सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 209, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 209

१९० आयुर्वेदग्रन्थमाला । [अध्यायः
कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् ।
शुष्कार्द्रवत्सकिञ्जल्कं मध्ये तत्केसरं विदुः ॥ ३२ ॥
श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ।
रसायने धातुवादे विषवादे क्वचित्क्वचित् ।
दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥ ३३ ॥
अथ कैश्चिन्नव भेदा उक्तास्ते यथा—
वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः ।
सौराष्ट्रिकः शृङ्गिकश्च कालकूटस्तथैव च ॥ ३४ ॥
हालाहलो ब्रह्मपुत्रो विषभेदा अमी नव ।
पलाशपत्रवत्पत्रैस्तद्वीजसदृशैः फलैः ॥ ३५ ॥
स्थूलः कन्दो भवेत्तस्य प्रभावस्तु महान् स्मृतः ।
सिन्दुवारसदृक्पत्रो वत्सनाभ्याकृतिस्तथा ॥ ३६ ॥
यत्पार्श्वे न तरोर्वृद्धिर्वत्सनाभः स भाषितः ।
वर्णतो लोहितो यः स्याद्वर्हिमान् दहनप्रभः ॥ ३७ ॥
महादाहकरो घ्राणात्कथितः स प्रदीपनः ।
वर्णतः कपिलो यत्स्यात्तथा भवति सारकः ।
ब्रह्मपुत्रः स विज्ञेयो जायते मलयाचले ॥ ३८ ॥
शेषाः पूर्वमुक्ता एव । अथैषामुत्पत्तिस्थानानि—वत्सनाभः
पर्वतक्षोणीषूत्पद्यते, हारिद्रो हरिद्राकक्षेषु, सक्तुकः पर्वतदेशे,
प्रदीपनः समकक्षेषु, सौराष्ट्रिकः सुराष्ट्रदेशे, शृङ्गिकः कपि-
लेषु नदीकक्षेषु, कालकूटोऽहिच्छत्रादौ, हालाहलः किष्कि-
न्धादौ, ब्रह्मपुत्रैः ब्रह्मनाम कश्चन पर्वतप्रदेशस्तस्य कक्षेषु ॥
अथैषां वर्णाः—
ब्राह्मणं पाण्डुरविषं क्षत्रियं रक्तवर्णकम् ।
वैश्यं पीतप्रभं शूद्रं कृष्णवर्णं विनिन्दितम् ॥ ३९ ॥