आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
१०. ] आयुर्वेदप्रकाशः । १०३
पादोननिष्कमभारा च कनिष्ठा परिकीर्तिता ।
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः ॥ ६ ॥
इति शोधनम् ॥
अङ्गाराग्नौ स्थिता ध्माता सम्यक्प्रोत्फुल्लिता यदा ।
स्वाङ्गशीता मृता सा तु पिष्ट्वा सम्यक् प्रयोजयेत् ॥ ७ ॥
इति भस्म ॥
कपर्दिका हिमा नेत्रहिता स्फोटक्षयापहा ।
कर्णस्रावाग्निमान्द्यघ्नी पित्तास्रकफनाशिनी ॥ ८ ॥
अन्यत्र—
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥ ९ ॥
अथ सिकता ।
'वालु' इति भाषा ॥
वालुका सिकता प्रोक्ता शर्करा रेतिकाऽपि च ।
वालुका मधुरा शीता संतापश्रमनाशिनी ॥ १० ॥
स्वेदप्रयोगतश्चैव शाखाशैत्यानिलापहा ।
तद्वच्च लेखनी प्रोक्ता व्रणोरःक्षतनाशिनी ॥ ११ ॥
शर्कराभ्यश्चुम्बकेन केचिद्गृह्णन्त्ययोरजः ।
सुकरं त्विदमाख्यातं तच्च संशोध्य मारयेत् ॥ १२ ॥
इति सिकतालोहरजोग्रहणप्रकारः ॥
अथ बोलस्य नामलक्षणगुणाः ।
बोलगन्धरसप्राणपिण्डगोपरसाः समाः ।
बोलं तु त्रिविधं प्रोक्तं रक्तं श्यामं मनुष्यजम् ॥ १३ ॥
गुणाः—
बोलं रक्तहरं शीतं मेध्यं दीपनपाचनम् ।
मधुरं कटुकं तिक्तं ग्रहखेदत्रिदोषनुत् ॥ १४ ॥
१०४ आयुर्वेदीयग्रन्थमाला । [अध्यायः
जरापस्मारकुष्ठघ्नं गर्भाशयविशोधनम् ।
चक्षुष्यं च सरं प्रोक्तं रक्तबोलं भिषग्वरैः ॥ १५ ॥
इति रक्तबोलम् ॥
श्यामबोलं तीक्ष्णगन्धं दद्रुकण्डूविषापहम् ।
कुष्ठापस्मारब्रध्नाशोरक्तग्रन्थिं च नाशयेत् ॥ १६ ॥
इति श्यामबोलम् ॥
अथ तृतीयं श्यामबोलम् ।—
अपरं मानुषं बोलं सद्योव्रणविषापहम् ।
भग्नास्थिसन्धिजननं त्रिदोषशमनं हिमम् ॥ १७ ॥
धातुकान्तिवयःस्थैर्यवलौजोवृद्धिकारकम् ।
प्रमेहकुष्ठपिटिकासर्वव्रणविषापहम् ॥ १८ ॥
इति मोमियाई ॥
अथ कङ्कुष्ठोत्पत्तिनामलक्षणगुणाः ।
हिमाचलैकदेशे तु कङ्कुष्ठमुपजायते ।
तत्रैकं नलिकाख्यं स्यादन्यद्रेणुकनामकम् ॥ १९ ॥
पीतप्रभं गुरु स्निग्धं कङ्कुष्ठं शिलया समम् ।
मृद्वतीव शलाकाभं सच्छिद्रं नलिकाभिधम् ॥ २० ॥
रेणुकाख्यं तु कङ्कुष्ठं श्यामपीतरजोन्वितम् ।
त्यक्तसत्त्वं लघु प्रायः पूर्वस्माद्धीनवीर्यकम् ॥ २१ ॥
अथ नामानि—
कङ्कुष्ठं काककुष्ठं च वराङ्गं कोलवालुकम् ।
अत्र केचित् ।—
सद्योजातस्य करिणः शकृत्कङ्कुष्ठमुच्यते ।
यद्वा सद्यः प्रसूतस्य वाजिवालस्य विट् स्मृतम् ॥ २२ ॥
१०. ] आयुर्वेदप्रकाशः । १०५
नालं वा वाजिवालस्येत्येवं कङ्कुष्ठके भ्रमः ।
शुण्ठ्यम्बुभावितं शुद्धिं कङ्कुष्ठमुपगच्छति ॥ २३ ॥
अथ कङ्कुष्ठगुणाः ।—
कङ्कुष्ठं रेचनं तिक्तं कटूष्णं वर्णकारकम् ।
कृमिशोषोदराध्मानगुल्मानाहकफापहम् ॥ २४ ॥
अन्यच्च—
