्डुव्रणांशांसि नाशयेद्विधिसेवितम् ॥ ४२ ॥
अन्यत्रापि—
विषं प्राणहरं प्रोक्तं व्यवायि च विकाशि च ।
आग्नेयं वातकफहृद्योगवाहि मदावहम् ॥ ४३ ॥
तदेव युक्तियुक्तं तु प्राणदायि रसायनम् ।
पथ्याशिनां त्रिदोषघ्नं बृंहणं वीर्यवर्धनम् ॥ ४४ ॥
व्यवायि सकलकायं व्याप्य पाकगमनशीलं, विकाशि
ओजःशोषणपूर्वकसंधिबन्धाशिथिलीकरणशीलं, आग्नेयं अ-
धिकाग्न्यंशं, योगवाहि सङ्गिगुणग्राहकं, मदावहं तमोगुणा-
धिक्येन बुद्धिविध्वंसकम् । अथ विषशोधनम्—
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधिते ।
तस्माद्विषं प्रयोगेषु शोधितं योजयेद्भिषक् ॥ ४५ ॥
यथा—
उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु ।
अव्यावृतं विषहरैर्वातादिभिरशोषितम् ॥ ४६ ॥
विषहरैर्मयूरमण्यादिभिः ॥
विषभागांश्चणकवत्स्थूलान् कृत्वा तु भाजने ।
तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥ ४७ ॥

१९२ आयुर्वेदीयग्रन्थमाला । [अध्यायः
शोषयेन्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥ ४८ ॥
इयं शुद्धिः ग्रीष्मर्त्वादावुचिता, तत्र तीव्रातपसद्भावात् ॥
रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् ।
विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥ ४९ ॥
अथ तीव्रातपाभावे प्रकारान्तरेण शोधनं—
विषभागांश्चणकवत्स्थूलान् कृत्वा तु स्वेदयेत् ।
गोदुग्धे घटिकाः पञ्च शुद्धिमायाति तद्विषम् ॥ ५० ॥
न प्रोक्तं शोधनं यस्य विषस्योपविषस्य वा ।
गोदुग्धे स्वेदनं तस्य कर्तव्यं शुद्धिकारकम् ॥ ५१ ॥
योगतरङ्गिण्याम्—
विषं तु खण्डशः कृत्वा वस्त्रखण्डेन बन्धयेत् ।
गोमूत्रमध्ये निक्षिप्य स्थापयेदातपे त्र्यहम् ॥ ५२ ॥
गोमूत्रं तु प्रदातव्यं प्रत्यहं नूतनं बुधैः ।
त्र्यहेऽतीते तदुद्धृत्य शोषयेन्मृदु पेषयेत् ।
शुध्यत्येवं विषं सेवायोग्यं भवति रोगजित् ॥ ५३ ॥
अथान्यः प्रकारः—
खण्डीकृत्य विषं वस्त्रपरिवद्धं तु दोलया ।
अजापयसि संस्विन्नं यामतः शुद्धिमाप्नुयात् ॥ ५४ ॥
क्षीराभावे ह्यजायास्तु गव्यक्षीरेण शोधयेत् ।
जायते दोषनिर्मुक्तं विषं योगेषु योजयेत् ॥ ५५ ॥
अथान्यः प्रकारः—
विषग्रन्थि मले न्यस्य माहिषे दृढमुद्रितम् ।
करीषाग्नौ पचेद्यामं वस्त्रपूतं विषं शुचि ॥ ५६ ॥
इति विषशुद्धिः ॥

१४.] आयुर्वेदप्रकाशः । १९३
समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते ।
योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥
अन्यमतम्—
तुल्येन टङ्कणेनैव द्विगुणेनोपणेन च ।
विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥ ५८ ॥
इति विषकल्पार्थं विषमारणम् । अथ विषसेवा—
नानारसौषधैर्यै तु दुष्टा यान्तीह नो गदाः ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ५९ ॥
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् ।
हेमन्तशिशिरर्तौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥
चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि ।
अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥
विषं तस्मै न दातव्यं दत्तं चेद्रोगकारकम् ।
दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२ ॥
क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ।
ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् ।
पथ्यैः स्वस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ ६३ ॥
अथ विषानधिकारिणः—
न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।
क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४ ॥
गर्भिण्यां बालवृद्धेषु न विषं राजमन्दिरे ।
न दातव्यं न भोक्तव्यं विषं वादे कदाचन ॥ ६५ ॥
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ।
विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥
सर्वरोगोपशमनं दृष्टिपुष्टिकरं विषम् ।
विधिना मात्रया काले भवेत्पथ्याशिनां नृणाम् ॥ ६७ ॥
१७

