आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 131, कुल 232 में से
संदर्भ में पढ़ें११२ आयुर्वेदीयग्रन्थमाला। [अध्यायः
स्निग्धं च गौरवमुपैति च यत्तुलायां
ग्राह्यं तदेव कनकं मृदु रक्तपीतम् ॥ २५ ॥
अन्यच्च—
सुवर्णं शीतलं वृष्यं बल्यं गुरु रसायनम् ।
स्वादु तिक्तं च तुवरं पाके च स्वादु पिच्छिलम् ॥ २६ ॥
पवित्रं बृंहणं नेत्र्यं मेधास्मृतिमतिप्रदम् ।
हृद्यमायुष्करं कान्तिवाग्विशुद्धिस्थिरत्वकृत् ॥ २७ ॥
विषद्वयक्षयोन्मादत्रिदोषज्वरशोकजित् ।
अपकमेव संशुद्धं, पक्वं तत्त रसायनम् ॥ २८ ॥
अत्र पकापकप्रयोगविवेको रसपद्धत्याम्।—
पक्वं हेम रसायनं विदुरथापकं तु सद्योविष-
प्रध्वंसि क्षयिबृंहणं कृमिहरं वर्ण्यं ज्वरिभ्यो हितम् ।
रूप्याद्येषु विमृश्यवादिभिरुपक्षिप्तोऽस्त्यपके गुण-
स्ताम्रं चापि विपातिहिन्निगदितं वैद्यैरपरकं ध्रुवम् ॥२९॥
दृश्यते च वाग्भटे—
विषमुक्ताय दद्याच शुद्धायोर्ध्वमधस्तथा ।
सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम् ॥ ३० ॥
शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥ ३१ ॥
अथापकसुवर्णसेवने प्रकारद्वयमुक्तं तन्त्रान्तरे; तद्यथा—
अपकं हेम संघृष्टं शिलायां जलयोगतः ।
द्रवरूपं तु तत्पेयं मधुना गुणदायकम् ॥ ३२ ॥
यद्वाऽपि तबका(वरका)ख्यं तु स्वर्णपत्रं विचूर्णितम् ।
मधुना संगृहीतं चेत्सद्यो हन्ति विषादिकम् ॥ ३३ ॥
इत्यादि ज्ञेयम् ॥