बब्बूलमूलिकाक्वाथजीरसौभाग्यटङ्कणम् ।
कङ्कुष्ठविपनाशाय भूयो भूयः पिबेन्नरः ॥ २५ ॥
अथ सौराष्ट्री ।
'सोरठीमाती' इति भाषा ॥
सौराष्ट्री तुवरी काङ्क्षी मृत्तालकसुराष्ट्रजे ।
आढकी सापि च ख्याता मृत्स्ना च सुरमृत्तिका ॥ २६ ॥
स्फटिकाया गुणाः सर्वे सौराष्ट्रयामपि कीर्तिताः ।
तस्मात्परस्पराभावे प्रयोज्याऽन्यतरा बुधैः ॥ २७ ॥
अथान्येऽप्युपरसाः सन्ति यथा—
अथ समुद्रफेननामगुणशोधनम् ।
अब्धिफेनोऽब्धिसारः स्यादब्धिजश्च समुद्रजः ।
समुद्रफेनश्चक्षुष्यो लेखनः शीतलः सरः ॥ २८ ॥
कर्णस्रावरुजागूत्थहरः पाचनदीपनः ।
अशुद्धः स करोत्यङ्गभङ्गं तस्माद्विशोधयेत् ।
समुद्रफेनः संपिष्टो निम्बुतोयेन शुध्यति ॥ २९ ॥
इति समुद्रफेनः ॥
अथ क्षुद्रशङ्खः ।
'क्षुद्रशंखः' 'घोंघा' इति भाषा । तन्नामगुणाः—
क्षुद्रशङ्खाः शङ्खनकाः शम्बूका जलशुक्तयः ।
शम्बूकः शीतलो नेत्ररुजास्फोटविनाशनः ॥ ३० ॥
१०६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
शीतज्वरहरस्तीक्ष्णो ग्राही दीपनपाचनः ।
ग्रहणीरोगहन्ता च रक्तातीसारनाशनः ॥ ३१ ॥
अस्य शुद्धिस्तु महाशङ्खवद्बोध्या ॥ २ ॥
अथ शुक्तिः ।
'शिंपी' 'छिप' इति भाषा । तन्नामानि यथा राजनिघण्टौ—
शुक्तिर्मुक्ताप्रसूर्श्चैव महाशुक्तिश्च शुक्तिका ॥
मुक्तास्फोटोऽब्धिमण्डूकीमौक्तिकप्रसवा च सा ।
ज्ञेया मौक्तिकसूर्मुक्तामाता मौक्तिकमन्दिरम् ॥ ३२ ॥
अथ गुणाः—
मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी ।
शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ ३३ ॥
जलशुक्तिकानामानि—
जलशुक्तिर्वारिशुक्तिः कृमिभूः क्षुद्रशुक्तिका ।
जम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ ३४ ॥
अथ गुणाः—
जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ।
विषदोषहरा रुच्या पाचनी बलदायिनी ॥ ३५ ॥
अनयोः शोधनं गुणाश्च—
शुक्तिस्तु शिशिरा पित्तरक्तज्वरविनाशिनी ।
शोधनं शङ्खवत्तस्य मृतिः प्रोक्ता कपर्दवत् ॥ ३६ ॥
अथ कृष्णमृत्तिकानामगुणाः ।
'कालीमाटी' इति भाषा ।
मृन्मृत्तिका प्रशस्ता तु मृत्स्ना मृत्सा च मृत्तिका ।
कृष्णमृत्क्षतदाहास्रप्रदरश्लेष्मपित्तनुत् ॥ ३७ ॥
अथ पङ्कः ।
'काद्व' इति भाषा । तन्नामगुणाः—
[पार्श्वे हस्तलिखितम्: चरके] पङ्कः कर्दम इत्युक्तो जम्बालः पङ्किलस्तथा ।
पङ्को दाहास्रपित्तार्तिशोफघ्नः शीतलः सरः ॥ ३८ ॥
text page line by line... faithfully".
So transcribe what is printed!
Wait, is it द्द?
Let's look at किट्टवद्भवेत् in line 22:
Look at द्भ: द with भ attached.
Look at कम्पिल्लस्तस्य in line 4.
Look at इष्टकापाकद्दहने: yes, it is द्द!
