आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 132, कुल 232 में से
संदर्भ में पढ़ें११. ] । आयुर्वेदप्रकाशः । ११३
अन्यच्च गुणविशेषादिकमाह—
सर्वौषधिप्रयोगेण व्याधयो न गता हि ये ।
कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥ ३४ ॥
शिलाजतुप्रयोगैस्तु ताप्यसूतकयोस्तथा ।
अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥ ३५ ॥
अथानुपानमाह—
मध्वामलकचूर्णं तु सुवर्णं चेति तन्त्रयम् ।
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंकटात् ॥ ३६ ॥
मेधाकामस्तु वचया श्रीकामः पद्मकेसरैः ।
शङ्खपुष्प्या वयोर्थी च विदार्या च प्रजार्थकः ॥ ३७ ॥
अथाशुद्धस्यासम्यङ्मारितस्य गुणाः—
बलं च वीर्यं हरते नराणां रोगव्रजं पोषयतीह काये ।
असौख्यकार्यैव सदा सुवर्णमशुद्धमेतन्मरणं च कुर्यात्॥३८
असम्यङ्मारितं स्वर्णं बलं वीर्यं च नाशयेत् ।
करोति रोगान्मृत्युं च तद्धन्याद्यत्नतस्ततः ॥ ३९ ॥
अथ स्वर्णादीनां मात्राकथनम् ।—
यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं, रविः ।
तारं तद्विगुणं, लोहमन्यत्तु त्रिगुणाधिकम् ॥ ४० ॥
गुञ्जामेकां समारभ्य यावत्स्युर्नवरक्तिकाः ।
तावल्लोहं समश्नीयाद्यथादोषबलं नरः ॥ ४१ ॥
अथ स्वर्णादिमारणे कियती परिभाषोच्यते; उक्तं च—
रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
विनिघ्नन्ति जराव्याधीन् रसयुक्तानि किं पुनः ॥ ४२ ॥
लोहानां मारणं श्रेष्ठं सर्वेषां रसभस्मना ।
मूलीभिर्मध्यमं प्राहुः कनिष्ठं गन्धकादिभिः ॥ ४३ ॥