आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
DevanagariHindipublished232 पृष्ठ
पृष्ठ 219, कुल 232 में से
संदर्भ में पढ़ेंपृष्ठ 219
२०० आयुर्वेदीयग्रन्थमाला । [अध्यायः
तम् । रसकर्पूरवदस्य प्रक्रिया । इति सकलविषघ्नो लवणभेदी
सुधानिधिरसः ॥
अथ क्षारकल्पना—
क्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् ।
नीत्वा तद्भस्म मृत्पात्रे क्षिप्त्वा नीरे चतुर्गुणे ॥ ११८ ॥
विमर्द्य धारयेद्रात्रौ प्रातरच्छं जलं नयेत् ।
तन्नीरं क्वाथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ ११९ ॥
ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः ।
चूर्णाभः प्रतिसार्यः स्यात् पेयः स्यात्क्वाथवत्स्थितः ।
इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ १२० ॥
इति क्षारकल्पना ।
इत्यायुर्वेदप्रकाशे श्रीमदुपाध्यायसारस्वतकुलावतंसकाशीनिवासिश्रीमाधव-
विरचिते विषोपविषादिसाधनाध्यायः समाप्तः ॥
समाप्तोऽयमायुर्वेदप्रकाशः ।