Wait, could it be इष्टकापाकद्दहने? Yes, it looks like इष्टकापाकद्दहने.
- Now let's check line 22:
मनुष्यसूकराणां च विष्ठान्तः किट्टवद्भवेत् ।
Wait, look atविष्ठान्तःvsविष्ठातः:
Let's zoom intoविष्ठातः:
वि
ष्ठा
Then what?
Is itतः?
Wait, look at the stroke betweenष्ठाandतः:
There is a vertical stem with a loop to the left: that'sन्!
Thenतः!
Wait,न्+तः=न्तः!
Yes, it clearly saysविष्ठान्तः!
Wait,विष्ठान्तः किट्टवद्भवेत्- "inside the feces of humans and
१०८ आयुर्वीदीयग्रन्थमाला। [अध्यायः
अथाग्निजार इति क्षारविशेषः।
अब्धितीरेऽग्निनक्रस्य जरायुः शुष्कतां गतः।
अग्निजारस्तु संप्रोक्तः स क्षारो जारणे हितः ॥ ४७ ॥
अथ गिरिसिन्दूरम्।
गिरिसिन्दूरकं यत्तु गिरौ पाषाणजं भवेत्।
किंचिद्धिङ्गुलतुल्याभं रसबन्धे हितं मतम्।
धातुवादेऽपि तत्पूज्यं नेत्ररोगघ्नमीरितम् ॥ ४८ ॥
अथ बोदारशृङ्गम्।
‘मुद्दारशिंगी’ इति भाषा ॥
बोदारशृङ्गकं प्रोक्तं द्विविधं पीतपाण्डुरम्।
सदलं निर्दलं तस्य जनिर्गूर्जरमण्डले ॥ ४९ ॥
अर्बुदाख्यगिरेः पार्श्वे सीससत्त्वसमं परम्।
केश्यं पुरुषरोगघ्नं रञ्जनं रसबन्धकम् ॥ ५० ॥
उक्तं च।—
कम्पिल्लश्चपलो गौरीपाषाणो नवसादरः।
वह्निजारोऽथ सिन्दूरं साधारणरसाः स्मृताः ॥ ५१ ॥
अथैषां शोधनम्।—
साधारणरसाः सर्वे मातुलुङ्गार्द्रकाम्बुना।
त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः ॥ ५२ ॥
महारसः स एव स्याद्गन्धाद्युपरसाः स्मृताः।
गन्धको वज्रवैक्रान्तौ सिन्दूरं बोलगैरिकम् ॥ ५३ ॥
समुद्रफेनः खटिकाद्वयं शम्बूकतार्क्ष्यजौ।
कासीसं कान्तपाषाणो वराटी शुक्तिहिङ्गुलाः ॥ ५४ ॥
कङ्कुष्ठं शङ्खभूनागौ टङ्कणं च शिलाजतु।
उक्ता उपरसा एते द्रव्यनिर्णयकारिभिः ॥ ५५ ॥
'? No, it has:
द ् र व ्य ा न् त र - wait! Look at the letter after 'ा':
It is 'न' with a reph? No, it's 'न्र्'?
Wait, look at it:
न् + त = न्त!
Wait, above 'त' there is an anusvara?
No, look at: द्र - व्या - न्त - र - स - यो - ग - जाः
Wait, between 'व्या' and 'त', there is:
A letter: look at the top:
It has a reph? No, there is:
न् + त = न्त. But wait! There is a diagonal stroke across the stem?
Wait, let's look at "द्रव्यान्तरसंयोगजाः":
Is there an anusvara on 'सं'?
Wait! Look at: "सयोगजाः" - does 'स' have an anusvara?
No! There is NO dot above 'स'! It is clearly 'सयोगजाः'!
Wait, what about the word before it?
Let's look at the letters:
द् - र - व् - य - ा -
then:
न्र्त?
Wait, look at that cluster:
It has 'न', under which there is a virama or reph? No, it looks like:
न् + र + त ? Or is it just a damaged type of 'न्तर'?
