आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 206, कुल 232 में से
संदर्भ में पढ़ें१४.] आयुर्वेदप्रकाशः । १८७
अथ चतुर्दशोऽध्यायः ।
अथ विषोपविषलक्षणजातिगुणसेवापरिहाराध्यायं व्याख्यास्यामः।
अथ विषोत्पत्तिः—
शृणु देवि प्रवक्ष्यामि यत्रोत्पन्नं महाविषम् ।
भेदांस्तस्य वरारोहे यत्र तत्र सविस्तरम् ॥ १ ॥
देवदैत्योरगाः सिद्धा अप्सरोयक्षराक्षसाः ।
पिशाचाः किन्नराश्चैव मिलित्वा च वरानने ॥ २ ॥
एकतो बलिराजस्तु ब्रह्माद्याश्च तथैकतः ।
मन्थानं मन्दरं कृत्वा नागराजेन वेष्टितम् ॥ ३ ॥
क्षीराब्धिमन्थनं तत्र प्रारब्धं सुरसुन्दरि ।
सुधादीनि सुरत्नानि निर्गतानि ततः परम् ॥ ४ ॥
अतीव मन्थनाद्देवि मन्दराघातवेगतः ।
अहिराजश्रमादेव विषज्वाला विनिर्गता ॥ ५ ॥
ततोऽतिघोरा सा ज्वाला निमग्ना क्षीरसागरे ।
(तथा तत्रैव चोत्पन्नं कालकूटं महाविषम् ।
प्रलयानलसंकाशं क्रुद्धः काल इवोत्कटम् ॥)
तां दृष्ट्वा विबुधाः सर्वे दानवाश्च महावलाः ॥ ६ ॥
विषण्णवदनाः सद्यः प्राप्ताश्चैव मदन्तिकम् ।
ततस्तैः प्रार्थ्यमानोऽहमपिबं विषमुत्तमम् ॥ ७ ॥
ततोऽवशिष्टमभवन्मूलरूपेण तद्विषम् ।
पत्ररूपेण कुत्रापि मृत्तिकारूपतः क्वचित् ॥ ८ ॥
कन्दरूपेण कुत्रापि तेषां लक्षणमुच्यते ।
विषं तु गरलं क्ष्वेडं कालकूटं च नामतः ।
अष्टादशविधं ज्ञेयं विषं कन्दभवं बुधैः ॥ ९ ॥
तेष्वष्टौ सौम्यभेदाः स्युर्भक्षणाद्धन्ति मानवम् ।
दशोग्रभेदाः संस्पर्शादाघ्राणादपि मारकाः ॥ १० ॥