आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 203, कुल 232 में से
संदर्भ में पढ़ें१८४ आयुर्वेदौयग्रन्थमाला । [ अध्यायः
गौरीमते तु—
विकृता वज्रखण्डा ये वैक्रान्ताख्यां भजन्ति ते ।
जातयः शोधनं हिंसा गुणास्तेषां तु वज्रवत् ॥ १५९ ॥
अन्यच्च—
भैरवं गणनाथं च संपूज्य बलिपूर्वकम् ।
सुमुहूर्ते ततः कार्यं वैक्रान्तग्रहणं बुधैः ॥ १६० ॥
वैक्रान्तः श्वेतपीतादिभेदेनाष्टप्रकारकः ।
स्वर्णरूप्यादिकरणे स्वस्ववर्णः शुभो मतः ॥ १६१ ॥
वैक्रान्तः कृष्णवर्णो यः षट्कोणो वसुकोणकः ।
मसृणो गुरुतायुक्तो निर्मलः सर्वसिद्धिदः ॥ १६२ ॥
गुणाः—
वैक्रान्तो वज्रसदृशो देहलोहकरो मतः ।
विषघ्नो रसराजस्य ज्वरकुष्ठक्षयप्रणुत् ॥ १६३ ॥
अन्यत्रापि—
वैक्रान्तस्तु त्रिदोषघ्नः षड्रसो देहदार्ढ्यकृत् ।
पाण्डूदरज्वरश्वासकासयक्ष्मप्रमेहनुत् ॥ १६४ ॥
अशुद्धौ वज्रवैक्रान्तौ किलासं दाहसंततिम् ।
पाण्डुरोगं पार्श्वपीडां कुरुतौ तौ विशोधयेत् ॥ १६५ ॥
शोधनमारणे—
वैक्रान्तो वज्रवच्छोध्यो ध्मातः सिक्तोऽश्वमूत्रके ।
वज्रवन्मृतिमापन्नो वज्रस्थाने प्रयोजयेत् ॥ १६६ ॥
प्रकारान्तरम्—
कुलित्थकाथसंस्विन्नो वैक्रान्तः परिशुध्यति ।
म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥ १६७ ॥