Wait! Look at the letter:
It's 'न्'
११० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
कन्दर्पदर्पविध्वस्तचेतसो जातवेदसः ।
पतितं यद्धरापृष्ठे रेतस्तद्धेमतामगात् ॥ ७ ॥
कृत्रिमं चापि भवति तद्रसेन्द्रस्य वेधतः ।
मेरुसानुपतज्जम्बूफलाम्भोयोगतः परम् ॥ ८ ॥
दिव्यौषधिमणिसस्पर्शादन्यद्भवति काञ्चनम् ।
एवं नानाविधानीह जायन्ते काञ्चनानि वै ॥ ९ ॥
उक्तं च—
सुवर्णं पञ्चधा ख्यातं प्राकृतं सहजं परम् ।
वह्निजं खनिजं तद्वद्रसेन्द्रवेधसंभवम् ॥ १० ॥
ब्रह्माण्डं संवृतं येन प्रकृत्या प्राकृतं च तत् ।
ब्रह्मा येन सहोत्पन्नः सहजं हेम तत्स्मृतम् ॥ ११ ॥
वह्निजं तु समाख्यातमेतानि दुर्लभानि हि ।
मनु(१४)वर्णं लोकसिद्धं प्रायशः खनिजं हि यत् ॥ १२ ॥
तत्स्वर्णं मारणार्थं तु ग्राह्यं लक्षणलक्षितम् ।
वर्णमृत्तिकया लिप्त्वा मुनिशो ध्मापितं वसु ।
विशुध्यति वरं किंचिद्वर्णवृद्धिश्च जायते ॥ १३ ॥
यया कुम्भकाराः भाण्डानि रञ्जयित्वा पाचयन्ति सा
वर्णमृत्तिकेत्युच्यते, ‘कावीस’ इति भाषा । मतान्तरम्—
वल्मीकमृत्तिका धूमं गैरिकं चेष्टिका पडु ।
इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥ १४ ॥
पिष्ट्वा कण्टकवेध्यानि स्वर्णपत्राणि लेपयेत् ।
पुटेत्पृथुहसन्त्यां तु निर्वात विंशदुत्पलैः ॥ १५ ॥
अधिकैर्वाऽधिके हेम्नि यावद्वर्णो विवर्धते ।
इत्येवं पुटनैर्युक्त्या सम्यक् शुध्यति काञ्चनम् ॥ १६ ॥
१ मुनिशः सप्तवारम् ।
११.] आयुर्वेदप्रकाशः । १११
मतान्तरम् ।—
मृत्तिकाः पञ्च लुङ्गाम्लैः पञ्चवासरभाविताः ।
सभस्मलवर्णा हेम्नः शोधन्यः पुटपाकतः ॥ १७ ॥
अन्यच्च—
सुवर्णमुत्तमं वह्नौ विद्रुतं निक्षिपेत्त्रिशः ।
काञ्चनाररसे शुद्धं काञ्चनं जायते भृशम् ॥ १८ ॥
इति स्वर्णशोधनम् । अत्र केचित् ।—
इयमेव सुवर्णस्य शुद्धिर्नान्या हि विद्यते ।
तैले तक्रादिके या तु रूप्यादीनामुदाहृता ॥ १९ ॥।
अथ स्वर्णनामानि—
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ।
तपनीयं कलधौतं गाङ्गेयं भर्म काञ्चनम् ॥ २० ॥
चामीकरं शातकुम्भं तथा कार्तस्वरं च तत् ।
जाम्बूनदं जातरूपं महारजतमित्यपि ॥ २१ ॥
अथ सदसत्सुवर्णलक्षणम्—
दाहे रक्तं सितं छेदे निकषे कुङ्कुमप्रभम् ।
तारशुल्बोज्झितं स्निग्धं कोमलं गुरु हेम सत् ॥ २२ ॥
यच्छ्वेतं कठिनं रूक्षं विवर्णं समलं दलम् ॥
दाहे छेदे सितं, श्वेतं कषे त्याज्यं लघु स्फुटम् ॥ २३ ॥
दलं नाम यद्धनाहतं स्फुटति । अथ स्वर्णगुणाः—
स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं
शीतं स्वादु रसायनं च रुचिकृच्चक्षुष्यमायुष्यदम् ।
प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः
संधत्ते दुरितक्षयं श्रियमिदं धत्ते नृणां धारणात् ॥२४॥
दाहेऽतिरक्तमथ यत्ससितं छिदायां
काश्मीरकान्ति च विभाति निकाषपट्टे ।
३. तृतीय अध्याय: शुद्ध धातु वर्ग (स्वर्ण, रजत, ताम्र, लोह, वंग, यशद) भस्म निर्माण
११२ आयुर्वेदीयग्रन्थमाला। [अध्यायः
स्निग्धं च गौरवमुपैति च यत्तुलायां
ग्राह्यं तदेव कनकं मृदु रक्तपीतम् ॥ २५ ॥
अन्यच्च—
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् ।
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ २६ ॥
पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् ।
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ॥ २७ ॥
विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित् ।
अपकमेव संशुद्धं, पक्वं तत्त रसायनम् ॥ २८ ॥
अत्र पकापकप्रयोगविवेको रसपद्धत्याम्।—
पक्वं हेम रसायनं विदुरथापकं तु सद्योविष-
प्रध्वंसि क्षयिबृंहणं कृमिहरं वर्ण्यं ज्वरिभ्यो हितम् ।
रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण-
स्ताम्रं चापि विपातिहिन्निगदितं वैद्यैरपरकं ध्रुवम् ॥२९॥
