आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 207, कुल 232 में से
संदर्भ में पढ़ें१८८ आयुर्वेदीयग्रन्थमाला । [अध्यायः
यथा—
सक्तुको मुस्तकः कौर्मो दार्वीकः सार्पपस्तथा ।
सैकतो वत्सनाभश्च श्वेतशृङ्गी तथैव च ॥ ११ ॥
एतानि भेषज्यकृते विषाण्यष्टौ समाहरेत् ।
जराव्याधिहराणि स्युर्विधिना शीलितानि हि ॥ १२ ॥
लक्षणानि—
चित्रमुत्पलकन्दाभं सुपेष्यं सक्तुवद्भवेत् ।
सक्तुकं तं विजानीयाद्दीर्घवेगं महोत्कटम् ॥ १३ ॥
ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।
कूर्माकृति भवेत्कौर्मं दार्वीकं हि फणाकृति ॥ १४ ॥
ज्वरहत्सार्पपं रोमि सर्षपाभकणान्वितम् ।
स्थूलसूक्ष्मकणैर्युक्तः श्वेतपीतैर्विरोमकः ॥ १५ ॥
ज्वरादिसर्वरोगघ्नः कन्दः सैकत उच्यते ।
यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ॥ १६ ॥
न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ।
आशुकारी लघुस्त्यागी शुक्लः कृष्णोऽन्यथा भवेत् ॥ १७ ॥
प्रयोज्यो रोगहरणे जारणायां रसायने ।
गोशृङ्गवद्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥ १८ ॥
एतानि सक्तुकादीनि वातरक्ते त्रिदोषके ।
मोहोन्मादापस्मृतिषु कुष्ठेषु च नियोजयेत् ॥ १९ ॥
वातरक्ते वातप्रधानरोगे रक्तप्रधानरोगे उभयप्रधानरोगे
वा इति तत्त्वार्थः । अथ वर्ज्यानि—
कालकूटस्तथा मेषशृङ्गी दर्दुरकस्तथा ।
हालाहलश्च कर्कोटो ग्रन्थिर्हारिद्रकस्तथा ॥ २० ॥
१ 'दीर्घरोगं' ग. । २ 'सर्षपाभकणाकृति' ग. ।