सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 212, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 212

१४.] आयुर्वेदप्रकाशः । १९३
समटङ्कणसंपिष्टं तद्विषं मृतमुच्यते ।
योजयेत्सर्वरोगेषु न विकारं करोति च ॥ ५७ ॥
अन्यमतम्—
तुल्येन टङ्कणेनैव द्विगुणेनोपणेन च ।
विषं संयोजितं शुद्धं मृतं भवति सर्वथा ॥ ५८ ॥
इति विषकल्पार्थं विषमारणम् । अथ विषसेवा—
नानारसौषधैर्यै तु दुष्टा यान्तीह नो गदाः ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः ॥ ५९ ॥
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् ।
हेमन्तशिशिरर्तौ तु विधिना मात्रयाऽर्पयेत् ॥ ६० ॥
चतुर्मासैर्हरेद्रोगान् कुष्ठलूतादिकानपि ।
अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ॥ ६१ ॥
विषं तस्मै न दातव्यं दत्तं चेद्रोगकारकम् ।
दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ॥ ६२ ॥
क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ।
ब्रह्मचर्यप्रधानं हि विषकल्पं समाचरेत् ।
पथ्यैः स्वस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥ ६३ ॥
अथ विषानधिकारिणः—
न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।
क्षुत्तृष्णाश्रमकर्माध्वसेविनि क्षयरोगिणि ॥ ६४ ॥
गर्भिण्यां बालवृद्धेषु न विषं राजमन्दिरे ।
न दातव्यं न भोक्तव्यं विषं वादे कदाचन ॥ ६५ ॥
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ।
विषं शुद्धं हि तदपि मात्रया नान्यथा भजेत् ॥ ६६ ॥
सर्वरोगोपशमनं दृष्टिपुष्टिकरं विषम् ।
विधिना मात्रया काले भवेत्पथ्याशिनां नृणाम् ॥ ६७ ॥
१७