दृश्यते च वाग्भटे—
विषमुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा ।
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ३० ॥
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ३१ ॥
अथापकसुवर्णसेवने प्रकारद्वयमुक्तं तन्त्रान्तरे; तद्यथा—
अपकं हेम संघृष्टं शिलायां जलयोगतः ।
द्रवरूपं तु तत्पेयं मधुना गुणदायकम् ॥ ३२ ॥
यद्वाऽपि तबका(वरका)ख्यं तु स्वर्णपत्रं विचूर्णितम् ।
मधुना संगृहीतं चेत्सद्यो हन्ति विषादिकम् ॥ ३३ ॥
इत्यादि ज्ञेयम् ॥
११. ] । आयुर्वेदप्रकाशः । ११३
अन्यच्च गुणविशेषादिकमाह—
सर्वौषधिप्रयोगेण व्याधयो न गता हि ये ।
कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ३४ ॥
शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा ।
अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ३५ ॥
अथानुपानमाह—
मध्वामलकचूर्णं तु सुवर्णं चेति तन्त्रयम् ।
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंकटात् ॥ ३६ ॥
मेधाकामस्तु वचया श्रीकामः पद्मकेसरैः ।
शङ्खपुष्प्या वयोर्थी च विदार्या च प्रजार्थकः ॥ ३७ ॥
अथाशुद्धस्यासम्यङ्मारितस्य गुणाः—
बलं च वीर्यं हरते नराणां रोगव्रजं पोषयतीह काये ।
असौख्यकार्यैव सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात्॥३८
असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् ।
करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ ३९ ॥
अथ स्वर्णादीनां मात्राकथनम् ।—
यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं, रविः ।
तारं तद्विगुणं, लोहमन्यत्तु त्रिगुणाधिकम् ॥ ४० ॥
गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः ।
तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥
अथ स्वर्णादिमारणे कियती परिभाषोच्यते; उक्तं च—
रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ४२ ॥
लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ४३ ॥
११४ आयुर्वेदियग्रन्थमाला । [ अध्यायः
अरिलोहेन लोहस्य मारणं दुर्गुणप्रदम् ।
रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥ ४४ ॥
नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ।
पुटनात् स्याल्लघुत्वं च शीघ्रव्याप्तिश्च¹ दीपनम् ।
जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ॥ ४५ ॥
अन्यच्च—
स्वर्णरूप्यवधे ज्ञेयं पुटं कुक्कुटकादिकम् ।
ताम्रे काष्ठादिजो वह्निर्लोहे गजपुटानि च ॥ ४६ ॥
अथ स्वर्णादिधातूनां लोहत्वेन व्यवहार इत्याह रसपद्ध-
त्तिकारः—
रुक्मं रूप्यमयांसि शुल्बमुरगं वङ्गं घनं वर्तकं
घोषं लोहमिदं त्रयं च चरमं नाम्नोपलोहं जगुः ।
अथैषां शोधनमाह—
तक्रे काञ्जिकमूत्रयोस्तिलभवे तैले कुलित्थाम्भसि
स्याच्छुद्धं परिवर्त्य लोहमखिलं त्रिःसप्तधा वापितम् ॥
अथ व्याख्या—रुक्मं सुवर्णं, रूप्यं रजतं, अयांसि कान्त-
तीक्ष्णमुण्डाख्यानि, भेदाभिप्रायेण बहुवचनं, शुल्बं ताम्रं,
उरगं सीसं, वङ्गं त्रपु, घनं कांस्यं, वर्तकं पित्तलजातिभेदः,
घोषं पञ्चरसं, इदमखिलं लोहं; तत्र रुक्मादिषट्कं मुख्यं लोहं,
अन्यत्त्रयं घनादि तूपलोहं जगुः रसज्ञा इत्यर्थः । परिवर्त्य
द्रवीकृत्य । त्रिःसप्तधा एकविंशतिवारम् । अखिलं स्वर्णादि
घोषान्तम् । मतान्तरम्—
सुवर्णरूप्यताम्रायःपत्राण्यग्नौ प्रतापयेत् ।
कृत्वा कण्टकवेधीनि दृष्ट्वा वह्निसमानि च ॥ ४८ ॥
१ 'शीघ्रं व्याधेश्च नाशनम्' ग. ।
११.] आयुर्वेदप्रकाशः । ११५
निषिञ्चेत्तप्ततप्तानि तैले तक्रे गवां जले ।
काञ्जिके च कुलित्थानां कपाये सप्तधा पृथक् ॥ ४९ ॥
एवं स्वर्णादिलोहानां विशुद्धिः संप्रजायते ।
तीक्ष्णादिलोहकिट्टं तु संशोध्यं लोहवद्बुधैः ॥ ५० ॥
अथ नागवङ्गयोर्विशेषमाह—
नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् ।
