सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 205, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 205

ऐशानी, शेषस्य माणिक्यस्य, शेषा मध्या दिक्, कर्णिकायां
न्यसेदित्यर्थः । अथाशक्तस्य ग्रहप्रातिकूल्ये धारणदाने आह—
माणिक्यं द्युमणेर्बुधस्य गरुडोद्गारो गुरोः पुष्पकं
गोमेदं तमसः प्रवालमवनीसूनोर्विधौर्मौक्तिकम् ।
नीलं मन्दगतेः कवेस्तु कुलिशं केतोर्विडालाक्षकं
रत्नं रत्नविदो वदन्ति विहितं दानेऽथवा धारणे ॥ १७४
द्युमणेः सूर्यस्य, तमसः राहोः, अवनीसूनोर्मङ्गलस्य, मन्द-
गतेः शनैश्चरस्य, कवेः शुक्रस्य, विडालाक्षकं विदूरमणिः,
एषां प्रातिकूल्ये यथासंभवं दानं धारणं च कार्यम् । अथ
मुक्ताफलानां द्रुतिस्तथाऽन्येषामपि रत्नानां द्रुतिप्रकारमाह—
मुक्ताफलानि सप्ताहं वेतसाऽम्लेन भावयेत् ।
जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥ १७५ ॥
पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥ १७६ ॥
इति मुक्तादिरत्नद्रुतयः । अथ सौराष्ट्रीसत्त्वम्—
सिताऽसिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपञ्चकसंयुताम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं¹ कोष्ठयन्त्रके ॥ १७७ ॥
अथ सस्यकसत्त्वम्—
सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः ।
स्त्रीमूत्रे वाऽथ यामैकं तत्पादांशां निशां क्षिपेत् ॥ १७८ ॥
मर्द्य करञ्जतैलेन यामैकं गोलकं च तत् ।
अन्धमूषागतं ध्मातं घटिकार्धं दृढाग्निना ।
इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम् ॥ १७९ ॥
इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु-
र्वेदप्रकाशे त्रयोदशोऽध्यायः ॥ १३ ॥
१ ‘क्रामके’ ग. ।