सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 216, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 216

१४.] आयुर्वेदप्रकाशः । १९७
मन्त्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् ।
सप्तवाराभिजप्तं तु पाययेद्गतचेतनम् ॥ ९६ ॥
सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात् ।
त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥
मुखमध्ये तदा सेकाः कर्तव्यास्तज्जलस्य हि ।
अथवा मस्तके तस्य तर्जन्या ताडयेद्बुधः ।
त्रिवारं मन्त्रपूर्वं तु निर्विषो भवति क्षणात् ॥ ९८ ॥
अथ वृश्चिकविषहरणमन्त्रः—
ॐ कालो विंछु कर्तरीयालो सोनानी चाँच रूपानो
पन्नोरो विंछु उतरे तो उतारु न तो गरुडमो हंकारुं
आवेगो मोर खावेगो तोड विंछू विनरे तो हाक हलोला करे
मेरी भक्ति गुरुकी शक्ति फुरो मन्त्र ईश्वरोवाच ॥
मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया ।
मार्जयन्मन्त्रमुच्चार्य सप्तकृत्वा त्रिवारकम् ॥ ९९ ॥
सद्यो निर्विषतां कुर्यान्नरं वृश्चिकदंशितम् ।
बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥
अथापरो वृश्चिकविषहरो मन्त्रः—ॐ नमो पुनपुरो ॥
मार्जयन्मुखवातेन मन्त्रेणानेन मन्त्रवित् ।
तिस्रो रेखाः प्रकुर्यात्तु सरला भुवि चात्मनः ॥ १०१ ॥
सन्मुखास्तासु मन्त्रेण रेखैकां तिर्यगायताम् ।
प्रकुर्वन्निर्विषीकुर्यान्मन्त्रावृत्त्या मुहुर्मुहुः ॥ १०२ ॥
मुहुर्मुहुरिति २१ वारं; अनुभूतं मन्त्रद्वयमपि । अथोप-
विषाणि—
अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः ।
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