सच्छिद्रश्रावपिहिते हण्डिकास्थे द्रवे शनैः ।
सप्तधैवं विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ५१ ॥
अन्यमतम्—
सर्वलोहानि तप्तानि कदलीमूलवारिणि ।
सप्तधाऽभिनिषिक्तानि शुद्धिमायान्त्यथोत्तमम् ॥ ५२ ॥
अथ स्वर्णमारणम्—
सिद्धलक्ष्मीश्वरोक्तप्रक्रियाकुशलो भिषक् ।
लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्त धातवः ।
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ५४ ॥
इति सर्वधातुमारणं सामान्येन ॥
स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् ।
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ ५५ ॥
चूर्णीकृतं ततो रुद्ध्वा शरावद्वयसंपुटे ।
सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ॥ ५६ ॥
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ५७ ॥
इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम्—
शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥
११६ आयुर्वेदीयग्रन्थमाला । [अध्यायः
त्रिंशद्वनोपलैर्देयाः पुटा ह्येवं चतुर्दश ।
निरुत्थं हेमभस्म स्याद्गन्धो देयः पुनः पुनः ॥ ५९ ॥
अत्रानुक्तमपि ज्ञेयं गोलकीकरणे बुधैः ।
जम्बीरद्रवदानं तु सर्वत्रैवं विनिश्चयः ॥ ६० ॥
इति सरसं हेमभस्म । अथान्यः प्रकारः—
सुवर्णेऽग्नौ द्रुते सूतं दद्यात्सीसं कलांशकम् ।
अम्लेन मर्दयेत्तत्तु चूर्णयित्वा शनैः शनैः ॥ ६१ ॥
पश्चात्तद्गोलकं कृत्वा तुल्यगन्धरजोगतम् ।
शरावसंपुटे स्थाप्यं संधिरोधं विधाय च ॥ ६२ ॥
त्रिंशद्वनोपलैः पच्यात्सप्तधैवं पुनः पुनः ।
अम्लेन गोलकं कृत्वा पचेत्स्वर्णमृतिर्भवेत् ॥ ६३ ॥
अथान्यः प्रकारः—
रसस्य भस्मना वाऽथ रसेनालेप्य वै दलम् ।
हिङ्गुहिङ्गुलसिन्दूरशिलासाम्येन मेलयेत् ॥ ६४ ॥
संमर्द्य काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् ।
तं भाण्डस्य तले दत्त्वा भस्मना पूरयेद्दृढम् ॥ ६५ ॥
अग्निं प्रज्वालयेद्गाढं द्युर्निशं स्वाङ्गशीतलम् ।
उद्धृत्य सावशेषं चेत्पुनर्देयं पुटद्वयम् ।
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६६ ॥
इति हेमभस्म ॥
अथान्यप्रकारः—
काञ्चनाररसैर्घृष्ट्वा समसूतकगन्धयोः ।
कज्जलीं हेमपत्राणि लेपयेत्समया तया ॥ ६७ ॥
काञ्चनाररजःकल्केर्मूषायुग्मं प्रकल्पयेत् ।
धृत्वा तत्संपुटे गोलं मृन्मूषासंपुटे ततः ॥ ६८ ॥
CCO, Gurukul Kangri Collection, Haridwar, Digitized by eGangotri
११०] आयुर्वेदप्रकाशः । ११७
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् ।
वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम् ।
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६९ ॥
इति हेमभस्म ॥
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् ।
ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला ॥ ७० ॥
लाङ्गली कलिहारी । इति हेमभस्म ॥
शिलासिन्दूरयोश्चूर्णं समयोर्कदुग्धकैः ।
सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ॥ ७१ ॥
ततस्तु गालिते हेम्नि कल्कोऽयं दीयते समः ।
पुनर्धमेतितरां यथा कल्को विलीयते ॥ ७२ ॥
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ।
इति रसवर्जं हेमभस्म । अथ स्वर्णभस्मपरीक्षा—
जाम्बवाभं सुवर्णस्य भस्म प्राहुर्भिषग्वराः ॥ ७३ ॥
अथ सुवर्णद्रुतिः ।—
चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः ।
भावितं सदृशं हेम करोति जलवद्द्रुतिम् ॥ ७४ ॥
मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः ।
प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७५ ॥
अथ रूप्यस्योत्पत्तिनामलक्षणगुणशोधनमारणानि ।
त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः ।
निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ७६ ॥
