सामग्री पर जाएँ
सर्वकोश
आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

पृष्ठ 137, कुल 232 में से

संदर्भ में पढ़ें
पृष्ठ 137

११८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
तस्माद्रजतमुत्पन्नं नानाभूमिषु संस्थितम् ।
कृत्रिमं चापि भवति वङ्गादेः सूतयोगतः ॥ ७८ ॥
अन्ये तु—
रूप्यं त्रिधा स्यात्सहजं कृत्रिमं खनिसंभवम् ।
कैलासादिस्थितं यद्धि सहजं रजतं हि तत् ॥ ७९ ॥
रसेन्द्रवेधसंजातं संप्रोक्तं कृत्रिमं च तत् ।
हिमाचलादिभूमौ च जायते खनिजं च तत् ॥ ८० ॥
मारणार्थं लोकसिद्धं ग्राह्यं लक्षणलक्षितम् ।
गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षमम् ॥ ८१ ॥
वर्णाढ्यं चन्द्रवत्स्वच्छं रूप्यं नवगुणं शुभम् ।
कृत्रिमं कठिनं रूक्षं रक्तं पीतं दलं लघु ॥ ८२ ॥
गुणाः—
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।
वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ ८३ ॥
प्रमेहादिकरोगांश्च नाशयत्यचिराद्ध्रुवम् ।
गुटिकाऽस्य धृता वक्रे तृष्णाशोषविनाशिनी ॥ ८४ ॥
रसपद्धत्याम्—
अपकरजतं नैव संयोज्यं स्वर्णवद्गदे ।
पक्वं भस्मापि तन्नैव योज्यं ताम्रादिभस्मवत् ॥ ८५ ॥
व्यवहाराभावतः किंच श्वेतकुष्ठहरं हि तत् ।
इति लोकप्रसिद्धिस्तु तस्माद्योज्यं रसादिषु ॥ ८६ ॥
गुणग्रन्थेऽपि क्वचित्—
प्रोक्तकर्मसु संयोज्यं रजतं हि विधानतः । इति ॥
अथाशुद्धरजतमारणे दोषमाह—
तारं शरीरस्य करोति तापं विड्बन्धतां यच्छति शुक्रनाशम् ।
वीर्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