आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 218, कुल 232 में से
संदर्भ में पढ़ें१४.] आयुर्वेदप्रकाशः । १९९
बब्बूलत्वक्कषायेण भङ्गां संस्वेद्य शोषयेत् ।
गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥
इति भङ्गाशुद्धिः ।
अथ विषतैलम्—
गृह्णीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् ।
तैलं तेन रसो मर्द्यः श्रुत्कारी स महान्भवेत् ॥ ११२ ॥
एवं धत्तूरबीजादेस्तैलं ग्राह्यं विधानतः ।
योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥
अथ विषवज्रपातः—
रङ्गं विषं टङ्कणमूर्षणं च तुत्थं समांशं कुरु देवदाल्याः ।
रसेन पिष्टो विषवज्रपातो रसो भवेत्सर्वविषैकहन्ता ॥ ११४॥
निष्कोऽस्य संजीवयति प्रयुक्तो नृमूत्रयोगेन च सर्वथैव ।
जटाविषेणाकुलितं तथाऽन्यैर्दुष्टैर्विषैर्घूर्णितमातुरं च ॥ ११५ ॥
रङ्गं वङ्गभस्म । इति विषवज्रपातो रसः । अथ लवणभेदी
सुधानिधिः—
पिष्टं पांशुपटुप्रगाढममलं वज्र्यम्बुना चैकशः
सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्निं हठा-
च्छुभ्रं ग्राह्यमथेन्दुकुन्दधवलं भस्मोपरिस्थं शनैः॥११६॥
तद्वल्लद्वितयं लवङ्गसहितं प्रातः प्रयुक्तं च यै-
रूर्ध्वं रेचयति त्रियाममसकृत्पेयं जलं शीतलम् ।
एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं
शैलोत्थं गरलं मृगेन्द्रकुटिलोद्भूतं च तात्कालिकम् ॥
पांशुपटु खारीलवणम् । वज्र्यम्बुना वज्रीदुग्धेन, चैकशः
सूतं च पिष्टम् । मृगेन्द्रकुटिलोद्भूतं सिंहश्मश्रुभक्षणजनि-