ततस्तूल्का समभवत्तस्यैकस्माद्विलोचनात् ।
अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ॥ ७७ ॥
तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतद्भुवि ।
११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् ।
कृत्रिमं चापि भवति वङ्गादेः सूतयोगतः ॥ ७८ ॥
अन्ये तु—
रूप्यं त्रिधा स्यात्सहजं कृत्रिमं खनिसंभवम् ।
कैलासादिस्थितं यद्धि सहजं रजतं हि तत् ॥ ७९ ॥
रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् ।
हिमाचलादिभूमौ च जायते खनिजं च तत् ॥ ८० ॥
मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् ।
गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षमम् ॥ ८१ ॥
वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् ।
कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ॥ ८२ ॥
गुणाः—
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ ८३ ॥
प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् ।
गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशिनी ॥ ८४ ॥
रसपद्धत्याम्—
अपकरजतं नैव संयोज्यं स्वर्णवद्गदे ।
पक्वं भस्मापि तन्नैव योज्यं ताम्रादिभस्मवत् ॥ ८५ ॥
व्यवहाराभावतः किंच श्वेतकुष्ठहरं हि तत् ।
इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादिषु ॥ ८६ ॥
गुणग्रन्थेऽपि क्वचित्—
प्रोक्तकर्मसु संयोज्यं रजतं हि विधानतः । इति ॥
अथाशुद्धरजतमारणे दोषमाह—
तारं शरीरस्य करोति तापं विड्बन्धतां यच्छति शुक्रनाशम् ।
वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥
११.] आयुर्वेदप्रकाशः । ११९
अथ रजतमारणम् । तत्रास्य विशेषशोधनम् । उक्तं च—
तैलतक्रादिशुद्धस्य रजतस्य विशेषतः ।
शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ॥ ८८ ॥
पत्रीकृतं तु रजतं प्रतप्तं जातवेदसि ।
निर्वापितमगस्त्यस्य रसे वारत्रयं शुचि ॥ ८९ ॥
तारं तप्तं त्रिधा क्षिप्तं तैले ज्योतिष्मतीभवे ।
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥ ९० ॥
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ।
जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः ।
इत्थं संशोधितं रूप्यं मृतं योज्यं रसादिषु ॥ ९१ ॥
अथ मारणम्—
विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ।
तालं गन्धं समं शुद्धं तन्मर्द्यं निम्बुकद्रवैः ॥ ९२ ॥
गोलकीकृत्य संशुद्धं मूषायां स्वर्णवद्दृढम् ।
द्वित्रैः पुटैर्भवेद्भस्म योज्यमेतद्रसादिषु ॥ ९३ ॥
इति सरसं रूप्यभस्म । मतान्तरम्—
हिङ्गुलेन च माक्षिकेण वलिना तुल्येन जम्भाम्भसा
लिप्तं रौप्यदलं पुटेन पटुना स्याद्भस्म मूषास्थितम् ॥ ९४ ॥
पटुना पुटेन गजपुटेन । मतान्तरम्—
तारपत्रं तुर्यभागं भागैकं शुद्धतालकम् ।
एतज्जम्बीरजद्रावैः कल्कीकृत्याखिलं भिषक् ॥ ९५ ॥
तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः ।
शरावसंपुटे तेषामूर्ध्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥
तारतुल्यं ततस्तानि रुद्धा गजपुटे पचेत् ।
त्रिंशदुत्पलकैर्वाऽपि विंशद्भिस्तारपञ्चता ॥ ९७ ॥
१२० आयुर्वेदीयग्रन्थमाला । [अध्यायः
भागैकं तालकं मर्द्यं याममम्लेन केनचित् ।
तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ ९८ ॥
धृत्वा मूषापुटे रुद्ध्वा पुटेत्रिंशद्वनोत्पलैः ।
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् ।
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ ९९ ॥
इति रूप्यभस्म ॥
स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् ।
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् ।
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ १०० ॥
