सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 215, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 215

१९६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
शुद्धे हृदि ततः शाणं हेमचूर्णं च दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ९० ॥
जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः ।
साधकानां हितार्थाय सदाशिवमुखोद्गतम् ॥ ९१ ॥
क्षिप्रं सर्वविषघ्नं च मन्त्रं वै प्रवदाम्यहम् ।
ॐ नमो भगवति श्रीघोणे हर २ दर २ पर २ वर २
वध २ लर २ लीं २ हर २ भां २ सर २ शं २ क्ष्व २ क्षीं
२ ह्रीं २ भगवति श्रीघोणे यः ३ सः ३ वर २ रं सं ४ ख-
ण्डावरूपे ह्रीं ३ वर विहङ्गम मानुषयोगक्षेमं वद शेखरि-
रखः स्वाहा इति मन्त्रः ।
विद्यायाः स्मृतिमात्रेण नश्यन्ते गुह्यकादयः ।
सप्तजप्तेन तोयेन प्रोक्षयेद्विषदूषितम् ॥ ९२ ॥
उत्तिष्ठति स वेगेन शिखावन्धेन धारयेत् ।
त्रिमन्त्रितेन शङ्खेन दुन्दुभिं वादयेद्यदि ॥ ९३ ॥
देशान्तरस्थं शब्देन निर्विषं कुरुते क्षणात् ।
विषं दृष्ट्वा यदा मन्त्री मन्त्रमावर्तयेत्सकृत् ॥ ९४ ॥
यान्ति निर्विषतां दृष्ट्वा अपि भारशतानि च ।
अथापरं मनुं वक्ष्ये साधकानां हिताय वै ।
येन निर्विषतामेति सर्पादिविषपीडितः ॥ ९५ ॥
ॐ नमो प्रचण्डगरुडाय पक्षिराजाय विष्णुवाहनाय विन-
तासुताय हे गरुड २ काश्यपसुत २ वैनतेय २ तार्क्ष्यस्वर्ण-
वज्रचञ्चुवज्रतुण्डवज्रनखप्रहरणाय अनन्तवासुकितक्षककर्को-
टकपद्ममहापद्मशङ्खपालकुलिकजयविजय अष्टमहानागकाल उ-
च्चाटनी मूषकविषप्रहरणाय हन २ धुन २ शीघ्रं कम्प २
आवेश २ ठः ठः रहे श्रीगरुडाय नमः । इति ॥