सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 217, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 217

१९८ आयुर्वेदीयग्रन्थमाला । [अध्यायः
एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।
मुखं च जायते तस्य धातूंश्च ग्रसते क्षणात् ॥ १०४ ॥
अर्कसेहुण्डयोर्दुग्धमितराणां जटा भवेत् ।
रसः प्रयोज्यो योगेषु यद्वा पञ्चाङ्गजो रसः ॥ १०५ ॥
मतान्तरम् —
अर्कस्नुग्लाङ्गलीगुञ्जाहयारिविषमुष्टयः ।
आफेनोन्मत्तजेपाला नवोपविषजातयः ॥ १०६ ॥
भङ्गा तु अनिश्चितैव, मांसगणे अजावीवत् । अथोपविषशुद्धिः—
लाङ्गली शुद्धिमायाति दिनं गोमूत्रसंस्थिता ।
इति लाङ्गलीशुद्धिः ।
गुञ्जा काञ्जिकसंस्विन्ना प्रहरं शुद्धिम्ऋच्छति ।
इति गुञ्जाशुद्धिः ।
किंचिदाज्येन संभृष्टो विषमुष्टिर्विशुध्यति ॥ १०७ ॥
इति विषमुष्टिशुद्धिः ।
जेपालं रहितं त्वगङ्कुररसज्ञाभिर्मले माहिषे
निक्षिप्तं त्र्यहमुष्णतोयविमलं खल्वे स वासादितम् ।
लिप्तं नूतनखर्परेषु विगतस्नेहं रजःसंनिभं
निम्बूकाम्बुविभावितं च बहुशः शुद्धं गुणाढ्यं भवेत् ॥
इति जेपालशुद्धिः ।
धत्तूरबीजं गोमूत्रे चतुर्यामोषितं पुनः ।
कण्डितं निस्तुषं कृत्वा शुद्धं योगेषु योजयेत् ॥ १०९ ॥
इति धत्तूरबीजशुद्धिः ।
अहिफेनं शृङ्गवेररसैर्भाव्यं त्रिसप्तधा ।
शुद्ध्यत्युक्तेषु योगेषु योजयेत्तद्विधानतः ॥ ११० ॥
इत्यहिफेनशुद्धिः ।
१ यदाह चरकः,—“योनावजाविके मिश्रगोचरत्वादनिश्चिते”—इति ।