सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 202, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 202

१३.] आयुर्वेदप्रकाशः । १८३
पुष्परागं च संधानैः कुलत्थक्वाथसंयुतैः ।
तन्दुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ १४९ ॥
रोचनाद्भिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।
धृतान्येतेषु संस्विन्नान्याशु शुध्यन्ति दोलया ॥ १५० ॥
लकुचद्रावसंपिष्टैः शिलातालकगन्धकैः ।
वज्रं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ १५१ ॥
इति सर्वरत्नभस्मीकरणम् । अत्र कश्चिद्विशेषः—
रत्नादीनामलाभे तु ग्राह्यं तस्योपरत्नकम् ।
मौक्तिकस्याऽप्यभावे तु मुक्ताशुक्तिं प्रयोजयेत् ॥ १५२ ॥
अत्र गुरुचरणाः—
न हन्याद्धीरकादीनि नवरत्नानि बुद्धिमान् ।
महामौल्यानि तेषां तु वधे रौरवमृच्छति ॥ १५३ ॥
तर्हि ऋषिभिः कथं हननक्रियोक्तेति संदेहनिवृत्त्यर्थं परं-
परोपदेशप्राप्तं बीजमस्ति; तद्यथा—
वज्रादीनां तु संस्कारे क्रियमाणे पतन्ति ये ।
गात्रेभ्यः खण्डकाः स्वल्पास्तान् हन्याद्बुद्धिमान् भिषक् ॥
यद्वा तत्खनिजाता ये तज्जातीयाः सुलक्षणाः ।
स्वल्पमूल्यास्तु तेषां हि वधे नास्तीह पातकम् ॥ इति १५५
अन्यच्च—
गुणा यथैव रत्नानामुपरत्नेषु ते तथा ।
तेषु किंचित्ततो हीना विशेषोऽयमुदाहृतः ॥ १५६ ॥
अथोपरत्नेषु वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि ।
देव्या हते महादैत्ये महिषासुरसंज्ञके ।
तद्देहरुधिरोद्भूता विन्दवो यत्र यत्र हि ॥ १५७ ॥
पतिता विन्ध्यकाद्रेस्तु दक्षिणोत्तरतो रणे ।
वज्राकारास्तु ते जाता वैक्रान्ता इति विश्रुताः ॥ १५८ ॥