१९४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अथ विषमात्राकथनम्—
यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया ।
सर्वरोगहरं नॄणां जायते शोधितं विषम् ॥ ६८ ॥
मतान्तरम्—
प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥ ६९ ॥
षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥ ७० ॥
क्रमहान्या तथा देयं द्वितीये सप्तके विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥ ७१ ॥
वृद्ध्या हान्या प्रदातव्यं चतुर्थे सप्तके तथा ।
एवं सात्म्ये समायाते परां मात्रां भिषग्वरः ॥ ७२ ॥
स्थिरीकुर्याद्यथेच्छं तु ततस्त्यागं तु कारयेत् ।
सेवनक्रमहान्याऽयं विषकल्प इतीरितः ॥ ७३ ॥
यवमात्रं ग्रसेत्स्वच्छो गुञ्जामात्रं तु कुष्ठवान् ।
एवं यवाष्टपर्यन्तं परा मात्राऽधिका नहि ॥ ७४ ॥
अथ विषे पथ्यानि—
घृतं क्षीरं सितां क्षौद्रं गोधूमांस्तण्डुलान्यवान् ।
मरिचं सैन्धवं द्राक्षां मधुरं पानकं हिमम् ॥ ७५ ॥
ब्रह्मचर्यं हिमं देशं हिमं कालं हिमं जलम् ।
विषस्य सेवको मर्त्यो भजेदतिविचक्षणः ॥ ७६ ॥
अथ विषपरीक्षा—
मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा तेन जायन्ते तस्य देहिनः ॥ ७७ ॥
प्रशमः प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥ ७८ ॥

१४. ] आयुर्वेदप्रकाशः । १९५
फेनं वमेत्पञ्चमे तु षष्ठे वैकल्यमेव च ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥ ७९ ॥
विषवेगानिति ज्ञात्वा मन्त्रद्रव्यैर्विनाशयेत् ।
यावन्नष्टमवेगं तु संप्राप्नोति हि मानवः ॥ ८० ॥
अतिमात्रं यदा भुक्तं वमनं तस्य कारयेत् ।
अजादुग्धं ददेत्तावद्यावद्वान्तिर्न जायते ॥ ८१ ॥
अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः ।
विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥ ८२ ॥
तदा जीर्णमिति क्वचित्पाठः ॥
विषं हन्याद्रसः पीतो रजनीमेघनादयोः ।
सर्पाक्षी टङ्कणं वाऽपि घृतेन विषहृत्परम् ॥ ८३ ॥
चत्वारो योगाः—
पुत्रजीवकमज्जा वा पीता निम्बुकवारिणा ।
विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥ ८४ ॥
गोधृतपीता हरति विषं गरलं च वन्ध्यकर्कोटी ।
सकलविषोपशमनी त्रिमूली सुरभिजिह्वा च ॥ ८५ ॥
अतिमात्रं यदा भुक्तं तदाऽऽज्यं टङ्कणं पिबेत् ।
विषं सवेगं तेनाशु नाशमाप्नोति निश्चितम् ॥ ८६ ॥
वाग्भटः—
आदौ वान्तविरिक्तस्य हरिद्रे कटभीं गुडम् ।
सिन्धुवारकनिष्पाववाष्पिकाशतपर्विका- ॥ ८७ ॥
तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम् ।
नावनाञ्जनपानेषु योजयेद्विषशान्तये ॥ ८८ ॥
विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा ।
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ८९ ॥

