सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 134, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 134

११.] आयुर्वेदप्रकाशः । ११५
निषिञ्चेत्तप्ततप्तानि तैले तक्रे गवां जले ।
काञ्जिके च कुलित्थानां कपाये सप्तधा पृथक् ॥ ४९ ॥
एवं स्वर्णादिलोहानां विशुद्धिः संप्रजायते ।
तीक्ष्णादिलोहकिट्टं तु संशोध्यं लोहवद्बुधैः ॥ ५० ॥
अथ नागवङ्गयोर्विशेषमाह—
नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् ।
सच्छिद्रश्रावपिहिते हण्डिकास्थे द्रवे शनैः ।
सप्तधैवं विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥ ५१ ॥
अन्यमतम्—
सर्वलोहानि तप्तानि कदलीमूलवारिणि ।
सप्तधाऽभिनिषिक्तानि शुद्धिमायान्त्यथोत्तमम् ॥ ५२ ॥
अथ स्वर्णमारणम्—
सिद्धलक्ष्मीश्वरोक्तप्रक्रियाकुशलो भिषक् ।
लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥ ५३ ॥
शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्त धातवः ।
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥ ५४ ॥
इति सर्वधातुमारणं सामान्येन ॥
स्वर्णस्य द्विगुणं सूतमम्लेन सह मर्दयेत् ।
तद्गोलकसमं गन्धं निदध्यादधरोत्तरम् ॥ ५५ ॥
चूर्णीकृतं ततो रुद्ध्वा शरावद्वयसंपुटे ।
सवस्त्रया कुट्टितया मृदा संवेष्ट्य यत्नतः ॥ ५६ ॥
त्रिंशद्वनोपलैर्दद्यात्पुटान्येवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥ ५७ ॥
इति द्विगुणरसयुक्तं सर्वोत्कृष्टं हेमभस्म । अथान्यमतम्—
शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥ ५८ ॥