सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 136, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 136

११०] आयुर्वेदप्रकाशः । ११७
निधाय सन्धिरोधं च कृत्वा संशोष्य गोलकम् ।
वह्निं खरतरं कुर्यादेवं दद्यात्पुटत्रयम् ।
निरुत्थं जायते भस्म सर्वकर्मसु योजयेत् ॥ ६९ ॥
इति हेमभस्म ॥
काञ्चनारप्रकारेण लाङ्गली हन्ति काञ्चनम् ।
ज्वालामुखी तथा हन्यात्तथा हन्ति मनःशिला ॥ ७० ॥
लाङ्गली कलिहारी । इति हेमभस्म ॥
शिलासिन्दूरयोश्चूर्णं समयोर्कदुग्धकैः ।
सप्तधा भावयित्वा तु शोषयेच्च पुनः पुनः ॥ ७१ ॥
ततस्तु गालिते हेम्नि कल्कोऽयं दीयते समः ।
पुनर्धमेतितरां यथा कल्को विलीयते ॥ ७२ ॥
एवं वेलात्रयं दद्यात्कल्कं हेममृतिर्भवेत् ।
इति रसवर्जं हेमभस्म । अथ स्वर्णभस्मपरीक्षा—
जाम्बवाभं सुवर्णस्य भस्म प्राहुर्भिषग्वराः ॥ ७३ ॥
अथ सुवर्णद्रुतिः ।—
चूर्णं सुरेन्द्रगोपानां देवदालीफलद्रवैः ।
भावितं सदृशं हेम करोति जलवद्द्रुतिम् ॥ ७४ ॥
मण्डूकास्थिवसाटङ्कहयलालेन्द्रगोपकैः ।
प्रतीवापेन कनकं सुचिरं तिष्ठति द्रुतम् ॥ ७५ ॥
अथ रूप्यस्योत्पत्तिनामलक्षणगुणशोधनमारणानि ।
त्रिपुरस्य वधार्थाय निर्निमेषैर्विलोचनैः ।
निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ७६ ॥
ततस्तूल्का समभवत्तस्यैकस्माद्विलोचनात् ।
अपरस्माद्वीरभद्रो गणो वह्निरिव ज्वलन् ॥ ७७ ॥
तृतीयो ह्यश्रुबिन्दुस्तु लोचनादपतद्भुवि ।