१९६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
शुद्धे हृदि ततः शाणं हेमचूर्णं च दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ९० ॥
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः ।
साधकानां हितार्थाय सदाशिवमुखोद्गतम् ॥ ९१ ॥
क्षिप्रं सर्वविषघ्नं च मन्त्रं वै प्रवदाम्यहम् ।
ॐ नमो भगवति श्रीघोणे हर २ दर २ पर २ वर २
वध २ लर २ लीं २ हर २ भां २ सर २ शं २ क्ष्व २ क्षीं
२ ह्रीं २ भगवति श्रीघोणे यः ३ सः ३ वर २ रं सं ४ ख-
ण्डावरूपे ह्रीं ३ वर विहङ्गम मानुषयोगक्षेमं वद शेखरि-
रखः स्वाहा इति मन्त्रः ।
विद्यायाः स्मृतिमात्रेण नश्यन्ते गुह्यकादयः ।
सप्तजप्तेन तोयेन प्रोक्षयेद्विषदूषितम् ॥ ९२ ॥
उत्तिष्ठति स वेगेन शिखावन्धेन धारयेत् ।
त्रिमन्त्रितेन शङ्खेन दुन्दुभिं वादयेद्यदि ॥ ९३ ॥
देशान्तरस्थं शब्देन निर्विषं कुरुते क्षणात् ।
विषं दृष्ट्वा यदा मन्त्री मन्त्रमावर्तयेत्सकृत् ॥ ९४ ॥
यान्ति निर्विषतां दृष्ट्वा अपि भारशतानि च ।
अथापरं मनुं वक्ष्ये साधकानां हिताय वै ।
येन निर्विषतामेति सर्पादिविषपीडितः ॥ ९५ ॥
ॐ नमो प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विन-
तासुताय हे गरुड २ काश्यपसुत २ वैनतेय २ तार्क्ष्यस्वर्ण-
वज्रचञ्चुवज्रतुण्डवज्रनखप्रहरणाय अनन्तवासुकितक्षककर्को-
टकपद्ममहापद्मशङ्खपालकुलिकजयविजय अष्टमहानागकाल उ-
च्चाटनी मूषकविषप्रहरणाय हन २ धुन २ शीघ्रं कम्प २
आवेश २ ठः ठः रहे श्रीगरुडाय नमः । इति ॥

१४.] आयुर्वेदप्रकाशः । १९७
मन्त्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् ।
सप्तवाराभिजप्तं तु पाययेद्गतचेतनम् ॥ ९६ ॥
सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् ।
त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥
मुखमध्ये तदा सेकाः कर्तव्यास्तज्जलस्य हि ।
अथवा मस्तके तस्य तर्जन्या ताडयेद्बुधः ।
त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥ ९८ ॥
अथ वृश्चिकविषहरणमन्त्रः—
ॐ कालो विंछु कर्तरीयालो सोनानी चाँच रूपानो
पन्नोरो विंछु उतरे तो उतारु न तो गरुडमो हंकारुं
आवेगो मोर खावेगो तोड विंछू विनरे तो हाक हलोला करे
मेरी भक्ति गुरुकी शक्ति फुरो मन्त्र ईश्वरोवाच ॥
मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया ।
मार्जयन्मन्त्रमुच्चार्य सप्तकृत्वा त्रिवारकम् ॥ ९९ ॥
सद्यो निर्विषतां कुर्यान्नरं वृश्चिकदंशितम् ।
बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥
अथापरो वृश्चिकविषहरो मन्त्रः—ॐ नमो पुनपुरो ॥
मार्जयन्मुखवातेन मन्त्रेणानेन मन्त्रवित् ।
तिस्रो रेखाः प्रकुर्यात्तु सरला भुवि चात्मनः ॥ १०१ ॥
सन्मुखास्तासु मन्त्रेण रेखैकां तिर्यगायताम् ।
प्रकुर्वन्निर्विषीकुर्यान्मन्त्रावृत्त्या मुहुर्मुहुः ॥ १०२ ॥
मुहुर्मुहुरिति २१ वारं; अनुभूतं मन्त्रद्वयमपि । अथोप-
विषाणि—
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ।
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥

१९८ आयुर्वेदीयग्रन्थमाला । [अध्यायः
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।
मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ॥ १०४ ॥
अर्कसेहुण्डयोर्दुग्धमितराणां जटा भवेत् ।
रसः प्रयोज्यो योगेषु यद्वा पञ्चाङ्गजो रसः ॥ १०५ ॥
मतान्तरम् —
अर्कस्नुग्लाङ्गलीगुञ्जाहयारिविषमुष्टयः ।
आफेनोन्मत्तजेपाला नवोपविषजातयः ॥ १०६ ॥
भङ्गा तु अनिश्चितैव, मांसगणे अजावीवत् । अथोपविषशुद्धिः—
लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता ।
इति लाङ्गलीशुद्धिः ।
गुञ्जा काञ्जिकसंस्विन्ना प्रहरं शुद्धिम्ऋच्छति ।
इति गुञ्जाशुद्धिः ।
किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ॥ १०७ ॥
इति विषमुष्टिशुद्धिः ।
जेपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे
निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासादितम् ।
लिप्तं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं
निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥
इति जेपालशुद्धिः ।
धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः ।
कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥
इति धत्तूरबीजशुद्धिः ।
अहिफेनं शृङ्गवेररसैर्भाव्यं त्रिसप्तधा ।
शुद्ध्यत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ ११० ॥
इत्यहिफेनशुद्धिः ।
१ यदाह चरकः,—“योनावजाविके मिश्रगोचरत्वादनिश्चिते”—इति ।

१४.] आयुर्वेदप्रकाशः । १९९
बब्बूलत्वक्कषायेण भङ्गां संस्वेद्य शोषयेत् ।
गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥
इति भङ्गाशुद्धिः ।
अथ विषतैलम्—
गृह्णीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् ।
तैलं तेन रसो मर्द्यः श्रुत्कारी स महान्भवेत् ॥ ११२ ॥
एवं धत्तूरबीजादेस्तैलं ग्राह्यं विधानतः ।
योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥
अथ विषवज्रपातः—
रङ्गं विषं टङ्कणमूर्षणं च तुत्थं समांशं कुरु देवदाल्याः ।
रसेन पिष्टो विषवज्रपातो रसो भवेत्सर्वविषैकहन्ता ॥ ११४॥
निष्कोऽस्य संजीवयति प्रयुक्तो नृमूत्रयोगेन च सर्वथैव ।
जटाविषेणाकुलितं तथाऽन्यैर्दुष्टैर्विषैर्घूर्णितमातुरं च ॥ ११५ ॥
रङ्गं वङ्गभस्म । इति विषवज्रपातो रसः । अथ लवणभेदी
सुधानिधिः—
पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुना चैकशः
सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्निं हठा-
च्छुभ्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः॥११६॥
तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं च यै-
रूर्ध्वं रेचयति त्रियाममसकृत्पेयं जलं शीतलम् ।
एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं
शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥
पांशुपटु खारीलवणम् । वज्र्यम्बुना वज्रीदुग्धेन, चैकशः
सूतं च पिष्टम् । मृगेन्द्रकुटिलोद्भूतं सिंहश्मश्रुभक्षणजनि-

२०० आयुर्वेदीयग्रन्थमाला । [अध्यायः
तम् । रसकर्पूरवदस्य प्रक्रिया । इति सकलविषघ्नो लवणभेदी
सुधानिधिरसः ॥
अथ क्षारकल्पना—
क्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् ।
नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे ॥ ११८ ॥
विमर्द्य धारयेद्रात्रौ प्रातरच्छं जलं नयेत् ।
तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ ११९ ॥
ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः ।
चूर्णाभः प्रतिसार्यः स्यात् पेयः स्यात्क्वाथवत्स्थितः ।
इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ १२० ॥
इति क्षारकल्पना ।
इत्यायुर्वेदप्रकाशे श्रीमदुपाध्यायसारस्वतकुलावतंसकाशीनिवासिश्रीमाधव-
विरचिते विषोपविषादिसाधनाध्यायः समाप्तः ॥
समाप्तोऽयमायुर्वेदप्रकाशः ।