इत्यपि रूप्यभस्म । इति रसं विना मध्यमं रूप्यभस्म ।
मतान्तरम्—
सूतगन्धकयोस्तारतुल्ययोः कजलीं भिषक् ।
द्रवीकृत्य कुमार्यद्भिस्तारपत्राणि लेपयेत् ॥ १०१ ॥
शरावसंपुटे रुद्ध्वा त्रिंशदुत्पलकैः पचेत् ।
द्विवारं रजतस्याशु भस्म स्यात् प्रायशः सितम् ॥ १०२ ॥
इत्यपि रससंयुक्तं रूप्यभस्म । अथ द्रुतिः—
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णावापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ १०३ ॥
अथ ताम्रस्योत्पत्तिनामलक्षणगुणशोधन-
मारणानि —
शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले ।
तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥ १०४ ॥
ताम्रं तु द्विविधं प्रोक्तं नेपालं म्लेच्छनामकम् ।
अतिशोणं मृदुः, कृष्णं कठिनं, क्रमशः स्मृतम् ॥ १०५ ॥
११. ] आयुर्वेदप्रकाशः । १२१
नामानि—
ताम्रमौदुम्बरं शुल्वमुदुम्बरमिति स्मृतम् ।
रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ १०६ ॥
लक्षणम्—
जपाकुसुमसंकाशं स्निग्धं मृदु घनक्षमम् ।
लोहनागोज्झितं ताम्रं नेपालं मृत्यवे शुभम् ॥ १०७ ॥
कृष्णं रूक्षमतिस्तब्धं श्वेतं चापि घनासहम् ।
लोहनागयुतं शुल्वं म्लेच्छं दुष्टं मृतौ त्यजेत् ॥ १०८ ॥
अन्यच्च—
न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते ।
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ १०९ ॥
भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः ।
अरुचिश्चित्तसंताप एते दोषा विषोपमाः ॥ ११० ॥
तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये ।
शुल्वस्य शोधनं प्राज्ञैर्विशेषात्समुदाहृतम् ॥ १११ ॥
यथा—
स्नुह्यर्कक्षीरलवणैस्ताम्रपत्राणि लेपयेत् ।
अग्नौ प्रताप्य निर्गुण्डीरसे संसेचयेत्त्रिशः ।
स्नुह्यर्कक्षीरसेकैर्वा शुल्वशुद्धिः प्रजायते ॥ ११२ ॥
अन्यमतम्—
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ ११३ ॥
इति विशेषशुद्धिः । अथ मारणम्—
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः ।
वासरत्रयमम्लेन ततः खल्वे विनिःक्षिपेत् ॥ ११४ ॥
११
१२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् ।
तत उद्धृत्य पत्राणि लेपयेद्विगुणेन च ॥ ११५ ॥
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् ।
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ ११६ ॥
तत्कल्केन बहिर्गोलं लेपयेद्व्यङ्गुलोन्मितम् ।
धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ ११७ ॥
वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः ।
दत्त्वा भाण्डमुखे मुद्रां, ततश्चुल्यां विपाचयेत् ॥ ११८ ॥
क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् ।
स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥
यामैकं गोलकं तच्च निक्षिपेत्सूरणोदरे ।
मृदा लेपस्तु कर्तव्यः सर्वतोऽङ्गुलमात्रकः ॥ १२० ॥
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ।
वमनं च विरेकं च भ्रमं क्लममथारुचिम् ।
विदाहं स्वेदमूत्क्लेदं न करोति कदाचन ॥ १२१ ॥
चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनगुंदा पत्रशाकम् । इति
ताम्रभस्म । अथान्यः प्रकारः—
ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् ।
मर्दयेद्यामयुग्मं तु यावत्कजलिका भवेत् ॥ १२२ ॥
तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् ।
संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ १२३ ॥
निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् ।
सन्धिरोधं द्वयोः कुर्यादम्बुभस्मविलेपनम् ॥ १२४ ॥
हण्डिकां पडुनाऽऽपूर्य भस्मना वा गलावधि ।
पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् ॥ १२५ ॥
चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ।